दशमं मण्डलम् - सूक्तम् 3

7 ऋचः

ऋषिः: त्रित आप्त्यः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 10.3 - सम्पूर्णम्

1 / 7
ऋक्: 10.3.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
10.3.1
इ॒नो रा᳚जन्नर॒तिः समि᳚द्धो॒ रौद्रो॒ दक्षा᳚य सुषु॒मा{4} अ᳚दर्शि ।
चि॒किद्वि भा᳚ति भा॒सा बृ᳚ह॒तासि᳚क्नीमेति॒ रुश᳚तीम॒पाज᳚न् ॥
▶ पदपाठः (Word-by-word)
इ॒नः । रा॒ज॒न् । अ॒र॒तिः । सम्॑इ᳚द्धः । रौद्रः᳚ । दक्षा᳚य । सु॒सु॒॑मान् । अ॒द॒र्शि॒ ।
चि॒कित् । वि । भा॒ति॒ । भा॒सा । बृ॒ह॒ता । असि᳚क्नीम् । ए॒ति॒ । रुश᳚तीम् । अ॒प॒॑अज᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे राजन् दीप्यमानाग्ने त्वं इनः ईश्वरः सर्वस्य भवसि । अथपरोक्षः अरतिः हविरा- दाय देवान् प्रति गन्ता समिद्धः संदीप्तः रौद्रः शत्रूणां भयंकरः सुषुमान् ओषध्यात्मना- स्थितोंशुः सुष्ठुसूयते इतिसुषुः सोमः तेन तद्वान् शोभनप्रसवोवा सोग्निः दक्षाय यजमाना- नां धनादिवृध्यर्थं वा अदर्शि सर्वैर्दृश्यते । किंच चिकित् सर्वं जानानोग्निर्विभाति विशेषे- ण दीप्यते तथा बृहता महता भासा तेजसा ज्वालालक्षणेन असिक्नीं रात्रिं एति सायं होमसिध्यर्थमेति गच्छति । किं कुर्वन् रुशतीं श्वेतवर्णां दीप्तिं अपाजन् अपगमयन् रात्रिं गच्छति सामर्थ्यात् रात्रिं परित्यजन् उषसं प्रातर्होमसिध्यर्थं गच्छतीत्यर्थोलभ्यते ॥ १ ॥

10.3.2
कृ॒ष्णां यदेनी᳚म॒भि वर्प᳚सा॒ भूज्ज॒नय॒न्योषां᳚ बृह॒तः पि॒तुर्जाम् ।
ऊ॒र्ध्वं भा॒नुं सूर्य᳚स्य स्तभा॒यन्दि॒वो वसु᳚भिरर॒तिर्वि भा᳚ति ॥
▶ पदपाठः (Word-by-word)
कृ॒ष्णाम् । यत् । एनी᳚म् । अ॒भि । वर्प᳚सा । भूत् । ज॒नय᳚न् । योषा᳚म् । बृ॒ह॒तः । पि॒तुः । जाम् ।
ऊ॒र्ध्वम् । भा॒नुम् । सूर्य᳚स्य । स्त॒भा॒यन् । दि॒वः । वसु᳚॑भिः । अ॒र॒तिः । वि । भा॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोग्निर्यद्यदा कृष्णां कृष्णवर्णं एनीं गच्छन्तीं रात्रिं वर्पसा आत्मीयेन ज्वालालक्षणेन रूपेण अभिभूत् अभिभवति । किंकुर्वन् बृहतोमहतः पितुः सर्वस्य जगतः पालयितुः पि- तृभूताद्वा आदित्यान् जां जायमानां योषां उषसं जनयन् अभिव्यंजयन् रात्रिमभ्यभूत् तदानीमरतिः गमनशीलोग्निः दिवोद्युलोकस्य वसुभिः वासयितृभिः आच्छादकैः संधुक्षण- समर्थैरात्मीयैः तेजोभिः सूर्यस्य भानुं दीप्तिं ऊर्ध्वमुपरिष्टात् स्तभायन् स्तंभयन् विभाति विशेषेण दीप्यते ॥ २ ॥

