दशमं मण्डलम् - सूक्तम् 173

6 ऋचः

ऋषिः: ध्रुवः देवता: राज्ञस्तुतिः छन्दः: अनुष्टुप्

सूक्तम् 10.173 - सम्पूर्णम्

1 / 6
ऋक्: 10.173.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
10.173.1
आ त्वा᳚हार्षम॒न्तरे᳚धि ध्रु॒वस्ति॒ष्ठावि᳚चाचलिः ।
विश᳚स्त्वा॒ सर्वा᳚ वाञ्छन्तु॒ मा त्वद्रा॒ष्ट्रमधि᳚ भ्रशत् ॥
▶ पदपाठः (Word-by-word)
आ । त्वा॒ । अ॒हा॒र्ष॒म् । अ॒न्तः । ए॒धि॒ । ध्रु॒वः । ति॒ष्ठ॒ । अवि᳚॑चाचलिः ।
विशः᳚ । त्वा॒ । सर्वाः᳚ । वा॒ञ्छ॒न्तु॒ । मा । त्वत् । रा॒ष्ट्रम् । अधि᳚ । भ्र॒श॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

आ त्वेति षडृचं द्वाविंशं सूक्तमाङ्गिरसस्य ध्रुवस्यार्षमानुष्टुभम्। अभिषिक्तस्य राज्ञः स्तुतिरूपोऽर्थो देवता। तथा चानुक्रान्तम्। अ त्वा षट् ध्रुवो राज्ञः स्तुतिस्त्वानुष्टुभं त्विति। राज्ञो युद्धाय सम्नहनेऽनेन सूक्तेनाभिमन्त्रणम् पुरोधसा कर्तव्यम्। सूत्रितं च। आ त्वाहार्षमन्तरेधीति पश्चाद्रथस्यावस्थाय। आ. गृ. ३-१२-२। इति॥

हे राजन् त्वा त्वामाहार्षम्। अस्मद्राष्ट्रस्य स्वामित्वेनानैषम्। स त्वमन्तरस्मासु मध्य एधि। स्वामी भव। ध्रुवो नित्यः सन्नविचाचलिरतिशयेन चलनरहित एव संस्तिष्ठ। राष्ट्रमधितिष्ठ। सर्वाश्च विशः प्रजास्त्वां वान्छन्तु। अयमेवास्माकं राजास्त्विति कामयन्तु। वाछि इच्छायाम्। त्वत् त्वत्तः सकाशाद्राष्ट्रं राज्यं माधिभ्रशत्। मा भ्रश्यतु। मा वियुक्तं भवतु। भन्यु अधः पतने॥१॥

10.173.2 समानपद
इ॒हैवैधि॒ माप᳚ च्योष्ठा॒ः पर्व᳚त इ॒वावि᳚चाचलिः ।
इन्द्र᳚ इवे॒ह ध्रु॒वस्ति᳚ष्ठे॒ह रा॒ष्ट्रमु᳚ धारय ॥
▶ पदपाठः (Word-by-word)
इ॒ह । ए॒व । ए॒धि॒ । मा । अप᳚ । च्यो॒ष्ठाः॒ । पर्व᳚तः॑इव । अवि᳚॑चाचलिः ।
इन्द्रः᳚॑इव । इ॒ह । ध्रु॒वः । ति॒ष्ठ॒ । इ॒ह । रा॒ष्ट्रम् । ऊं॒ इति᳚ । धा॒र॒य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे राजन् इहास्मिन्नेव राज्य एधि। स्वामित्त्वेन सर्वदा वर्तमानो भव। मापच्योष्ठाः। अपच्युतो मा भूः। मापगमः। पर्वत इव यथा पर्वतो नैश्चल्येनावतिष्ठते एवमचिचाचलिश्चलनरहितो भव। इन्द्र इव यथा स्वर्ग इन्द्रः एवमिह लोके त्वं ध्रुवस्तिष्ठ। स्थिरो भव। राष्ट्रस्य् राष्ट्रं चेह लोके धारय। स्वे स्वे कर्मण्यवस्थापय॥२॥

