दशमं मण्डलम् - सूक्तम् 96

13 ऋचः

ऋषिः: बरुः सर्वहरिर्वैंद्रः देवता: हरिस्तुतिः छन्दः: जगती

सूक्तम् 10.96 - सम्पूर्णम्

1 / 13
ऋक्: 10.96.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (13)
10.96.1
प्र ते᳚ म॒हे वि॒दथे᳚ शंसिषं॒ हरी॒ प्र ते᳚ वन्वे व॒नुषो᳚ हर्य॒तं मद᳚म् ।
घृ॒तं न यो हरि᳚भि॒श्चारु॒ सेच᳚त॒ आ त्वा᳚ विशन्तु॒ हरि᳚वर्पसं॒ गिरः᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । ते॒ । म॒हे । वि॒दथे᳚ । शं॒सि॒ष॒म् । हरी॒ इति᳚ । प्र । ते॒ । व॒न्वे॒ । व॒नुषः᳚ । ह॒र्य॒तम् । मद᳚म् ।
घृ॒तम् । न । यः । हरि᳚॑भिः । चारु᳚ । सेच᳚त । आ । त्वा॒ । वि॒श॒न्तु॒ । हरि᳚॑वर्पसम् । गिरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अथ प्र ते मह इति त्रयोदशर्चम् षष्ठं सूक्तम्। बरुर्नामाङ्गिरस ऋषिः इन्द्रस्य पुत्रह् सर्वहरिर्वा नाम। द्वादशीत्रयोदशौ त्रिष्टुभौ शिष्टा एकादश जगत्यः। इन्द्रस्याश्वौ हरी। तयोरत्र स्तूयमानत्वात्तदेवताकमिदम्। तथा चानुक्रान्तम्। प्रते सप्तोना बरुः सर्वहरिर्वैन्द्रो हरिस्तुतिर्द्वित्रिष्तुबन्तम्। अतिरात्रे तृतीये पर्याये ब्राह्मनाच्छंसिन एतत्सूक्तम्। सूत्रितं च। प्रते मह ऊती शचीवस्तव वीर्येणेति याज्या। आ. ६-४। इति। षोडशिशस्त्रेऽप्याद्यस्तृचः शंसनीयः। सूत्रितं च। प्रते महे विदथे शंसिषं हरी इति तिस्रो जगत्यः॥ आ. ६-२॥ इति॥

हे इन्द्र ते तव हरी अश्वौ महे महति विदथे यज्ञे प्र शंसिषम् । अशंसिषम्। अस्ताविशम्। तथा वनुषः। वनु हिंसायाम् । हिंसकस्य ते तव हर्यतम्। हर्य गतिकान्त्योः। तसौणादिकोऽतच्। चित्स्वरेणान्तोदात्तः। कमनीयं मदं प्रपन्वे। प्रयाचेऽस्मदभिमतम्। वनु याचने। य इन्द्रो हरिभिर्हरितवर्णैरश्वैर्मद्यागं गत्वा चारु चरणीयं घृतं न घृतमिव सुपूतमुदकं सेचते वर्षति तं तादृशं हरिपर्वसम्। वर्प इति रूपनाम। हरितरूपं त्वा त्वामा विशन्तु गिरोऽस्मदीयाः स्तुतिवाचस्तव मदाय॥१॥

10.96.2
हरिं॒ हि योनि᳚म॒भि ये स॒मस्व᳚रन्हि॒न्वन्तो॒ हरी᳚ दि॒व्यं यथा॒ सदः᳚ ।
आ यं पृ॒णन्ति॒ हरि᳚भि॒र्न धे॒नव॒ इन्द्रा᳚य शू॒षं हरि᳚वन्तमर्चत ॥
▶ पदपाठः (Word-by-word)
हरि᳚म् । हि । योनि᳚म् । अ॒भि । ये । स॒म्॑अस्व᳚रन् । हि॒न्वन्तः᳚ । हरी॒ इति᳚ । दि॒व्यम् । यथा᳚ । सदः᳚ ।
आ । यम् । पृ॒णन्ति᳚ । हरि᳚॑भिः । न । धे॒नवः᳚ । इन्द्रा᳚य । शू॒षम् । हरि᳚॑वन्तम् । अ॒र्च॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये पूर्वे स्तोतार ऋषयो योनिमिन्द्रस्य स्थानभूतं हरिमश्वमभिसमस्वरन्। स्वृ शब्दोपतापयोः। अभिसंस्तुवन्ति। किं कुर्वन्तः। दिव्यं देवसम्बन्धि सदो यागगृहं यथा प्रेरयन्तीन्द्रं तथा हरी अश्वौ हिन्वन्तः प्रेरयन्तः। सोमेऽभिषुते सति स्वयमेवेन्द्रो रथेऽश्वौ प्रेरयति अतः सोतॄणां हरिप्रेरणत्वम्। यद्वा। दिव्यं सद इन्द्रः प्राप्नुयाद्यथा तथा हरी स्तुतिभिर्हिन्वन्तः प्रेरयन्तः। यमिन्द्रं धेनवो नवप्रसुतिका गावो यथा पृणन्ति क्षीरादिभिः। अत्र पुरस्तादुपचारोऽपि नकार उपमार्थीयः। हरिभिर्हरितवर्णैः सोमैरापृणन्ति पुरयन्ति च। तथा यूयमपीन्द्रायेन्द्रस्य हरिवन्तं शूषं बलमर्चत। पूजयत हे स्तोतारः स्तुतिभिः॥२॥

