श्रवणम्

10.99.8
सो अ॒भ्रियो॒ न यव᳚स उद॒न्यन्क्षया᳚य गा॒तुं वि॒दन्नो᳚ अ॒स्मे ।
उप॒ यत्सीद॒दिन्दुं॒ शरी᳚रैः श्ये॒नो॑यो᳚पाष्टिर्हन्ति॒ दस्यू᳚न् ॥
▶ पदपाठः (Word-by-word)
सः । अ॒भ्रियः᳚ । न । यव᳚से । उ॒द॒न्यन् । क्षया᳚य । गा॒तुम् । वि॒दत् । नः॒ । अ॒स्मे इति᳚ ।
उप᳚ । यत् । सीद᳚त् । इन्दु᳚म् । शरी᳚रैः । श्ये॒नः । अयः᳚॑अपाष्टिः । ह॒न्ति॒ । दस्यू᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

स इन्द्रोऽभ्रियो न। न भ्राजन्तेऽपो बिभ्रतिति वाभ्राणि मेघाः। तेषां सङ्घोऽभ्रियः। स इव यवसे गवादिभक्षणसाधनाय तृणायोदन्यन्नुदकं दातुमिच्छन्। तथा क्षयाय गमनाय निवासाय वास्मे अस्माकं गातुं मार्गं विदल्लम्भयन्। न इति पूरणः। तादृशः सन् यद्यदेन्दुं सोमं शरीरैः स्वशरीरावयवैरङ्गैरुप सीदत् उपगच्छति। यच्छब्दयोगादनिघातः। तदानीं श्येनः। सादृश्यप्रधानोऽयं निर्देशः। श्येनसदृशः श्येनवच्छंसनीयगमनोऽयोपाष्टिः। अपयष्टिर्व्याप्तिर्यस्य स प्रदेशोऽपाष्टिः पार्ष्णिः। आयो मयोऽपाष्टिः पार्ष्णिर्यस्य सः। दस्यूञ्शत्रून्हन्ति। हिनस्ति॥८॥