धा॒तुर्द्युता᳚नात्सवि॒तुश्च॒ विष्णो᳚ रथंत॒रमा ज᳚भारा॒ वसि᳚ष्ठः ॥
पदपाठः (Word-by-word)
धा॒तुः । द्युता᳚नात् । स॒वि॒तुः । च॒ । विष्णोः᳚ । र॒थ॒म्॑त॒रम् । आ । ज॒भा॒र॒ । वसि᳚ष्ठः ॥
सायणभाष्यम् (Sayana Commentary)
प्रथ इति तृचं त्रिंशं सूक्तं वैश्वदेवं त्रैष्टुभम्। वासिष्ठः प्रथसंज्ञ ऋषिः प्रथमायाः। भारद्वाजः सप्रथाख्य ऋषिर्द्वितीयायाः। सूर्यपुत्रो घर्म ऋषिस्तृतीयायाः। तथा चानुक्रान्तम्। प्रथश्चैकर्चा प्रथो वासिष्ठः सप्रथो भारद्वाजो घर्मः सौर्यो वैश्वदेवमिति। प्रवर्ग्येऽभिष्टव एतत्सूक्तम्। सूत्रितम् च। गणानां त्वा प्रथश्च यस्य। आ. ४-६। इति॥
यस्य वसिष्ठस्य प्रथो नाम पुत्रो यस्य भरद्वाजस्य सप्रथो नाम पुत्रः तयोर्मध्ये वसिष्ठ अनुष्टुभस्यानुष्ट्प्च्छन्दसा युक्तस्य हविषो घर्माख्यस्य युदहविर्हविष्ट्वापादाकम् रथन्तरम्। रथरंहः साधनं साम तद्रथन्तरम्। धातुर्धातृसंज्ञाद्देवाद्द्युतानाद्द्योतमानात्सवितुश्च विष्णोश्चा जभार। आजहार। हृतवान्। हृग्रहोर्भ इति भत्वम्। रथशब्दोपपदात्तरतेः संज्ञायां भृतॄव्रुजीति खच्। अरुर्द्विषदजन्तस्येति मुमागमः॥१॥