10.96.3
सो अ᳚स्य॒ वज्रो॒ हरि᳚तो॒ य आ᳚य॒सो हरि॒र्निका᳚मो॒ हरि॒रा गभ᳚स्त्योः ।
द्यु॒म्नी सु᳚शि॒प्रो हरि᳚मन्युसायक॒ इन्द्रे॒ नि रू॒पा हरि᳚ता मिमिक्षिरे ॥
▶ पदपाठः (Word-by-word)
सः । अ॒स्य॒ । वज्रः᳚ । हरि᳚तः । यः । आ॒य॒सः । हरिः᳚ । नि॑का᳚मः । हरिः᳚ । आ । गभ᳚स्त्योः ।
द्यु॒म्नी । सु॒॑शि॒प्रः । हरि᳚मन्यु॑सायकः । इन्द्रे᳚ । नि । रू॒पा । हरि᳚ता । मि॒मि॒क्षि॒रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्येन्द्रस्य स वज्रो हरितो हरितवर्णो य आयसोऽयः सारभूतोऽस्तिनिर्मितः। स च हरिर्हरितवर्णो वज्रो निकामो नितरां कमनीयः। स आ हन्ता शत्रूणाम्। तादृशो वज्रो गभस्त्योर्हस्तयोर्वर्तत इति शेषः। अयमिन्द्रो द्युम्नी। द्युम्नंद्योतमानं धनम्। तद्वान् सुशिप्रः शोभनहनुर्हरिमन्युसायकः। यस्य मन्युः सायकः शत्रुहन्ताभिगन्ता वा भवति। यद्वा। शत्रुहन्ता कोपः सायकश्च यस्य स तादृशो भवति। किं बहुना। इन्द्रे। रूपा रुपाणि हरिता हरितानि नि मिमिक्षिरे। निशिक्तानि बभूवुः। मिहेः सनन्तात्कर्मणी लिटि रूपम्॥३॥

10.96.4
दि॒वि न के॒तुरधि᳚ धायि हर्य॒तो वि॒व्यच॒द्वज्रो॒ हरि᳚तो॒ न रंह्या᳚ ।
तु॒ददहिं॒ हरि᳚शिप्रो॒ य आ᳚य॒सः स॒हस्र᳚शोका अभवद्धरिम्भ॒रः ॥
▶ पदपाठः (Word-by-word)
दि॒वि । न । के॒तुः । अधि᳚ । धा॒यि॒ । ह॒र्य॒तः । वि॒व्यच᳚त् । वज्रः᳚ । हरि᳚तः । न । रंह्या᳚ ।
तु॒दत् । अहि᳚म् । हरि᳚॑शिप्रः । यः । आ॒य॒सः । स॒हस्र᳚॑शोकाः । अ॒भ॒व॒त् । ह॒रि॒म्॑भ॒रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

