दशमं मण्डलम् - सूक्तम् 166

5 ऋचः

ऋषिः: ऋषभो वैराजः शाक्वरो वा देवता: सपत्नघ्नं छन्दः: अनुष्टुप्

सूक्तम् 10.166 - सम्पूर्णम्

1 / 5
ऋक्: 10.166.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
10.166.1
ऋ॒ष॒भं मा᳚ समा॒नानां᳚ स॒पत्ना᳚नां विषास॒हिम् ।
ह॒न्तारं॒ शत्रू᳚णां कृधि वि॒राजं॒ गोप᳚तिं॒ गवा᳚म् ॥
▶ पदपाठः (Word-by-word)
ऋ॒ष॒भम् । मा॒ । स॒मा॒नाना᳚म् । स॒॑पत्ना᳚नाम् । वि॒॑स॒स॒हिम् ।
ह॒न्तार᳚म् । शत्रू᳚णाम् । कृ॒धि॒ । वि॒॑राज᳚म् । गो॑प᳚तिम् । गवा᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋषभमिति पञ्चर्चम् पञ्चदशं सूक्तं वैराजस्य शाक्वरस्य वर्षभाख्यस्यार्षं पञ्चमी षडष्टका महापङ्क्तिः। सपत्ननाशनरूपोऽर्थो देवता। तथा चानुक्रान्तम्। ऋषभमृषभो वैराजः शाक्वरो वा सपत्नघ्नमानुष्टुभं महापङ्क्त्यन्तमिति। प्रयाणसमये..... जपेत्। सूत्रितं च। ऋशभं मा समानानामित्यभिक्रामन्। आ. गृ. २-६-१३। इति॥

हे सपत्ननाशनाभिमानिन्निन्द्र मा मां समानानां सदृशानामस्मत्कुलिनानां मध्य ऋषभमृषभवत्प्रशस्तं कृधि। कुरु। तथा सपत्नानां शत्रूणां विषासहिं विशेषेणाभिभवितारं कुरु। येऽस्मत्कुल एव जाता अस्माकमेवानिष्टमाचरन्ति ते सपत्नाः। अपि च शत्रूणामन्येषामपि शातयितॄणाम् वैरिणां हन्तारं हिंसितारम् कृधि। कुरु। तथा विराजं विशेषेण राजमानं गोपतिं गोस्वामिनम् च मां कुरु। न केवलमेकस्या एव गोः पतिं अपि तु सर्वासामित्याह गवामिति॥१॥

10.166.2
अ॒हम᳚स्मि सपत्न॒हेन्द्र᳚ इ॒वारि᳚ष्टो॒ अक्ष᳚तः ।
अ॒धः स॒पत्ना᳚ मे प॒दोरि॒मे सर्वे᳚ अ॒भिष्ठि᳚ताः ॥
▶ पदपाठः (Word-by-word)
अ॒हम् । अ॒स्मि॒ । स॒प॒त्न॒॑हा । इन्द्रः᳚॑इव । अरि᳚ष्टः । अक्ष᳚तः ।
अ॒धः । स॒॑पत्नाः᳚ । मे॒ । प॒दोः । इ॒मे । सर्वे᳚ । अ॒भि॑स्थि᳚ताः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहं सपतन् हा सपत्नानां शत्रूणां हन्तास्मि। भवामि। इन्द्र इवेन्द्रो यथा केनाप्यहिंसितो भवति तथाहमप्यरिष्टोऽहिंसितोऽक्शतोऽव्रणश्च भवामि। इमे दृश्यमानाः सर्वे सपत्ना मे मम पदोः पादयोरधोऽधस्तादभिष्ठिता आक्रान्ता भवन्तु॥२॥

