दशमं मण्डलम् - सूक्तम् 99

12 ऋचः

ऋषिः: वम्रो वैखानसः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 10.99 - सम्पूर्णम्

1 / 12
ऋक्: 10.99.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (12)
10.99.1
कं न᳚श्चि॒त्रमि᳚षण्यसि चिकि॒त्वान्पृ᳚थु॒ग्मानं᳚ वा॒श्रं वा᳚वृ॒धध्यै᳚ ।
कत्तस्य॒ दातु॒ शव᳚सो॒ व्यु᳚ष्टौ॒ तक्ष॒द्वज्रं᳚ वृत्र॒तुर॒मपि᳚न्वत् ॥
▶ पदपाठः (Word-by-word)
कम् । नः॒ । चि॒त्रम् । इ॒ष॒ण्य॒सि॒ । चि॒कि॒त्वान् । पृ॒थु॒॑ग्मान᳚म् । वा॒श्रम् । व॒वृ॒धध्यै᳚ ।
कत् । तस्य᳚ । दातु᳚ । शव᳚सः । वि॑उ᳚ष्टौ । तक्ष᳚त् । वज्र᳚म् । वृ॒त्र॒॑तुर᳚म् । अपि᳚न्वत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

कं न इति द्वादशर्चं नवमं सूक्तम्। वैखानसस्य वम्रस्यार्षं त्रैष्टुभमैन्द्रम्। तथा चानुक्रान्तम्। कं नो वम्रो वैखानस इति। गतो विनियोगः॥

हे इन्द्र नोऽस्माकं चित्रं चायनीयं कं धनविशेषमिषण्यसि। प्रेरयसि। चिकित्वान् सर्वथा प्रेरणीयमिति जानन्। कीदृशं तम्। प्रुथुग्मानं पृथुभावं प्राप्नुवन्तं वात्रं शब्दनीयं स्तुत्यम्। किमर्थं च। ववृधद्या अस्माकं वर्धनाय। किञ्च तस्येन्द्रस्य तवसो बलस्य ब्युष्टौ व्युच्छने सति कद्दातु किं दानमस्माकं भवतीति शेषः। यं वज्रं वृत्रतुरं वृत्रस्यावरकस्य पापस्य हिंसकं त्वष्ट्वा तक्षत् ताक्षत् साधु सम्पादितवान् अपिन्वत् असिञ्चच्च। तस्य शवसो व्युष्टाविति सम्बन्धः। यद्वा। हे इन्द्र कत्किं तस्य वज्रस्य दानं भवति यं वज्रमिन्द्रार्थं तक्षदिति योजना। मह्यं त्वष्टा वज्रमतक्षदायसम्। ऋ. १०-४८-३। इति मन्त्रान्तरम्॥१॥

10.99.2
स हि द्यु॒ता वि॒द्युता॒ वेति॒ साम᳚ पृ॒थुं योनि᳚मसुर॒त्वा स᳚साद ।
स सनी᳚ळेभिः प्रसहा॒नो अ᳚स्य॒ भ्रातु॒र्न ऋ॒ते स॒प्तथ᳚स्य मा॒याः ॥
▶ पदपाठः (Word-by-word)
सः । हि । द्यु॒ता । वि॒॑द्युता᳚ । वेति᳚ । साम᳚ । पृ॒थुम् । योनि᳚म् । अ॒सु॒र॒॑त्वा । आ । स॒सा॒द॒ ।
सः । स॑नी᳚ळेभिः । प्र॒॑स॒हा॒नः । अ॒स्य॒ । भ्रातुः᳚ । न । ऋ॒ते । स॒प्तथ᳚स्य । मा॒याः ॥
▶ सायणभाष्यम् (Sayana Commentary)