दिव्यन्तरिक्षे केतुः प्रकाशेन सर्वस्य प्रज्ञापक आदित्य इव स यथाधि निहितः एवमयमिन्द्रोऽधि धायि। अध्यधायि। स्तोतृभिरधि निहितः। किञ्चेन्द्रस्य वज्रो हर्यतः स्पृहणीयः सन् विव्यचत्। व्याप्नोति वाप्तव्यं शत्रुसङ्घम्। तत्र दृष्टान्तः। हरितो न हरितवर्ना अध्वाहर्तारो वाश्वा आदित्यसम्बन्धिनः। ते यथा रंह्या रंहणेन वेगेन व्याप्नुवन्ति व्याप्तव्यम्। योऽस्य वज्र आयसोऽयोविकारोऽहिं वृत्रं मेघं वा तुदत् हिनस्ति। योऽयं महानुभावो हरिशिप्रः सोमपानरभसेन हरितवर्णसासिकस्तद्वर्णहनुर्वा हरिंभरो हर्योर्भर्तेन्द्रः सहस्रोशोका अभवत्॥ शुच दीप्तौ। अपरिमितदीप्तिर्भवति॥४॥

10.96.5
त्वंत्व᳚महर्यथा॒ उप᳚स्तुत॒ः पूर्वे᳚भिरिन्द्र हरिकेश॒ यज्व᳚भिः ।
त्वं ह᳚र्यसि॒ तव॒ विश्व᳚मु॒क्थ्य१॒᳚मसा᳚मि॒ राधो᳚ हरिजात हर्य॒तम् ॥
▶ पदपाठः (Word-by-word)
त्वम्॑त्व᳚म् । अ॒ह॒र्य॒थाः॒ । उप᳚॑स्तुतः । पूर्वे᳚भिः । इ॒न्द्र॒ । ह॒रि॒॑के॒श॒ । यज्व᳚॑भिः ।
त्वम् । ह॒र्य॒सि॒ । तव᳚ । विश्व᳚म् । उ॒क्थ्य᳚म् । असा᳚मि । राधः᳚ । ह॒रि॒॑जा॒त॒ । ह॒र्य॒तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र हे हरिकेश हरितरोमवदश्व त्वन्त्वं त्वमेव सर्वत्र यज्ञेऽहर्यथाः। अकामयथाः स्तोत्रं हविर्वा। कीद्रुशस्त्वम्। पूर्वेभिः पूर्वतनैर्यज्वभिर्यजमानैरुपस्तुतः सन्। हे हरिजात हरितवर्णः सन्प्रादुर्भूत हारकप्रादुर्भाव वा। शत्रुवधार्थं प्रादुर्भूतेत्यर्थः। हे तादृशेन्द्र त्वं तव। स्वभूतमिति शेशः। विश्वं व्याप्तं सोमचरुपुरोडाशादिरूपं सर्वं वा। यद्वा। यत्र यानि यानि हवींषि दीयन्ते तत्सर्वं वा। तथोक्थ्यं प्रशस्यमसाम्यसाधारणमनमं कृत्स्नं हर्यतं कान्तं राधोऽन्नं हविर्लक्शनं हर्यसि। कामयसे॥५॥

10.96.6
ता व॒ज्रिणं᳚ म॒न्दिनं॒ स्तोम्यं॒ मद॒ इन्द्रं॒ रथे᳚ वहतो हर्य॒ता हरी᳚ ।
पु॒रूण्य᳚स्मै॒ सव᳚नानि॒ हर्य᳚त॒ इन्द्रा᳚य॒ सोमा॒ हर᳚यो दधन्विरे ॥
▶ पदपाठः (Word-by-word)
ता । व॒ज्रिण᳚म् । म॒न्दिन᳚म् । स्तोम्य᳚म् । मदे᳚ । इन्द्र᳚म् । रथे᳚ । व॒ह॒तः॒ । ह॒र्य॒ता । हरी॒ इति᳚ ।
पु॒रूणि᳚ । अ॒स्मै॒ । सव᳚नानि । हर्य᳚ते । इन्द्रा᳚य । सोमाः᳚ । हर᳚यः । द॒ध॒न्वि॒रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ता तौ प्रसिद्धौ हर्यता हर्यतौ गन्तारौ कान्तौ वा हरी हरितवर्णावश्वौ मन्दिनं मोदमानं स्तोम्यं स्तुत्यर्हं वज्रिणमिन्द्रं मदे निमित्ते रथे वहतः। धारयतः। यज्ञमस्मदीयं प्रापयतः। अस्मै हर्यते कान्तायेन्द्राय पुरूणि बहूनि सवनानि प्रातरादीनि हरयो हरितवर्णाः सोमा दधन्विरे। निधीयन्ते॥६॥