10.173.3
इ॒ममिन्द्रो᳚ अदीधरद्ध्रु॒वं ध्रु॒वेण᳚ ह॒विषा᳚ ।
तस्मै॒ सोमो॒ अधि᳚ ब्रव॒त्तस्मा᳚ उ॒ ब्रह्म᳚ण॒स्पति᳚ः ॥
▶ पदपाठः (Word-by-word)
इ॒मम् । इन्द्रः᳚ । अ॒दी॒ध॒र॒त् । ध्रु॒वम् । ध्रु॒वेण᳚ । ह॒विषा᳚ ।
तस्मै᳚ । सोमः᳚ । अधि᳚ । ब्र॒व॒त् । तस्मै᳚ । ऊं॒ इति᳚ । ब्रह्म᳚णः । पतिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इममभिषिक्तं ध्रुवेण स्थिरेण हविषा तर्प्यमाण इन्द्रो ध्रुवं स्थिरमदीधरत्। धारयतु। सोमश्च तस्मै राज्ञेऽधि ब्रवत्। अधिब्रवीतु। मदीयोऽयमिति पक्शपातवचनं करोतु। तस्मा उ तस्मा एव ब्रह्मणस्पतिर्मन्त्रस्य पालको देवश्चाधिब्रवीतु॥३॥

10.173.4
ध्रु॒वा द्यौर्ध्रु॒वा पृ᳚थि॒वी ध्रु॒वास॒ः पर्व᳚ता इ॒मे ।
ध्रु॒वं विश्व᳚मि॒दं जग᳚द्ध्रु॒वो राजा᳚ वि॒शाम॒यम् ॥
▶ पदपाठः (Word-by-word)
ध्रु॒वा । द्यौः । ध्रु॒वा । पृ॒थि॒वी । ध्रु॒वासः᳚ । पर्व᳚ताः । इ॒मे ।
ध्रु॒वम् । विश्व᳚म् । इ॒दम् । जग᳚त् । ध्रु॒वः । राजा᳚ । वि॒शाम् । अ॒यम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्यौर्ध्रुवा स्थिरा भवति। पृथिवी च ध्रुवा स्थिरा भवति। इमे द्रुश्यमानाः पर्वता महीधराश्च ध्रुवासः स्थिराः। इदं विश्वं सर्वं जगद्ध्रुवं स्थिरं भवति। एवमेवायं विशां प्रजानां राजा स्वामी सन् ध्रुवः स्थिरो भवतु॥४॥

10.173.5
ध्रु॒वं ते॒ राजा॒ वरु᳚णो ध्रु॒वं दे॒वो बृह॒स्पति᳚ः ।
ध्रु॒वं त॒ इन्द्र᳚श्चा॒ग्निश्च᳚ रा॒ष्ट्रं धा᳚रयतां ध्रु॒वम् ॥
▶ पदपाठः (Word-by-word)
ध्रु॒वम् । ते॒ । राजा᳚ । वरु᳚णः । ध्रु॒वम् । दे॒वः । बृह॒स्पतिः᳚ ।
ध्रु॒वम् । ते॒ । इन्द्रः᳚ । च॒ । अ॒ग्निः । च॒ । रा॒ष्ट्रम् । धा॒र॒य॒ता॒म् । ध्रु॒वम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे राजन् ते तव राष्ट्रं राजा राजमानो वरुणो ध्रुवं स्थिरं धारयतु। देवो दानदिगुणयुक्तो बृहस्पतिर्ध्रुवं धारयतु। इन्द्रश्चाग्निश्चोभावपि ते तव राष्ट्रम् ध्रुवं स्थिरं धारयताम्। इन्द्राग्न्योरुभयोरपेक्षया ध्रुवशब्दस्य द्विः प्रयोगः॥५॥

10.173.6
ध्रु॒वं ध्रु॒वेण᳚ ह॒विषा॒भि सोमं᳚ मृशामसि ।
अथो᳚ त॒ इन्द्र॒ः केव᳚ली॒र्विशो᳚ बलि॒हृत᳚स्करत् ॥
▶ पदपाठः (Word-by-word)
ध्रु॒वम् । ध्रु॒वेण᳚ । ह॒विषा᳚ । अ॒भि । सोम᳚म् । मृ॒शा॒म॒सि॒ ।
अथो॒ इति᳚ । ते॒ । इन्द्रः᳚ । केव᳚लीः । विशः᳚ । ब॒लि॒॑हृतः᳚ । क॒र॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ध्रुवेण स्थिरेण हविषा पुरोडाशादिना युक्तं ध्रुवं स्थिरं सोममभिमृशामसि। अभिमृशामः। देवतामभिलक्ष्य यागार्थं वयमृत्विजः संस्पृशामः। अथो अथानन्तरमेवेन्द्रो विशः प्रजास्ते तवैव केवलीरसाधारणाः सतीर्बलिहृतः करस्य प्रदात्रीः करत्। करोतु॥६॥