श्रवणम्

10.181.3
ते᳚॑विन्द॒न्मन᳚सा॒ दीध्या᳚ना॒ यजु᳚ः ष्क॒न्नं प्र᳚थ॒मं दे᳚व॒यान᳚म् ।
धा॒तुर्द्युता᳚नात्सवि॒तुश्च॒ विष्णो॒रा सूर्या᳚दभरन्घ॒र्ममे॒ते ॥
▶ पदपाठः (Word-by-word)
ते । अ॒वि॒न्द॒न् । मन᳚सा । दीध्या᳚नाः । यजुः᳚ । स्क॒न्नम् । प्र॒थ॒मम् । दे॒व॒॑यान᳚म् ।
धा॒तुः । द्युता᳚नात् । स॒वि॒तुः । च॒ । विष्णोः᳚ । आ । सूर्या᳚त् । अ॒भ॒र॒न् । घ॒र्मम् । ए॒ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

ते धात्रादयो दीध्याना दीप्यमानाः सन्तो मनसा बुद्ध्याविन्दन्। अलभन्त। किं तत्। युजुर्यागसाधनम् स्कन्नं स्कन्दनीयमासेचनीयं प्रवृञ्चनसाधनं प्रथमं मुख्यं देवयानं देवानां प्राप्तिसाधनं घर्मम्। एवं धात्रादिभिः प्रथममुपलब्धं तं घर्मं धातोर्द्योतमानात्सवितुर्विष्णोः सूर्याच्चैत ऋत्विज आभरन्। अहरन्। आनीतवन्त इत्यर्थः॥३॥