10.96.7
अरं॒ कामा᳚य॒ हर᳚यो दधन्विरे स्थि॒राय᳚ हिन्व॒न्हर᳚यो॒ हरी᳚ तु॒रा ।
अर्व᳚द्भि॒र्यो हरि᳚भि॒र्जोष॒मीय᳚ते॒ सो अ᳚स्य॒ कामं॒ हरि᳚वन्तमानशे ॥
▶ पदपाठः (Word-by-word)
अर᳚म् । कामा᳚य । हर᳚यः । द॒ध॒न्वि॒रे॒ । स्थि॒राय᳚ । हि॒न्व॒न् । हर᳚यः । हरी॒ इति᳚ । तु॒रा ।
अर्व᳚त्॑भिः । यः । हरि᳚॑भिः । जोष᳚म् । ईय᳚ते । सः । अ॒स्य॒ । काम᳚म् । हरि᳚॑वन्तम् । आ॒न॒शे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अरमलं पर्याप्तं कामायेन्द्रकामनाय हरयो हरितवर्णाः सोमा दधन्विरे। ते च हरयः स्थिराय युद्धेऽपलयितायेन्द्राय तुरा तुरौ त्वरमाणौ हरी अश्वौ हिन्वन्। प्रेरयन्ति। योऽर्वद्भिररणकुशलैर्हरिभिरश्वैर्जोषं शूरैः सेव्यं सङ्ग्राममीयते गच्छति स रथोऽस्येन्द्रस्य स्वभुतं कामं कमनीयं हरिवन्तं सोमवन्तं यज्ञमानशे। व्याप्नोति॥७॥

10.96.8
हरि᳚श्मशारु॒र्हरि᳚केश आय॒सस्तु᳚र॒स्पेये॒ यो ह᳚रि॒पा अव᳚र्धत ।
अर्व᳚द्भि॒र्यो हरि᳚भिर्वा॒जिनी᳚वसु॒रति॒ विश्वा᳚ दुरि॒ता पारि᳚ष॒द्धरी᳚ ॥
▶ पदपाठः (Word-by-word)
हरि᳚॑श्मशारुः । हरि᳚॑केशः । आ॒य॒सः । तु॒रः॒॑पेये᳚ । यः । ह॒रि॒॑पाः । अव᳚र्धत ।
अर्व᳚त्॑भिः । यः । हरि᳚॑भिः । वा॒जिनी᳚॑वसुः । अति᳚ । विश्वा᳚ । दुः॒॑इ॒ता । पारि᳚षत् । हरी॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हरिश्मशारुर्हरितवर्णश्मश्रुर्हरिकेशो हरितवर्नकेश अयसोऽयोमयहृदयः। शत्रूणां घातक इत्यर्थः। एतादृशो य इन्द्रस्तुरस्पेये तूर्णं पातव्ये सोमे हरिपा हरितवर्नसोमपा अवर्धत वर्धते यश्चार्वद्भिर्गृन्तृभिर्हरिभिरश्वैः सोमैर्वा वाजिनीवसुः। वाजिनमन्नं हविर्लक्षणम् । तदस्या अस्तीति वाजिनी क्रिया। सैव वसु धनं यस्य स तथोक्तः। यज्ञधन इत्यर्थः। यद्वा। वाजिनमेव वाजिनी। तदेव धनं यस्य। स एवमुक्तलक्षण इन्द्रो हरी रथे योजयित्वा विश्वा विश्वानि सर्वाणि दुरितास्माकं दुरितानि पारिषत्। पारयतु। पारयतेर्लेटि सिप्यडागमः॥८॥

10.96.9
स्रुवे᳚व॒ यस्य॒ हरि᳚णी विपे॒ततु॒ः शिप्रे॒ वाजा᳚य॒ हरि᳚णी॒ दवि᳚ध्वतः ।
प्र यत्कृ॒ते च᳚म॒से मर्मृ᳚ज॒द्धरी᳚ पी॒त्वा मद᳚स्य हर्य॒तस्यान्ध᳚सः ॥
▶ पदपाठः (Word-by-word)
स्रुवा᳚॑इव । यस्य᳚ । हरि᳚णी॒ इति᳚ । वि॒॑पे॒ततुः᳚ । शिप्रे॒ इति᳚ । वाजा᳚य । हरि᳚णी॒ इति᳚ । दवि᳚ध्वतः ।
प्र । यत् । कृ॒ते । च॒म॒से । मर्मृ᳚जत् । हरी॒ इति᳚ । पी॒त्वा । मद᳚स्य । ह॒र्य॒तस्य । अन्ध᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्येन्द्रस्य हरिणी हरितवर्णावश्वौ विपेततुः रथ इन्द्रमारोप्य विपततो यज्ञमस्मदीयम्। यद्वा। यस्य हरिणी हरितवर्णे कनीनिके विपेततुः सोमं प्रति विपततः। तत्र दृष्टान्तः। स्रुवेव। यथा स्रुवा स्रुवौ हविषा पूर्णौ पात्रविशेशौ होमार्थं विपततः तद्वत्। तथा यस्य च हरिणी हरितवर्णे शिप्रे हनू वाजाय सोमलक्षणायान्नाय दविध्वतः कम्पयतः पुरतः प्रत्तस्य सोमस्य प्रीत्या चलतः। तथा यद्यदा कृते संस्कृते चमसे वर्तमानं मदस्य मदकरं हर्यतस्य कान्तमन्धसोन्नं सोमं पीत्वा हरी अश्वौ प्र मर्मृजत् प्रमार्ष्टि। तदानीं स्तुत इत्यर्थः॥९॥