स हि स खल्विन्द्रो द्युता द्योतमानेन विद्युतैतन्नामकेनायुधेन युक्तः सन् साम सूत्रात्मकं यज्ञसम्बन्धि वेति। गच्छति। तथासुरत्वासुरत्वेन बलेन युक्तः सन् पृथुं विस्तीर्णं योनिं फलस्योत्पादकं यज्ञं ससाद। सङ्गतो भवति। स इन्द्रः सनीळेभिः॥ नीडं विमानम्। सविमानैर्मरुद्भिर्युक्तः प्रसहानोऽभि भवन्भवति। तस्य सप्तथस्यादित्यानां धात्रादीनां मध्ये सप्तमस्येन्द्रस्य भ्रातुर्भागैर्भक्तव्यस्य मायासुर्यते यज्ञे न सम्भवतीति शेषः॥२॥

10.99.3 समानपद
स वाजं॒ याताप᳚दुष्पदा॒ यन्त्स्व᳚र्षाता॒ परि᳚ षदत्सनि॒ष्यन् ।
अ॒न॒र्वा यच्छ॒तदु᳚रस्य॒ वेदो॒ घ्नञ्छि॒श्नदे᳚वा{4} अ॒भि वर्प᳚सा॒ भूत् ॥
▶ पदपाठः (Word-by-word)
सः । वाज᳚म् । याता᳚ । अप᳚दुः॑पदा । यन् । स्वः᳚॑साता । परि᳚ । स॒द॒त् । स॒नि॒ष्यन् ।
अ॒न॒र्वा । यत् । श॒त॑दु᳚रस्य । वेदः᳚ । घ्नन् । शि॒श्न॑दे᳚वान् । अ॒भि । वर्प᳚सा । भूत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाजं शूरैर्गन्तव्यं सङ्ग्रामं याता स इन्द्रः । न लोकाव्ययेति षष्ठी प्रतिषेधः। अपदुष्पदापगतदुष्टपतनेन यन् गच्छन् सनिष्यंस्तत्र शत्रुधनानि सम्भक्तुमिच्छन् परि षदत्। परिषीदति। कुत्रेति उच्यते। स्वर्षाता स्वर्षातौ सर्वलाभोपेते सङ्ग्रामे। किञ्चानर्वा युद्धेऽक्प्रत्युत इन्द्रः शतदुरस्य शत्रुपुरस्यान्तर्निहितं यद्वेदो धनमस्ति तद्धनं वर्पसावरकेण बलेनाभि भुत्। अभिभवति। किं कुर्वन्। शिश्नदेवानब्रह्मचर्याञ्शतद्वारेषु शत्रुपुरसम्बन्धिषु वर्तमानान् घ्नन् हिंसन्॥३॥

10.99.4
स य॒ह्व्यो॒३॒᳚॑वनी॒र्गोष्वर्वा जु᳚होति प्रध॒न्या᳚सु॒ सस्रि᳚ः ।
अ॒पादो॒ यत्र॒ युज्या᳚सो॑र॒था द्रो॒ण्य᳚श्वास॒ ईर᳚ते घृ॒तं वाः ॥
▶ पदपाठः (Word-by-word)
सः । य॒ह्व्यः᳚ । अ॒वनीः᳚ । गोषु᳚ । अर्वा᳚ । आ । जु॒हो॒ति॒ । प्र॒॑ध॒न्या᳚सु । सस्रिः᳚ ।
अ॒पादः᳚ । यत्र᳚ । युज्या᳚सः । अ॒र॒थाः । द्रो॒णि॑अ᳚श्वासः । ईर᳚ते । घृ॒तम् । वारिति॒ वाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

स इन्द्रोऽर्वा मेघेष्वभिगन्ता सस्रिः सरनकुशलः प्रधन्यासु प्रकृष्टधननिमित्तासु गोषु भूमिषु यह्व्यः। महन्नामैतत्। महतीरवनीः। अवन्तीत्यवनय आपः। ता आ जुहोति। आक्षिपति। यत्र यासु भूमिष्वपादः पादरहिता अरथा रथवर्जिताः। पादरहिताः केचन रथेन गच्छन्ति। केनापि शून्या द्रोण्यश्वासो द्रुतव्यापना युज्यासो युज्या इन्द्रस्य सख्यो नद्यो वार्वारकं घृतमुदकमीरते प्रेरयन्ति तत्राजुहोति॥४॥

