दशमं मण्डलम् - सूक्तम् 55

8 ऋचः

ऋषिः: बृहदुक्थो वामदेव्यः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 10.55 - सम्पूर्णम्

1 / 8
ऋक्: 10.55.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
10.55.1
दू॒रे तन्नाम॒ गुह्यं᳚ परा॒चैर्यत्त्वा᳚ भी॒ते अह्व᳚येतां वयो॒धै ।
उद᳚स्तभ्नाः पृथि॒वीं द्याम॒भीके॒ भ्रातु᳚ः पु॒त्रान्म᳚घवन्तित्विषा॒णः ॥
▶ पदपाठः (Word-by-word)
दू॒रे । तत् । नाम᳚ । गुह्य᳚म् । प॒रा॒चैः । यत् । त्वा॒ । भी॒ते इति᳚ । अह्व᳚येताम् । व॒यः॒॑धै ।
उत् । अ॒स्त॒भ्नाः॒ । पृ॒थि॒वीम् । द्याम् । अ॒भीके᳚ । भ्रातुः᳚ । पु॒त्रान् । म॒घ॒॑व॒न् । ति॒त्वि॒षा॒णः ॥
▶ सायणभाष्यम् (Sayana Commentary)

दूरे तदित्यष्टर्चं त्रयोदशं सूक्तम्। ऋष्याद्याः पूर्ववत्। दूर इत्यनुक्रान्तम्। गतः सूक्तविनियोगः॥

अनया चत्वारि ते असुर्याणि नामेत्युक्तस्याद्यं नाम स्तूयते हे इन्द्र ते तव तद्वक्ष्यमाणं नाम सर्वेषां नामकं शरीरं पराचैः पराङ्मुखैर्मनुष्यैः। मनुष्याणामित्यर्थः। गुह्यं गोपनीयमप्रकाशितं सद्दूर इतो विप्रकृष्टे दूरदेशे वर्तत इति शेषः। यद्यदा त्वा त्वां रोदसी द्यावापृथिव्यौ भीते सती अह्वयेताम्। अवेत्यब्रूताम्। किमर्थम्। वयोधा अन्नस्य निधानार्थम्। जगतोऽन्नस्य साधनायेत्यर्थः। तदानीं तेन शरीरेणाभीके। अन्तिकनामैतत्। तव समीप एव पृथिवीं द्यां चोदूर्ध्वं परस्परवियुक्तं यथा भवति तथास्तभ्नाः। स्तम्भितवानसि। किं कुर्वन्। हे मघवन्निन्द्र भ्रतुः पर्जन्यस्य पुत्रान् पुत्रस्थानीयानुदकसंस्त्यायांस्तित्विषाणो दीपयन्॥

अनया चत्वारि ते असुर्यानि नामेत्युक्तस्याद्यं नाम स्तूयते हे इन्द्र ते तव तद्वक्ष्यमाणं नाम सर्वेषां नामकं शरीरं पराचैः पराङ्मुखैर्मनुष्यैः। मनुष्याणामित्यर्थः। गुह्यं गोपनीयमप्रकाशितं सद्दूर इतो विप्रकृष्टे दूरदेशे वर्तत इति शेषः। यद्यदा त्वा त्वां रोदसी द्यावापृथिव्यौ भीते सती आह्वयेताम् । अवेत्यब्रूताम्। किमर्थम्। वयोधा अन्नस्य निधानार्थम्। जगतोऽन्नस्य साधनायेत्यर्थः। तदानीं तेन शरीरेणाभीके। अन्तिकनामैतत्। तव समीप एव पृथिवीं द्यां चोदूर्ध्वं परस्परवियुक्तं यथा भवति तथा स्तभ्नाः। स्तम्भितवानसि। किं कुर्वन्। हे मघवन्निन्द्र भ्रातुः पर्जन्यस्य पुत्रान् पुत्रस्थानीयानुदकसंस्त्यायांस्तित्विषाणो दीपयन्॥१॥