10.96.10
उ॒त स्म॒ सद्म᳚ हर्य॒तस्य᳚ प॒स्त्यो॒३॒᳚रत्यो॒ न वाजं॒ हरि᳚वा{4} अचिक्रदत् ।
म॒ही चि॒द्धि धि॒षणाह᳚र्य॒दोज᳚सा बृ॒हद्वयो᳚ दधिषे हर्य॒तश्चि॒दा ॥
▶ पदपाठः (Word-by-word)
उ॒त । स्म॒ । सद्म᳚ । ह॒र्य॒तस्य᳚ । प॒स्त्योः᳚ । अत्यः᳚ । न । वाज᳚म् । हरि᳚॑वान् । अ॒चि॒क्र॒द॒त् ।
म॒ही । चि॒त् । हि । धि॒षणा᳚ । अह᳚र्यत् । ओज᳚सा । बृ॒हत् । वयः᳚ । द॒धि॒षे॒ । ह॒र्य॒तः । चि॒त् । आ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापि च हर्यतस्य कमनीयस्येन्द्रस्य सद्म सदनं पस्त्यॊर्द्यावापृथिव्योः सम्बन्धि। सोऽयमत्यो नाश्व इव वाजं सङ्ग्रामं हरिवानश्ववानचिक्रात्। गच्छति। तथा हि यस्माद्धे इन्द्र त्वां मही महती धिषणा स्तुतिरोजसा बलेन युक्तमिन्द्र महर्यत् कामयते। चिदिति पूरणः। अतो वाजमचिक्रदत्। तथा सति हर्यतः कामयमानस्य यजमानस्य ब्रुहन्महद्वयोऽन्नमा दधिषे। धारयसि। आप्रयच्छसि। चिदिति पूरणः॥१०॥

10.96.11 समानपद
आ रोद᳚सी॒ हर्य᳚माणो महि॒त्वा नव्यं᳚नव्यं हर्यसि॒ मन्म॒ नु प्रि॒यम् ।
प्र प॒स्त्य᳚मसुर हर्य॒तं गोरा॒विष्कृ᳚धि॒ हर᳚ये॒ सूर्या᳚य ॥
▶ पदपाठः (Word-by-word)
आ । रोद᳚सी॒ इति᳚ । हर्य᳚माणः । म॒हि॒॑त्वा । नव्य᳚म्॑नव्यम् । ह॒र्य॒सि॒ । मन्म᳚ । नु । प्रि॒यम् ।
प्र । प॒स्त्य᳚म् । अ॒सु॒र॒ । ह॒र्य॒तम् । गोः । आ॒विः । कृ॒धि॒ । हर᳚ये । सूर्या᳚य ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र हर्यमाणः कामयमानो महित्वा महत्त्वेन रोदसी द्यावापृथिव्यावा। पूरयसीति शेशः। तथा नव्यन्नव्यं नवतरं प्रियं प्रियकरं मन्ममननीयं स्तोत्रं नु क्शिप्रं हर्यसि। कामयसे। हे असुर बलवन्। असुः प्राणः। तद्वन्। मत्वर्थीयो रः। ताद्रुशीन्द्र गोः। जात्येकवचनम् । गवां हर्यतं स्पृहणीयं पस्त्यं गृहं गोरुदकस्योक्तगुणकं स्थानं वा हरय उदकस्य हर्त्रे सूर्याय प्र प्रकर्षेणानिष्कृधि। प्रकटीकुरु॥११॥