10.99.5
स रु॒द्रेभि॒रश᳚स्तवार॒ ऋभ्वा᳚ हि॒त्वी गय᳚मा॒रेअ᳚वद्य॒ आगा᳚त् ।
व॒म्रस्य᳚ मन्ये मिथु॒ना विव᳚व्री॒ अन्न᳚म॒भीत्या᳚रोदयन्मुषा॒यन् ॥
▶ पदपाठः (Word-by-word)
सः । रु॒द्रेभिः᳚ । अश᳚स्त॑वारः । ऋभ्वा᳚ । हि॒त्वी । गय᳚म् । आ॒रे॑अ᳚वद्यः । आ । अ॒गा॒त् ।
व॒म्रस्य᳚ । म॒न्ये॒ । मि॒थु॒ना । विव᳚व्री॒ इति॒ वि॑व᳚व्री । अन्न᳚म् । अ॒भि॒॑इत्य᳚ । अ॒रो॒द॒य॒त् । मु॒षा॒यन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

स इन्द्रो रुद्रेभी रुद्रपुत्रैर्मरुद्भिः सहित आगात्। आगच्छतु। कीदृशः। अशस्तवारः स्तोतृभिरप्रार्थितधनः। स्वयमेव प्रदातेत्यर्थः। तथर्भ्वा महान् गयं हित्वी हित्वा स्वस्थानं परित्यज्यागात्। आगच्छतु। तत्र सम्बन्धः। आरे अवद्यो दूरेगतगर्घ्यः। किञ्च वम्रस्यैतन्नामकस्यर्षेर्मम मिथुना मिथुनौ माता पितरौ विपन्री विगतज्वरौ मन्ये। अवगच्छामि। अयं वम्रोऽन्नं शत्रुसम्बन्ध्यभीत्याभिप्राप्य मुषायन्मुश्णन्नरोदयत्। रोदयति। छन्दसि शायजपीत्यहावपि मुशेः श्नः शायजादेशः॥५॥

10.99.6 समानपद
स इद्दासं᳚ तुवी॒रवं॒ पति॒र्दन्ष᳚ळ॒क्षं त्रि᳚शी॒र्षाणं᳚ दमन्यत् ।
अ॒स्य त्रि॒तो न्वोज᳚सा वृधा॒नो वि॒पा व᳚रा॒हमयो᳚अग्रया हन् ॥
▶ पदपाठः (Word-by-word)
सः । इत् । दास᳚म् । तु॒वि॒॑रव᳚म् । पतिः᳚ । दन् । ष॒ट्॑अ॒क्षम् । त्रि॒॑शी॒र्षाण᳚म् । द॒म॒न्य॒त् ।
अ॒स्य । त्रि॒तः । नु । ओज᳚सा । वृ॒धा॒नः । वि॒पा । व॒रा॒हम् । अयः᳚॑अग्रया । ह॒न्निति᳚ हन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

स इत् स एवेन्द्रः पतिः सर्वस्य स्वामी दासमुपक्शपयितारं तुवीरवं बहुशब्दं सङ्ग्रामे भयङ्करं शब्दं कुर्वाणं वृत्रं दन् दमयन् शळक्षमक्शिषट्कोपेतं त्रिशीर्षाणं त्रिशिरस्कं त्वष्टुः पुत्रं विश्वरूपं दमन्यत्। दमितं प्रहर्तुमैच्छत्। अवधीदित्यर्थः। यद्वा। दमयतीति दमनः। नन्द्यादित्वाल्ल्युः। स इवाचरति। उपमानादाजारे। पा. ३-१-१०। इति क्यच्यन्त्यलोपश्चान्दसः। ततो लङि बहुलं छन्दसीत्यडभावः। किञ्च त्रित एतन्नामा महर्षिरस्येन्द्रस्यौजसा बलेन वृधानो वर्धमानो विपाङ्गुल्या। कीदृश्या। आयो अग्रयायोवत्कठिननखया वराहं वराहारमुदकवन्तं मेघं व्यहन्। विहतवान्॥६॥