10.55.2
म॒हत्तन्नाम॒ गुह्यं᳚ पुरु॒स्पृग्येन᳚ भू॒तं ज॒नयो॒ येन॒ भव्य᳚म् ।
प्र॒त्नं जा॒तं ज्योति॒र्यद᳚स्य प्रि॒यं प्रि॒याः सम᳚विशन्त॒ पञ्च᳚ ॥
▶ पदपाठः (Word-by-word)
म॒हत् । तत् । नाम᳚ । गुह्य᳚म् । पु॒रु॒॑स्पृक् । येन᳚ । भू॒तम् । ज॒नयः᳚ । येन᳚ । भव्य᳚म् ।
प्र॒त्नम् । जा॒तम् । ज्योतिः᳚ । यत् । अ॒स्य॒ । प्रि॒यम् । प्रि॒याः । सम् । अ॒वि॒श॒न्त॒ । पञ्च᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र तव तद्गुह्यं गोपनीयमन्यैरविज्ञातं पुरुस्पृग्बहुभिर्वृष्ट्यर्थिभिः स्पृहणीयमाकाशात्मकं नाम शरीरं महदत्यन्तं प्रवृद्धं येन नाम्नाभूतं भव्यंच पूर्वं जनयः उत्पादितवानसि। भूतभव्योभयान्वयाय येनेत्यस्यावृत्तिः स्यात्। आकाशात्मकाद्धि परमेशवरस्वरुपाद्भुतभव्यात्मकं जगदुत्पद्यते। आकाशाद्वायुरित्यादिश्रुतेः। किञ्च प्रत्नं पुराणं पूर्वकालीनं यज्ज्योतिर्द्योतमानमादित्याख्यमदकाख्यं वास्येन्द्रस्य प्रियं प्रियभूतं तत्त्वं जातमुत्पन्नं प्रियाः प्रीयमाणाः पञ्च। पञ्च जना इति शेषः। भीमसेनो भीम इति वदेकदेतलक्षणा। निशादपञ्चमाश्चत्वारो वर्णाः समविशन्त। संविशन्ते। स्वनिर्वाहार्थं भजन्त इत्यर्थः॥२॥

10.55.3
आ रोद᳚सी अपृणा॒दोत मध्यं॒ पञ्च᳚ दे॒वा{4} ऋ᳚तु॒शः स॒प्तस᳚प्त ।
चतु᳚स्त्रिंशता पुरु॒धा वि च᳚ष्टे॒ सरू᳚पेण॒ ज्योति᳚षा॒ विव्र᳚तेन ॥
▶ पदपाठः (Word-by-word)
आ । रोद᳚सी॒ इति᳚ । अ॒पृ॒णा॒त् । आ । उ॒त । मध्य᳚म् । पञ्च᳚ । दे॒वान् । ऋ॒तु॒॑शः । स॒प्त॑स᳚प्त ।
चतुः᳚॑त्रिंशता । पु॒रु॒धा । वि । च॒ष्टे॒ । स॑रू᳚पेण । ज्योति᳚षा । वि॑व्र᳚तेन ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिन्द्र आत्मीयेन शरीरेण तेजसा वा रोदसी द्यावापृथिव्यावा सर्वतोऽपृणात्। पूरयति। उतापि च मध्यं द्युभूम्यपेक्षया मध्यभूतमन्तरिक्षमपृणादिति वर्तते। तदपि स्वशरीरेण तेजसा वा पूरयति। पञ्च देवान् देवमनुष्यपित्रसुरराक्षससंज्ञकान् तथा सप्त सप्त। द्विरुक्त्या सप्त सङ्ख्याकानि तत्त्वानि लोके यानि सन्ति तानि परिगृह्यन्ते। कानि तानीति सप्तमरुद्गणान् सप्तादित्यरश्मीन् सप्त चेदिन्द्रियानि सप्त लोकानन्यानपि सप्तसङ्ख्योपेतानृत्कशः काले काले चतुस्त्रिंशता चतुस्त्रिंशत्सङ्ख्याकेन देवगनेन सह पुरुधा बहुप्रकारं चि चष्टे। विपश्यति। सर्वदेक्षते। अष्टौ वसव एकादश रुद्रा द्वादशादित्याः प्रजापतिश्च वषट्कारश्च विराट् चेति चतुस्त्रिंशत्त्वं देवानाम् । केनेति तदुच्यते। सरूपेण समानरूपेण ज्योतिषा प्रकाशकेन विव्रतेन विविधेन कर्मणा॥३॥

