श्रवणम्

10.96.9
स्रुवे᳚व॒ यस्य॒ हरि᳚णी विपे॒ततु॒ः शिप्रे॒ वाजा᳚य॒ हरि᳚णी॒ दवि᳚ध्वतः ।
प्र यत्कृ॒ते च᳚म॒से मर्मृ᳚ज॒द्धरी᳚ पी॒त्वा मद᳚स्य हर्य॒तस्यान्ध᳚सः ॥
▶ पदपाठः (Word-by-word)
स्रुवा᳚॑इव । यस्य᳚ । हरि᳚णी॒ इति᳚ । वि॒॑पे॒ततुः᳚ । शिप्रे॒ इति᳚ । वाजा᳚य । हरि᳚णी॒ इति᳚ । दवि᳚ध्वतः ।
प्र । यत् । कृ॒ते । च॒म॒से । मर्मृ᳚जत् । हरी॒ इति᳚ । पी॒त्वा । मद᳚स्य । ह॒र्य॒तस्य । अन्ध᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्येन्द्रस्य हरिणी हरितवर्णावश्वौ विपेततुः रथ इन्द्रमारोप्य विपततो यज्ञमस्मदीयम्। यद्वा। यस्य हरिणी हरितवर्णे कनीनिके विपेततुः सोमं प्रति विपततः। तत्र दृष्टान्तः। स्रुवेव। यथा स्रुवा स्रुवौ हविषा पूर्णौ पात्रविशेशौ होमार्थं विपततः तद्वत्। तथा यस्य च हरिणी हरितवर्णे शिप्रे हनू वाजाय सोमलक्षणायान्नाय दविध्वतः कम्पयतः पुरतः प्रत्तस्य सोमस्य प्रीत्या चलतः। तथा यद्यदा कृते संस्कृते चमसे वर्तमानं मदस्य मदकरं हर्यतस्य कान्तमन्धसोन्नं सोमं पीत्वा हरी अश्वौ प्र मर्मृजत् प्रमार्ष्टि। तदानीं स्तुत इत्यर्थः॥९॥