10.3.3
भ॒द्रो भ॒द्रया॒ सच᳚मान॒ आगा॒त्स्वसा᳚रं जा॒रो अ॒भ्ये᳚ति प॒श्चात् ।
सु॒प्र॒के॒तैर्द्युभि᳚र॒ग्निर्वि॒तिष्ठ॒न्रुश᳚द्भि॒र्वर्णै᳚र॒भि रा॒मम᳚स्थात् ॥
▶ पदपाठः (Word-by-word)
भ॒द्रः । भ॒द्रया᳚ । सच᳚मानः । आ । अ॒गा॒त् । स्वसा᳚रम् । जा॒रः । अ॒भि । ए॒ति॒ । प॒श्चात् ।
सु॒॑प्र॒के॒तैः । द्यु॑भिः᳚ । अ॒ग्निः । वि॒॑तिष्ठ᳚न् । रुश᳚त्॑भिः । वर्णैः᳚ । अ॒भि । रा॒मम् । अ॒स्था॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

भद्रोभजनीयः कल्याणः भद्रया भजनीयया दीप्त्या उषसावा सचमानः द्सेव्यमानः संगच्छमानोवाग्निः आगात् आजगाम गार्हपत्यादाहवनीयमागच्छति । ततः पश्चात् जारो- जरयिता शत्रूणां सोग्निः स्वसारं स्वयंसारिणीं भगिनींवा आगतामुषसं अभ्येति अभिग- च्छति । तथा सुप्रकेतैः सुप्रज्ञानैः द्युभिर्दीप्तैस्तेजोभिः सह वितिष्ठन् सर्वतोवर्तमानः सोग्निः रुशद्भिः श्वेतवर्णैः वर्णैः वारकैरात्मीयैस्तेजोभिः रामं कृष्णवर्णं शार्वरं तमः अभ्यस्थात् सायं होमकाले अभिभूय तिष्ठति ॥ ३ ॥

10.3.4
अ॒स्य यामा᳚सो बृह॒तो न व॒ग्नूनिन्धा᳚ना अ॒ग्नेः सख्यु᳚ः शि॒वस्य᳚ ।
ईड्य᳚स्य॒ वृष्णो᳚ बृह॒तः स्वासो॒ भामा᳚सो॒ याम᳚न्न॒क्तव᳚श्चिकित्रे ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । यामा᳚सः । बृ॒ह॒तः । न । व॒ग्नून् । इन्धा᳚नाः । अ॒ग्नेः । सख्युः᳚ । शि॒वस्य᳚ ।
ईड्य᳚स्य । वृष्णः᳚ । बृ॒ह॒तः । सु॒॑आसः᳚ । भामा᳚सः । याम᳚न् । अ॒क्तवः᳚ । चि॒कि॒त्रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

बृहतोमहतोस्याग्नेः संबन्धिनइन्धानाः दीप्यमानायामासः यान्ति गच्छन्तीति यामार- श्मयः वग्नून् स्तुतिकारिणोजनान् नबाधन्ते । किंच सख्युः स्तुत्यस्तोतृयष्टृयष्तव्यलक्षणेन सख्येन सखिभूतस्य शिवस्य कल्याणस्य भक्तनां सुखकरस्य ईड्यस्य स्तोतव्यस्य वृष्णः कामानां वर्षितुः बृहतोमहतः स्वासः शोभनास्याः अस्याग्नेः स्वभूताअक्तवः तमांसि अं- जन्तः अपगमयन्तः आहुतिभिः संगतावा भामासः भामक्रोधे तीक्ष्णा अप्रसह्या रश्मयो- यामन् याति देवान् प्रति तर्पणाय यांति देवाएतं प्रत्यंगभावायेति यामोयज्ञः तस्मिन् चिकित्रे सर्वतोजज्ञिरे प्रथिताअभूवन् ॥ ४ ॥

10.3.5 समानपद
स्व॒ना न यस्य॒ भामा᳚स॒ः पव᳚न्ते॒ रोच᳚मानस्य बृह॒तः सु॒दिवः᳚ ।
ज्येष्ठे᳚भि॒र्यस्तेजि᳚ष्ठैः क्रीळु॒मद्भि॒र्वर्षि᳚ष्ठेभिर्भा॒नुभि॒र्नक्ष᳚ति॒ द्याम् ॥
▶ पदपाठः (Word-by-word)
स्व॒नाः । न । यस्य᳚ । भामा᳚सः । पव᳚न्ते । रोच᳚मानस्य । बृ॒ह॒तः । सु॒॑दिवः᳚ ।
ज्येष्ठे᳚भिः । यः । तेजि᳚ष्ठैः । क्री॒ळु॒मत्॑भिः᳚ । वर्षि᳚ष्ठेभिः । भा॒नु॑भिः᳚ । नक्ष᳚ति । द्याम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