10.55.4 समानपद
यदु᳚ष॒ औच्छ᳚ः प्रथ॒मा वि॒भाना॒मज᳚नयो॒ येन᳚ पु॒ष्टस्य᳚ पु॒ष्टम् ।
यत्ते᳚ जामि॒त्वमव᳚रं॒ पर᳚स्या म॒हन्म᳚ह॒त्या अ᳚सुर॒त्वमेक᳚म् ॥
▶ पदपाठः (Word-by-word)
यत् । उ॒षः॒ । औच्छः᳚ । प्र॒थ॒मा । वि॒॑भाना᳚म् । अज᳚नयः । येन᳚ । पु॒ष्टस्य᳚ । पु॒ष्टम् ।
यत् । ते॒ । जा॒मि॒॑त्वम् । अव᳚रम् । पर᳚स्याः । म॒हत् । म॒ह॒त्याः । अ॒सु॒र॒॑त्वम् । एक᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्र प्रसङ्गात्सूर्यात्मकेन्द्रसंबन्धिन्युषाः स्तूयते। हे उष उषोदेवते विभानां विभासकानां ग्रहनक्षत्रादीनां प्रथमा प्रथमभुता सत्यौच्छः। विभासनमकरोः। अग्रे ह्युषसः प्रादुर्भवन्ति पश्चादन्यानि तेजांसि। येन च तेजसा पुष्टस्य पोषयुक्तस्यापि पदार्थस्य पुष्टमतिशयेन पोषयुक्तमादित्यमजनयः। उदपादयः। यत् यद्वा ते तव जामित्वं बान्धवमवरमवाङ्मुखम्। तदिदं महत्यास्तव महदतिप्रवृद्धमेकमसाधारणमेकमेव वासुरत्वं प्रकृष्टबलवत्त्वम्। तवबलेन कृतमित्यर्थः॥४॥

10.55.5
वि॒धुं द᳚द्रा॒णं सम᳚ने बहू॒नां युवा᳚नं॒ सन्तं᳚ पलि॒तो ज᳚गार ।
दे॒वस्य᳚ पश्य॒ काव्यं᳚ महि॒त्वाद्या म॒मार॒ स ह्यः समा᳚न ॥
▶ पदपाठः (Word-by-word)
वि॒॑धुम् । द॒द्रा॒णम् । सम᳚ने । ब॒हू॒नाम् । युवा᳚नम् । सन्त᳚म् । प॒लि॒तः । ज॒गा॒र॒ ।
दे॒वस्य᳚ । प॒श्य॒ । काव्य᳚म् । म॒हि॒॑त्वा । अ॒द्य । म॒मार᳚ । सः । ह्यः । सम् । आ॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

महाव्रते निष्केवले विधुं दद्राणमित्येषा। सुत्रितं च। आ याह्यर्वाङुपवन्धुरेष्ठा विधुं दद्रानमिति।

अनया कलात्मक इन्द्रः स्तूयते। विधुं विधातारम् सर्वस्य युद्धादेः कर्तारम् । विपूर्वो दधातिः करोत्यर्थः। तथा समने अननमनः प्राणनम्। सम्यगननोपेते सङ्ग्रामे बहूनां शत्रूणाम् दद्राणं द्रावकं ईदृक्सामर्थ्योपेतं युवानं सन्तं पुरुषं पलितो जरा जगार। निगिरतीन्द्राज्ञया। एवमुक्तलक्षनं वक्ष्यमाणलक्षणं च देवस्य कालात्मकस्येन्द्रस्य महित्वा महत्त्वेनोपेतं काव्यं सामर्थ्यं पश्य। पश्यत हे जनाः। तथा जरसा प्राप्तोऽयं ममार। म्रियते। स ह्यः परेद्युः समान। सम्यक्चेष्टरे। पुनर्जन्मान्तरे प्रादुर्भवतित्यर्थः। तदेवं चत्वारि नामानि शरीरान्युक्तानि॥५॥

10.55.6
शाक्म᳚ना शा॒को अ᳚रु॒णः सु᳚प॒र्ण आ यो म॒हः शूरः᳚ स॒नादनी᳚ळः ।
यच्चि॒केत᳚ स॒त्यमित्तन्न मोघं॒ वसु᳚ स्पा॒र्हमु॒त जेतो॒त दाता᳚ ॥
▶ पदपाठः (Word-by-word)
शाक्म᳚ना । शा॒कः । अ॒रु॒णः । सु॒॑प॒र्णः । आ । यः । म॒हः । शूरः᳚ । स॒नात् । अनी᳚ळः ।
यत् । चि॒केत᳚ । स॒त्यम् । इत् । तत् । न । मोघ᳚म् । वसु᳚ । स्पा॒र्हम् । उ॒त । जेता᳚ । उ॒त । दाता᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

