हरिं॒ हि योनि᳚म॒भि ये स॒मस्व᳚रन्हि॒न्वन्तो॒ हरी᳚ दि॒व्यं यथा॒ सदः᳚ ।
आ यं पृ॒णन्ति॒ हरि᳚भि॒र्न धे॒नव॒ इन्द्रा᳚य शू॒षं हरि᳚वन्तमर्चत ॥
आ यं पृ॒णन्ति॒ हरि᳚भि॒र्न धे॒नव॒ इन्द्रा᳚य शू॒षं हरि᳚वन्तमर्चत ॥
पदपाठः (Word-by-word)
हरि᳚म् । हि । योनि᳚म् । अ॒भि । ये । स॒म्॑अस्व᳚रन् । हि॒न्वन्तः᳚ । हरी॒ इति᳚ । दि॒व्यम् । यथा᳚ । सदः᳚ ।
आ । यम् । पृ॒णन्ति᳚ । हरि᳚॑भिः । न । धे॒नवः᳚ । इन्द्रा᳚य । शू॒षम् । हरि᳚॑वन्तम् । अ॒र्च॒त॒ ॥
आ । यम् । पृ॒णन्ति᳚ । हरि᳚॑भिः । न । धे॒नवः᳚ । इन्द्रा᳚य । शू॒षम् । हरि᳚॑वन्तम् । अ॒र्च॒त॒ ॥
सायणभाष्यम् (Sayana Commentary)
ये पूर्वे स्तोतार ऋषयो योनिमिन्द्रस्य स्थानभूतं हरिमश्वमभिसमस्वरन्। स्वृ शब्दोपतापयोः। अभिसंस्तुवन्ति। किं कुर्वन्तः। दिव्यं देवसम्बन्धि सदो यागगृहं यथा प्रेरयन्तीन्द्रं तथा हरी अश्वौ हिन्वन्तः प्रेरयन्तः। सोमेऽभिषुते सति स्वयमेवेन्द्रो रथेऽश्वौ प्रेरयति अतः सोतॄणां हरिप्रेरणत्वम्। यद्वा। दिव्यं सद इन्द्रः प्राप्नुयाद्यथा तथा हरी स्तुतिभिर्हिन्वन्तः प्रेरयन्तः। यमिन्द्रं धेनवो नवप्रसुतिका गावो यथा पृणन्ति क्षीरादिभिः। अत्र पुरस्तादुपचारोऽपि नकार उपमार्थीयः। हरिभिर्हरितवर्णैः सोमैरापृणन्ति पुरयन्ति च। तथा यूयमपीन्द्रायेन्द्रस्य हरिवन्तं शूषं बलमर्चत। पूजयत हे स्तोतारः स्तुतिभिः॥२॥