वात॒ आ वा᳚तु भेष॒जं श॒म्भु म᳚यो॒भु नो᳚ हृ॒दे ।
प्र ण॒ आयूं᳚षि तारिषत् ॥
प्र ण॒ आयूं᳚षि तारिषत् ॥
पदपाठः (Word-by-word)
वातः᳚ । आ । वा॒तु॒ । भे॒ष॒जम् । श॒म्॑भु । म॒यः॒॑भु । नः॒ । हृ॒दे ।
प्र । नः॒ । आयूं᳚षि । ता॒रि॒ष॒त् ॥
प्र । नः॒ । आयूं᳚षि । ता॒रि॒ष॒त् ॥
सायणभाष्यम् (Sayana Commentary)
वात इति तृचं पञ्चत्रिंशं सूक्तं वातगोत्रस्योलस्यार्षं गायत्रं वायुदेवताकम्। तथा चानुक्रान्तम्। वातो वातायन उलो वायव्यमिति। गतो विनियोगः॥
वातो वायुर्नोऽस्माकं हृदे हृदयाय भेषजमौषधमुदकं वा वातु। आगमयतु। कीदृग्भूतम्। शम्भु रोगशमनस्य भावयितृ मयोभु सुखस्य च भावयितृ। अपि च नोऽस्माकमायूंषि प्र तारिषत्। प्रवर्धयतु॥१॥