10.99.7
स द्रुह्व᳚णे॒ मनु᳚ष ऊर्ध्वसा॒न आ सा᳚विषदर्शसा॒नाय॒ शरु᳚म् ।
स नृत᳚मो॒ नहु᳚षो॒॑स्मत्सुजा᳚त॒ः पुरो᳚॑भिन॒दर्ह᳚न्दस्यु॒हत्ये᳚ ॥
▶ पदपाठः (Word-by-word)
सः । द्रुह्व᳚णे । मनु᳚षे । ऊ॒र्ध्व॒सा॒नः । आ । सा॒वि॒ष॒त् । अ॒र्श॒सा॒नाय᳚ । शरु᳚म् ।
सः । नृ॑त᳚मः । नहु᳚षः । अ॒स्मत् । सु॑जा᳚तः । पुरः᳚ । अ॒भि॒न॒त् । अर्ह᳚न् । द॒स्यु॒॑हत्ये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

स इन्द्रो द्रुह्वणे द्रुह्वणाय दृढं शत्रुभिर्ह्वातव्याय मनुषे मनुष्याय योद्ध्रे स्वभक्तायोर्ध्वसानः। ऊर्ध्व उच्छ्रितः शौर्यादिभिर्गुणैरधिकः सन् स्यति शत्रूणामन्तम् करोतीत्यूर्ध्वसः। स इवाचरन्। ऊर्ध्वसशब्दादाचारार्थे क्विबन्ताच्छानच्। अर्शसानाय शत्रूणां हिंसित्रे शरुं हिंसकमायुधमा साविशत्। आभिमुइख्येन प्रसौति। यच्छति। यद्वा। द्रुह्वणे मनुषे द्रोग्धव्याय मनुष्यायार्शसानाय स्वभक्तहिंसित्रे तस्य वधार्थमूर्ध्वसानः सञ्शरुमा साविशत्। वज्रं प्रेरयति। स एवेन्द्रो नहुषो मनुश्यान्नृतमो मनुष्याणां नेतृतमः सङ्ग्रामे शूराणां गमयितृतमः। यद्वा नृतमो नहुशो बन्धकश्च। अस्मदस्मदर्थं सुजातः सुष्ठु प्रादुर्भूतोऽर्हन् पूज्यः सन् दस्युहत्ये। दस्यव उपक्शपयितारः शत्रवः। तेषां हत्यं हननं यस्मिन् तादृशे सङ्ग्रामे पुरह् शत्रूणां शरीराण्यभिनत्। भिन्नवान्॥७॥

10.99.8
सो अ॒भ्रियो॒ न यव᳚स उद॒न्यन्क्षया᳚य गा॒तुं वि॒दन्नो᳚ अ॒स्मे ।
उप॒ यत्सीद॒दिन्दुं॒ शरी᳚रैः श्ये॒नो॑यो᳚पाष्टिर्हन्ति॒ दस्यू᳚न् ॥
▶ पदपाठः (Word-by-word)
सः । अ॒भ्रियः᳚ । न । यव᳚से । उ॒द॒न्यन् । क्षया᳚य । गा॒तुम् । वि॒दत् । नः॒ । अ॒स्मे इति᳚ ।
उप᳚ । यत् । सीद᳚त् । इन्दु᳚म् । शरी᳚रैः । श्ये॒नः । अयः᳚॑अपाष्टिः । ह॒न्ति॒ । दस्यू᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

स इन्द्रोऽभ्रियो न। न भ्राजन्तेऽपो बिभ्रतिति वाभ्राणि मेघाः। तेषां सङ्घोऽभ्रियः। स इव यवसे गवादिभक्षणसाधनाय तृणायोदन्यन्नुदकं दातुमिच्छन्। तथा क्षयाय गमनाय निवासाय वास्मे अस्माकं गातुं मार्गं विदल्लम्भयन्। न इति पूरणः। तादृशः सन् यद्यदेन्दुं सोमं शरीरैः स्वशरीरावयवैरङ्गैरुप सीदत् उपगच्छति। यच्छब्दयोगादनिघातः। तदानीं श्येनः। सादृश्यप्रधानोऽयं निर्देशः। श्येनसदृशः श्येनवच्छंसनीयगमनोऽयोपाष्टिः। अपयष्टिर्व्याप्तिर्यस्य स प्रदेशोऽपाष्टिः पार्ष्णिः। आयो मयोऽपाष्टिः पार्ष्णिर्यस्य सः। दस्यूञ्शत्रून्हन्ति। हिनस्ति॥८॥