रोचमानस्य दीप्यमानस्य बृहतोमहतः सुदिवः शोभनदीप्तेर्वा यस्याग्नेः स्वभूताभामा- सः भादीप्तौ दीप्तारश्मयः स्वनान स्वनन्तोमरुतइव पवन्ते सर्वतः शब्दंकुर्वंतोगच्छन्ति । किंच योग्निः ज्येष्ठेभिः अत्यंतं प्रशस्तैः तेजिष्ठैः तेजस्वितमैः क्रीळुमद्भिः क्रीडनवद्भिः वर्षिष्ठेभिर्वृर्द्धतमैः भानुमद्भिः आत्मीयैस्तेजोभिः द्यां द्युलोकं नक्षति व्याप्नोतीति । सत्वं देवानावहेति उत्तरेण संबन्धः ॥ ५ ॥

10.3.6
अ॒स्य शुष्मा᳚सो ददृशा॒नप᳚वे॒र्जेह᳚मानस्य स्वनयन्नि॒युद्भि᳚ः ।
प्र॒त्नेभि॒र्यो रुश᳚द्भिर्दे॒वत᳚मो॒ वि रेभ᳚द्भिरर॒तिर्भाति॒ विभ्वा᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । शुष्मा᳚सः । द॒दृ॒शा॒न॑प᳚वेः । जेह᳚मानस्य । स्व॒न॒य॒न् । नि॒युत्॑भिः᳚ ।
प्र॒त्नेभिः᳚ । यः । रुश᳚त्॑भिः । दे॒व॑त᳚मः । वि । रेभ᳚त्॑भिः । अ॒र॒तिः । भाति᳚ । वि॑भ्वा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ददृशानपवेः दर्शनीयज्वालाग्नेः यद्वा पविर्वज्रआयुधं दृश्यमानायुधस्य जेहमानस्य जेह- तिर्गतिकर्मा हविरादाय देवान् प्रति गच्छतः अस्याग्नेः स्वभूताः शुष्मासः शोषकाः नियु- द्धिर्नियुतो वायोरिति वायोरश्वानियुतः तद्युक्तैर्वायुभिः संयुक्तारश्मयः स्वनयन् शब्दायन्ते । किंच देवतमः देवानां मुख्यः अरतिः गन्ता विश्वा विभवनशीलोमहान् योग्निः प्रत्नेभिः पुराणैः रुशद्भिः श्वेतवर्णैः रेभद्भिः शब्दायमानैस्तेजोभिः विभाति विविधं दीप्यते ॥ ६ ॥

10.3.7
स आ व᳚क्षि॒ महि᳚ न॒ आ च᳚ सत्सि दि॒वस्पृ᳚थि॒व्योर᳚र॒तिर्यु᳚व॒त्योः ।
अ॒ग्निः सु॒तुकः᳚ सु॒तुके᳚भि॒रश्वै॒ रभ᳚स्वद्भी॒ रभ᳚स्वा{4}॒ एह ग᳚म्याः ॥
▶ पदपाठः (Word-by-word)
सः । आ । व॒क्षि॒ । महि᳚ । नः॒ । आ । च॒ । स॒त्सि॒ । दि॒वःपृ᳚थि॒व्योः । अ॒र॒तिः । यु॒व॒त्योः ।
अ॒ग्निः । सु॒॑तुकः᳚ । सु॒त्॑उके᳚भिः । अश्वैः᳚ । रभ᳚स्वत्॑भिः । रभ᳚स्वान् । आ । इ॒ह । ग॒म्याः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने सतादृशस्त्वं नोस्मदीये यज्ञे महि महान् देवान् आवक्षि आवह प्रापय । किंच युवत्योः परस्परं मिश्रितयोः तरुण्योर्वा दिवस्पृथिव्योर्द्यावापृथिव्योर्मध्ये अरतिः अग्निः सू- र्यात्मनागन्ता त्वं आसत्सि अस्माकं यज्ञमासीद । तथा सुतुकः तुकिर्गत्यर्थः सुगमः स्तोतृ भिर्यष्टृभिश्च सुखेन प्राप्तव्यः रभस्वान् वेगवान् अग्निः अंगनादिगुणयुक्तस्त्वं सुतुकेभिः सुग- मैः रभस्वद्भिर्वेगवद्भिरश्वैरोहिदाख्यैः सह इहास्मदीये यज्ञे आगम्याः आगच्छ ॥ ७ ॥

प्रतइति सप्तर्चं चतुर्थं सूक्तं रुष्याद्याः पूर्ववत् । प्रतइत्यनुक्रान्तम् । प्रातरनुवाकाश्विन- शस्त्रयोरुक्तोविनियोगः ।