10.96.12
आ त्वा᳚ ह॒र्यन्तं᳚ प्र॒युजो॒ जना᳚नां॒ रथे᳚ वहन्तु॒ हरि᳚शिप्रमिन्द्र ।
पिबा॒ यथा॒ प्रति᳚भृतस्य॒ मध्वो॒ हर्य᳚न्य॒ज्ञं स᳚ध॒मादे॒ दशो᳚णिम् ॥
▶ पदपाठः (Word-by-word)
आ । त्वा॒ । ह॒र्यन्त᳚म् । प्र॒॑युजः᳚ । जना᳚नाम् । रथे᳚ । व॒ह॒न्तु॒ । हरि᳚॑शिप्रम् । इ॒न्द्र॒ ।
पिब᳚ । यथा᳚ । प्रति᳚॑भृतस्य । मध्वः᳚ । हर्य᳚न् । य॒ज्ञम् । स॒ध॒॑मादे᳚ । दश᳚॑ओणिम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र हरिशिप्रं हरितवर्णशिप्रं त्वा त्वां हर्यन्तं यज्ञं कामयमानं प्रयुजो रथे प्र्युक्ता अश्वा रथे स्थापयित्वा जनानामृत्विग्यजमानानामन्तिकं वहन्तु। प्रापयन्तु। प्रवहन्ति। यथा येन प्राकारेन प्रतिभृतस्य ग्रहादिषु सम्भृतं मध्वो मधु सोमरसं यज्ञं यागसाधनं दशोणिम् । ओणयोऽङुलयः। दशभिरङ्गुलिभिः सम्पादितं सोमं हर्यन् कामयमानः सन् पिब पिबसि सधमादे सङ्ग्रामे जयर्थं तथवहन्त्वित्यर्थः॥१२॥

10.96.13 समानपद
अपा॒ः पूर्वे᳚षां हरिवः सु॒ताना॒मथो᳚ इ॒दं सव᳚नं॒ केव᳚लं ते ।
म॒म॒द्धि सोमं॒ मधु᳚मन्तमिन्द्र स॒त्रा वृ᳚षञ्ज॒ठर॒ आ वृ᳚षस्व ॥
▶ पदपाठः (Word-by-word)
अपाः᳚ । पूर्वे᳚षाम् । ह॒रि॒॑वः॒ । सु॒ताना᳚म् । अथो॒ इति᳚ । इ॒दम् । सव᳚नम् । केव᳚लम् । ते॒ ।
म॒म॒द्धि । सोम᳚म् । मधु᳚॑मन्तम् । इ॒न्द्र॒ । स॒त्रा । वृ॒ष॒न् । ज॒ठरे᳚ । आ । वृ॒ष॒स्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अपाः पुर्वेषामित्येषा षोडशशस्त्रस्य याज्या। सुत्रितम् च। एवा हि शक्रो वशी हि शक्र इति जपित्वापाः पूर्वेषां हरिवः सुतानामिति यजति। आ. ६-२। इति॥

हे इन्द्र सुतानामभिषुतानां पुर्वेषां प्रातःसवनसम्पादितानाम् । कर्मणि षष्ठ्यावेते। अभिषुतान्प्रातः सवनिकान्सोमानित्यर्थः। तानपाः। अपिबः। हे हरिव इतीन्द्रसम्बोधनम् । हरिभ्यामश्वाभ्यां तद्वन्। यद्वा। ऋक्सामात्मकाभ्यां हरिभ्यां युक्त। ऋक्सामे वा इन्द्रस्य हरी। ऐ. ब्रा. २- २४। तै. सं . ६-५-९-२। ताभ्यामेष हरतिति ब्राह्मणम्। अथो अपि चेदं माध्यन्दिनं सवनं केवलं ते तवैवासाधारनम्। माध्यन्दिनं सवनं केवलं ते। ऋ. ४-३५-७। इति हि मन्त्रान्तरम्। तस्मिन्सवने हे इन्द्र मधुमन्तं माधुर्योपेतम् सोमं ममद्धि। पिब। आस्वादयेत्यर्थः। मदिरत्रास्वादनकर्मा। पिबन्तु मदन्तु वियन्त्विति च मन्त्रः। सत्रा वृषन्। सत्राशब्दो भूयिष्ठवचनः। हे भूयिष्ठ वर्शितरिन्द्र जठर आ व्रुषस्व। आसिञ्चस्व॥१३॥