10.99.9
स व्राध᳚तः शवसा॒नेभि᳚रस्य॒ कुत्सा᳚य॒ शुष्णं᳚ कृ॒पणे॒ परा᳚दात् ।
अ॒यं क॒विम᳚नयच्छ॒स्यमा᳚न॒मत्कं॒ यो अ᳚स्य॒ सनि᳚तो॒त नृ॒णाम् ॥
▶ पदपाठः (Word-by-word)
सः । व्राध᳚तः । श॒व॒सा॒नेभिः᳚ । अ॒स्य॒ । कुत्सा᳚य । शुष्ण᳚म् । कृ॒पणे᳚ । परा᳚ । अ॒दा॒त् ।
अ॒यम् । क॒विम् । अ॒न॒य॒त् । श॒स्यमा᳚नम् । अत्क᳚म् । यः । अ॒स्य॒ । सनि᳚ता । उ॒त । नृ॒णाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

स इन्द्रो व्राधतः। महन्नामैतत्। महतोऽपि शत्रूञ्शवसानेभिर्बलमाचरद्भिरायुधैरस्य। अस्यतु। असु क्षेपने। व्यत्ययेन मध्यमः। कुत्सायैतन्नामकाय कृपणे स्तोत्रे। कृपतिः स्तुतिकर्मा। शुश्णं शोषकमेतन्नामकमसुरं परादात्। पराभुय खण्डितवान्। कुत्साय शुष्णमशुषं नि बर्हीः। ऋ. ४-१६-१२। इति मन्त्रान्तरम्। किञ्चायमिन्द्रः कविमुशनसम् । कविरिति पितृनाम्ना पुत्रस्यापि व्यवहार उपचारात्। शस्यमानं स्तुवन्तमनयत्। वशं प्रापयत्तस्य विरोधिनम्। यद्वा। कविं भार्गवमेव स्तोतृभिः शस्यमानं स्ववशमनयत्। यः कविरस्येन्द्रस्याक्तं रूपं सनिता सम्भक्ता भवति। न लोकाव्ययेति षष्ठीप्रतिषेधः। उतापि च नृणां वृष्त्यादिनेतृणामिन्द्रानुचराणां मरुतां यः कविः सनिता। तमनयदिति॥९॥

10.99.10
अ॒यं द᳚श॒स्यन्नर्ये᳚भिरस्य द॒स्मो दे॒वेभि॒र्वरु᳚णो॒ न मा॒यी ।
अ॒यं क॒नीन᳚ ऋतु॒पा अ᳚वे॒द्यमि᳚मीता॒ररुं॒ यश्चतु᳚ष्पात् ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । द॒श॒स्यन् । नर्ये᳚भिः । अ॒स्य॒ । द॒स्मः । दे॒वेभिः᳚ । वरु᳚णः । न । मा॒यी ।
अ॒यम् । क॒नीनः᳚ । ऋ॒तु॒॑पाः । अ॒वे॒दि॒ । अमि᳚मीत । अ॒ररु᳚म् । यः । चतुः᳚॑पात् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिन्द्रो दशस्यन् स्तोतृभ्यो धनं प्रयच्छन्। दशस्यतिर्दानकर्मा। नर्येभिर्नयैर्नृहितैर्मरुद्भिरस्य अस्यति। छान्दसस्तिपो लोपः। यद्वा। व्यत्ययेन लोण्मध्यमः। तथा देवेभिर्द्योतमानैः स्वतेजोभिर्दस्मो दर्शनीयो वरुणो न वरुण इद। वरुणस्तमोवारक आदित्यो वरुण एव वा। स इव मायी मायावान्। तथायं कनीनः कमनीय ऋतुपा ऋतौ पातावेदि। अज्ञायि। तथाररुमसुरमेतन्नामानममिमी अमिनात्। योऽररुश्चतुष्पात् पाचचतुष्टयोपेतः। मीङ् हिंसायाम् । लङि बहुलं छन्दसीति विकरणस्य श्लुः॥१०॥

