अवि᳚न्द॒न्ते अति᳚हितं॒ यदासी᳚द्य॒ज्ञस्य॒ धाम᳚ पर॒मं गुहा॒ यत् ।
धा॒तुर्द्युता᳚नात्सवि॒तुश्च॒ विष्णो᳚र्भ॒रद्वा᳚जो बृ॒हदा च᳚क्रे अ॒ग्नेः ॥
धा॒तुर्द्युता᳚नात्सवि॒तुश्च॒ विष्णो᳚र्भ॒रद्वा᳚जो बृ॒हदा च᳚क्रे अ॒ग्नेः ॥
पदपाठः (Word-by-word)
अवि᳚न्दन् । ते । अति᳚॑हितम् । यत् । आसी᳚त् । य॒ज्ञस्य᳚ । धाम᳚ । प॒र॒मम् । गुहा᳚ । यत् ।
धा॒तुः । द्युता᳚नात् । स॒वि॒तुः । च॒ । विष्णोः᳚ । भ॒रत्॑वा᳚जः । बृ॒हत् । आ । च॒क्रे॒ । अ॒ग्नेः ॥
धा॒तुः । द्युता᳚नात् । स॒वि॒तुः । च॒ । विष्णोः᳚ । भ॒रत्॑वा᳚जः । बृ॒हत् । आ । च॒क्रे॒ । अ॒ग्नेः ॥
सायणभाष्यम् (Sayana Commentary)
हे धात्रादयस्तदविन्दन् अलभन्त यद्ब्रुहत्सामाख्यं घर्मस्य हविशह् संस्कारकमतिहितम् तिरोहितमासीत्। यच्च बृहत्साम यज्ञस्य ज्योतिष्तोमादेः परममुत्क्रुष्टं धाम धारकं शरीरभूतं वा गुहा गुहायामस्मदादिविषये निहितमासीत् तत्ते धात्रादयोऽलभन्त। तेभ्योग्नेश्च सकाशात्तद्बृहत्साम भरद्वाज ऋषिरा चक्रे। आभिमुख्येन कृतवान्। आहृतवानित्यर्थः॥२॥