उ॒त वा᳚त पि॒तासि᳚ न उ॒त भ्रातो॒त न॒ः सखा᳚ ।
स नो᳚ जी॒वात᳚वे कृधि ॥
स नो᳚ जी॒वात᳚वे कृधि ॥
पदपाठः (Word-by-word)
उ॒त । वा॒त॒ । पि॒ता । अ॒सि॒ । नः॒ । उ॒त । भ्राता᳚ । उ॒त । नः॒ । सखा᳚ ।
सः । नः॒ । जी॒वात᳚वे । कृ॒धि॒ ॥
सः । नः॒ । जी॒वात᳚वे । कृ॒धि॒ ॥
सायणभाष्यम् (Sayana Commentary)
उतापि च हे वात् त्वं नोऽस्माकं पितासि। उत्पादको भवसि। उतापि च भ्राता भवसि। उतापि च नोऽस्माकं सखा समानख्यानो पितृभूतश्च भवसि। सत्वं नोऽस्माञ्जीवातवे जीवनहेतवे यागाय कृधि। कुरु। करोतेश्छान्दसो विकरणस्य लुक्। श्रुशृणुपॄक्रुवृभ्य इति हेर्धिः॥२॥