यद॒दो वा᳚त ते गृ॒हे॒३॒᳚॑मृत᳚स्य नि॒धिर्हि॒तः ।
ततो᳚ नो देहि जी॒वसे᳚ ॥
ततो᳚ नो देहि जी॒वसे᳚ ॥
पदपाठः (Word-by-word)
यत् । अ॒दः । वा॒त॒ । ते॒ । गृ॒हे । अ॒मृत᳚स्य । नि॒॑धिः । हि॒तः ।
ततः᳚ । नः॒ । दे॒हि॒ । जी॒वसे᳚ ॥
ततः᳚ । नः॒ । दे॒हि॒ । जी॒वसे᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे वात वायो ते तव गृहे स्थाने यददो योऽसावम्रुतस्यामरणस्य निधिर्निक्षेपो हितः स्थापितो वर्तते ततस्तस्मान्निधेराहृत्यामृतत्वम् जीवसे नोऽस्माकं जीवनाय देहि। प्रयच्छ॥३॥