श्रवणम्

10.96.1
प्र ते᳚ म॒हे वि॒दथे᳚ शंसिषं॒ हरी॒ प्र ते᳚ वन्वे व॒नुषो᳚ हर्य॒तं मद᳚म् ।
घृ॒तं न यो हरि᳚भि॒श्चारु॒ सेच᳚त॒ आ त्वा᳚ विशन्तु॒ हरि᳚वर्पसं॒ गिरः᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । ते॒ । म॒हे । वि॒दथे᳚ । शं॒सि॒ष॒म् । हरी॒ इति᳚ । प्र । ते॒ । व॒न्वे॒ । व॒नुषः᳚ । ह॒र्य॒तम् । मद᳚म् ।
घृ॒तम् । न । यः । हरि᳚॑भिः । चारु᳚ । सेच᳚त । आ । त्वा॒ । वि॒श॒न्तु॒ । हरि᳚॑वर्पसम् । गिरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अथ प्र ते मह इति त्रयोदशर्चम् षष्ठं सूक्तम्। बरुर्नामाङ्गिरस ऋषिः इन्द्रस्य पुत्रह् सर्वहरिर्वा नाम। द्वादशीत्रयोदशौ त्रिष्टुभौ शिष्टा एकादश जगत्यः। इन्द्रस्याश्वौ हरी। तयोरत्र स्तूयमानत्वात्तदेवताकमिदम्। तथा चानुक्रान्तम्। प्रते सप्तोना बरुः सर्वहरिर्वैन्द्रो हरिस्तुतिर्द्वित्रिष्तुबन्तम्। अतिरात्रे तृतीये पर्याये ब्राह्मनाच्छंसिन एतत्सूक्तम्। सूत्रितं च। प्रते मह ऊती शचीवस्तव वीर्येणेति याज्या। आ. ६-४। इति। षोडशिशस्त्रेऽप्याद्यस्तृचः शंसनीयः। सूत्रितं च। प्रते महे विदथे शंसिषं हरी इति तिस्रो जगत्यः॥ आ. ६-२॥ इति॥

हे इन्द्र ते तव हरी अश्वौ महे महति विदथे यज्ञे प्र शंसिषम् । अशंसिषम्। अस्ताविशम्। तथा वनुषः। वनु हिंसायाम् । हिंसकस्य ते तव हर्यतम्। हर्य गतिकान्त्योः। तसौणादिकोऽतच्। चित्स्वरेणान्तोदात्तः। कमनीयं मदं प्रपन्वे। प्रयाचेऽस्मदभिमतम्। वनु याचने। य इन्द्रो हरिभिर्हरितवर्णैरश्वैर्मद्यागं गत्वा चारु चरणीयं घृतं न घृतमिव सुपूतमुदकं सेचते वर्षति तं तादृशं हरिपर्वसम्। वर्प इति रूपनाम। हरितरूपं त्वा त्वामा विशन्तु गिरोऽस्मदीयाः स्तुतिवाचस्तव मदाय॥१॥