शाक्मना। शक्मैव शाक्म। शक्मना बलेन शाकः शक्तः। शक्लृ शक्तौ। स्वशक्त्यैव सर्वं कर्तुं शक्त इत्यर्थः। न हीन्द्रस्य सहायान्तरापेक्षास्तीन्द्रत्वादेव। अरुणोऽरुणवर्णः सुपर्णः कश्चिच्छोभनपर्णः पक्ष्या गच्छतीत्यध्याहारः। उपसर्गश्रुतेर्योग्यक्रियाध्याहारः। यो महो महाञ्शूरो विक्रान्तः सनात् पुराणोऽनीळोऽनीडो नीडस्याकर्ता। न हीन्द्रोऽग्निवत् कुत्रचिदपि यज्ञे निकेतनं करोति। एवं सुपर्णरूपेणेन्द्रमाह। स पक्षीन्द्रो यच्चिकेत कर्तव्यत्वेन जानाति तत्सत्यमित् सत्यमेव न तु मोघं व्यर्थं भवति। स स्पार्हं स्पृहणीयं वसुत जेता जयति शत्रुभ्यः सकाशात् उतापि दाता प्रयच्छति च स्तोतृभ्यः। न लोकाव्ययेत्यादिना षष्ठीप्रतिषेधः॥६॥

10.55.7
ऐभि᳚र्ददे॒ वृष्ण्या॒ पौंस्या᳚नि॒ येभि॒रौक्ष᳚द्वृत्र॒हत्या᳚य व॒ज्री ।
ये कर्म᳚णः क्रि॒यमा᳚णस्य म॒ह्न ऋ᳚तेक॒र्ममु॒दजा᳚यन्त दे॒वाः ॥
▶ पदपाठः (Word-by-word)
आ । ए॒भिः॒ । द॒दे॒ । वृष्ण्या᳚ । पौंस्या᳚नि । येभिः᳚ । औक्ष᳚त् । वृ॒त्र॒॑हत्या᳚य । व॒ज्री ।
ये । कर्म᳚णः । क्रि॒यमा᳚णस्य । म॒ह्ना । ऋ॒ते॒॑क॒र्मम् । उ॒त्॑अजा᳚यन्त । दे॒वाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्र एभिर्मरुद्भिः सह वृष्ण्यानि वर्षकाणि पौंस्यानि बलान्याददे। आदत्ते। येभिर्मरुद्भिः सहितो वृत्रहत्याय। प्राण्युपकारवृष्ट्यावरकत्वाद्वृत्रः पापम् । तस्य हत्याय। मनुष्याणामुपद्रवशमनायेत्यर्थः। तदर्थं वज्री वज्रवानिन्द्र औक्षत्। वर्षति। ये च मरुतो देवा मह्ना महतेन्द्रेण क्रियमाणस्य कर्मणो वृष्टिप्रदानलक्षणस्य साहाय्यार्थमृतेकर्म मृतकर्मवृष्टिप्रदानकर्म प्रत्युदजायन्त उन्मुखा जायन्ते स्वयमेव तैरेभिर्दद इति समन्वयः॥७॥

10.55.8
यु॒जा कर्मा᳚णि ज॒नय᳚न्वि॒श्वौजा᳚ अशस्ति॒हा वि॒श्वम᳚नास्तुरा॒षाट् ।
पी॒त्वी सोम᳚स्य दि॒व आ वृ᳚धा॒नः शूरो॒ निर्यु॒धाध᳚म॒द्दस्यू᳚न् ॥
▶ पदपाठः (Word-by-word)
यु॒जा । कर्मा᳚णि । ज॒नय᳚न् । वि॒श्व॑ओ᳚जाः । अ॒श॒स्ति॒॑हा । वि॒श्व॑म᳚नाः । तु॒रा॒षाट् ।
पी॒त्वी । सोम᳚स्य । दि॒वः । आ । वृ॒धा॒नः । शूरः᳚ । निः । यु॒धा । अ॒ध॒म॒त् । दस्यू᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

स इन्द्रो युजा मरुतां साहाय्येन कर्माणि प्रवर्षणादीनि जनयन्नुत्पादयन् विश्वौजा व्याप्तबलोऽशस्तिहा रक्षोहा विश्वमना प्याप्तमना अत्यन्तं मनस्वी तुराषाट् तूर्णमभिभविता शत्रूणाम्। एवं महानुभाव इन्द्रः सोमस्य सोमं पीत्वी पीत्वा दिवो द्युलोकादागत्य सोमं पीत्वा वृधानो वर्धमानः शूरः सन् युधायुधेन प्रहारेण वा दस्यूञ्शत्रून्निरधमत्। निर्धमति। युद्धेनासुरानपबाधत इत्यर्थः॥८॥