10.166.3
अत्रै॒व वो॑पि᳚ नह्याम्यु॒भे आर्त्नी᳚ इव॒ ज्यया᳚ ।
वाच᳚स्पते॒ नि षे᳚धे॒मान्यथा॒ मदध᳚रं॒ वदा᳚न् ॥
▶ पदपाठः (Word-by-word)
अत्र᳚ । ए॒व । वः॒ । अपि᳚ । न॒ह्या॒मि॒ । उ॒भे इति᳚ । आर्त्नी᳚ इ॒वेत्यार्त्नी᳚॑इव । ज्यया᳚ ।
वाचः᳚ । प॒ते॒ । नि । से॒ध॒ । इ॒मान् । यथा᳚ । मत् । अध᳚रम् । वदा᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सपत्नाह् यत्र देशे यूयं निवसथ अत्रैवास्मिन्नेव देशे वो युष्मानपि नह्यामि। अपिनद्धान्पाशैर्बद्धान्करोमि ज्यया मौर्व्यार्त्नी इव। यथा द्वे धनुषः कोटी दृढं बध्येते तथेत्यर्थः। हे वाचस्पते वाचः शब्दस्य पालयितर्देव इमान्सपत्नान्निषेध। प्रतिषेध। यथा येन प्रकारेन मन्मत्तोऽधरं निकृष्टतरम् वदान् वदन्ति तथा निरुद्धवाचः कुर्वित्यर्थः।।३॥

10.166.4
अ॒भि॒भूर॒हमाग᳚मं वि॒श्वक᳚र्मेण॒ धाम्ना᳚ ।
आ व᳚श्चि॒त्तमा वो᳚ व्र॒तमा वो॒॑हं समि᳚तिं ददे ॥
▶ पदपाठः (Word-by-word)
अ॒भि॒॑भूः । अ॒हम् । आ । अ॒ग॒म॒म् । वि॒श्व॑क᳚र्मेण । धाम्ना᳚ ।
आ । वः॒ । चि॒त्तम् । आ । वः॒ । व्र॒तम् । आ । वः॒ । अ॒हम् । सम्॑इ᳚तिम् । द॒दे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सपत्नाः अभिभूरभिभविताहं विश्वकर्मेन सर्वकर्मक्षमेण धाम्ना धारकेण तेजसा बलेन्द् वा सार्धमागमम् । आगतवानस्मि। अतो वो युश्माकं चित्तं मन आददे। गृह्णामि। मनोगतं धैर्यं हरामीत्यर्थः। वो युश्माकं व्रतं कर्म चाहमा ददे। वो युष्मदीयो यः समितिः सङ्ग्रामः तम् चाहमा ददे। अपहरामि॥४॥

10.166.5
यो॒ग॒क्षे॒मं व᳚ आ॒दाया॒हं भू᳚यासमुत्त॒म आ वो᳚ मू॒र्धान᳚मक्रमीम् ।
अ॒ध॒स्प॒दान्म॒ उद्व᳚दत म॒ण्डूका᳚ इवोद॒कान्म॒ण्डूका᳚ उद॒कादि᳚व ॥
▶ पदपाठः (Word-by-word)
यो॒ग॒॑क्षे॒मम् । वः॒ । आ॒॑दाय᳚ । अ॒हम् । भू॒या॒स॒म् । उ॒त्॑त॒मः । आ । वः॒ । मू॒र्धान᳚म् । अ॒क्र॒मी॒म् ।
अ॒धः॒॑प॒दात् । मे॒ । उत् । व॒द॒त॒ । म॒ण्डूकाः᳚॑इव । उ॒द॒कात् । म॒ण्डूकाः᳚ । उ॒द॒कात्॑इ᳚व ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सपत्नाः वो युश्माकं योगक्षेमम्। अप्राप्तस्य धनस्य प्राप्तिर्योगः। प्राप्तस्य रक्षणं क्षेमः। तदुभयमादाय युष्मत्तो गृहीत्वाहमुत्तमः श्रेष्ठो भूयास ततो वो युश्माकं मूर्धानं शिर आक्रमीम् । आक्रमिषम्। पादेनाधितिष्ठामि। क्रमेर्लुङ्यमो मश्। पा. ७-१-४०। इट ईटीति सिचो लोपः। अदन्तरम् मे ममाधस्पदात्पादस्याधस्ताद्वर्तमाना यूयमुद्वदत। उच्चैराक्रोशत। उदकाद्वृष्टिजलादधः प्रदेशे वर्तमाना मण्डूका इव। यथा ते भृशमाक्रोशन्ति तथोद्वदतेत्यर्थः। मण्डूका उदकादिवेति पुनरुक्तिरादरार्था॥५॥