10.99.11
अ॒स्य स्तोमे᳚भिरौशि॒ज ऋ॒जिश्वा᳚ व्र॒जं द᳚रयद्वृष॒भेण॒ पिप्रो᳚ः ।
सुत्वा॒ यद्य᳚ज॒तो दी॒दय॒द्गीः पुर᳚ इया॒नो अ॒भि वर्प᳚सा॒ भूत् ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । स्तोमे᳚भिः । औ॒शि॒जः । ऋ॒जिश्वा᳚ । व्र॒जम् । द॒र॒य॒त् । वृ॒ष॒भेण᳚ । पिप्रोः᳚ ।
सुत्वा᳚ । यत् । य॒ज॒तः । दी॒दय᳚त् । गीः । पुरः᳚ । इ॒या॒नः । अ॒भि । वर्प᳚सा । भूत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अश्येन्द्रय सोत्मेभिः स्तोत्रैरौशिज उशिजः पुत्र ऋजिश्वैतन्नामा वृशभेण वज्रेण व्रुषभेण वा युक्तं व्रजं गोष्थं पिप्रोरेतन्नामकस्यासुरस्य सम्बन्धिनं तेनापहृत्य पालितं दरयत्। अदारयत्। यद्यदा सुत्वा सोमस्य सोता। सुयजोर्ङ्वनिबिति वनिप्। ह्रस्यस्य पितीति तुक्। यजतो यश्टौशिजो गीः स्तुतिवाचो दीदयत् दीपितवान्। तथा यद्यदेयानो गच्छन् पुरः शत्रुपुराणि। यद्वा। पुरः पुर इव सङ्घीभूतानि पापानि। अभि भुत्। अभिभवति। केन साधनेन। वर्पसा। रूपनामैतत्। रूपेणेन्द्रानुगृहीतेन। यदैवमकरोत् तदा व्रजं दरयदिति सम्बन्धः॥११॥

10.99.12
ए॒वा म॒हो अ᳚सुर व॒क्षथा᳚य वम्र॒कः प॒ड्भिरुप᳚ सर्प॒दिन्द्र᳚म् ।
स इ᳚या॒नः क᳚रति स्व॒स्तिम᳚स्मा॒ इष॒मूर्जं᳚ सुक्षि॒तिं विश्व॒माभा᳚ः ॥
▶ पदपाठः (Word-by-word)
ए॒व । म॒हः । अ॒सु॒र॒ । व॒क्षथा᳚य । व॒म्र॒कः । प॒ट्॑भिः । उप᳚ । स॒र्प॒त् । इन्द्र᳚म् ।
सः । इ॒या॒नः । क॒र॒ति॒ । स्व॒स्तिम् । अ॒स्मै॒ । इष᳚म् । ऊर्ज᳚म् । सु॒॑क्षि॒तिम् । विश्व᳚म् । आ । अ॒भा॒रित्य᳚भाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनया स्तुतिमुपसंहृत्याभिमतं वम्रकः पार्थयते। हे असुर बलवन्निन्द्र त्वामेमैवमुक्तप्रकारेण महो महतो हविशः स्तोत्रस्य वा वक्षथाय वहनाय महतः स्वर्गादेः प्रापणाय वा पड्भिः पादैरुप सर्पत्। उपागमत्। स इयान उपागम्यमानः सन् करति करोतु स्वस्तिमविनाशमस्मै वम्रकाय। तथेषमन्नमूर्जं रसं सुक्षितिं सुनिवासं सम्यग्विश्वं सर्वमाभः। आहरतु॥१२॥