श्रवणम्

10.173.1
आ त्वा᳚हार्षम॒न्तरे᳚धि ध्रु॒वस्ति॒ष्ठावि᳚चाचलिः ।
विश᳚स्त्वा॒ सर्वा᳚ वाञ्छन्तु॒ मा त्वद्रा॒ष्ट्रमधि᳚ भ्रशत् ॥
▶ पदपाठः (Word-by-word)
आ । त्वा॒ । अ॒हा॒र्ष॒म् । अ॒न्तः । ए॒धि॒ । ध्रु॒वः । ति॒ष्ठ॒ । अवि᳚॑चाचलिः ।
विशः᳚ । त्वा॒ । सर्वाः᳚ । वा॒ञ्छ॒न्तु॒ । मा । त्वत् । रा॒ष्ट्रम् । अधि᳚ । भ्र॒श॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

आ त्वेति षडृचं द्वाविंशं सूक्तमाङ्गिरसस्य ध्रुवस्यार्षमानुष्टुभम्। अभिषिक्तस्य राज्ञः स्तुतिरूपोऽर्थो देवता। तथा चानुक्रान्तम्। अ त्वा षट् ध्रुवो राज्ञः स्तुतिस्त्वानुष्टुभं त्विति। राज्ञो युद्धाय सम्नहनेऽनेन सूक्तेनाभिमन्त्रणम् पुरोधसा कर्तव्यम्। सूत्रितं च। आ त्वाहार्षमन्तरेधीति पश्चाद्रथस्यावस्थाय। आ. गृ. ३-१२-२। इति॥

हे राजन् त्वा त्वामाहार्षम्। अस्मद्राष्ट्रस्य स्वामित्वेनानैषम्। स त्वमन्तरस्मासु मध्य एधि। स्वामी भव। ध्रुवो नित्यः सन्नविचाचलिरतिशयेन चलनरहित एव संस्तिष्ठ। राष्ट्रमधितिष्ठ। सर्वाश्च विशः प्रजास्त्वां वान्छन्तु। अयमेवास्माकं राजास्त्विति कामयन्तु। वाछि इच्छायाम्। त्वत् त्वत्तः सकाशाद्राष्ट्रं राज्यं माधिभ्रशत्। मा भ्रश्यतु। मा वियुक्तं भवतु। भन्यु अधः पतने॥१॥