श्रवणम्

10.130.3
कासी᳚त्प्र॒मा प्र᳚ति॒मा किं नि॒दान॒माज्यं॒ किमा᳚सीत्परि॒धिः क आ᳚सीत् ।
छन्द॒ः किमा᳚सी॒त्प्रउ᳚गं॒ किमु॒क्थं यद्दे॒वा दे॒वमय᳚जन्त॒ विश्वे᳚ ॥
▶ पदपाठः (Word-by-word)
का । आ॒सी॒त् । प्र॒॑मा । प्र॒ति॒॑मा । किम् । नि॒॑दान᳚म् । आज्य᳚म् । किम् । आ॒सी॒त् । प॒रि॒॑धिः । कः । आ॒सी॒त् ।
छन्दः᳚ । किम् । आ॒सी॒त् । प्रउ᳚गम् । किम् । उ॒क्थम् । यत् । दे॒वाः । दे॒वम् । अय᳚जन्त । विश्वे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वसर्जनोपायत्वेन प्रजापतिना सृष्टेयज्ञे विश्वस्य स्रष्टारो विश्वसृजो देवा विश्वसर्जनाय तं यज्ञमन्वतिष्ठत्। तस्मिन्समये जगतोऽनुत्सत्तेर्जगदन्तःपातिनो यागोपकरणभूताः पदार्थाः कथमासन्नित्यनया प्रश्नः क्रियते। यद्यदा विश्वे सर्वे साध्या देवा देवं प्रजापतिमयजन्त तदानीं तस्य यज्ञस्य प्रमा प्रमाणमियत्ता का कथंभूतासीत्। तथा प्रतिमा हविष्प्रतियोगित्वेन मीयते निर्मीयत इति प्रतिमा देवता। सा च तस्य यज्ञस्य कासित्। तथा निदानमादिकारणम् यागेऽक्प्रवृत्तस्य प्रवर्तकं फलं किमासीत्। तथाज्यं घृतमेतदुपलक्षितं हविर्वा तस्य यज्ञस्य किमासीत्। तथा परिथिः। परितो धीयन्त इति त्रयः परिधयो बाहु मात्राः पलाशादिव्रुक्षजन्याः। परिपूर्वाद्दधातेरुपसर्गे घोः किरिति किप्रत्ययः। सामान्यापेक्षमेकववचनम्। परिधयः क आसन्नित्यर्थः। तथा तस्य यज्ञस्य गायत्र्यादिकं छन्दः किमासीत्। तथा प्रौगमुक्तम्। उपलक्षणमेतत्। आज्यप्रौगादीन्युक्थानि शस्त्राणि वा कान्यासन्। एतेषु प्रश्नेषु त्रयाणामुत्तरं द्वृचेनाह॥३॥