दशमं मण्डलम् - सूक्तम् 30

15 ऋचः

ऋषिः: कवष ऐलूषः देवता: आपः अपांनपाद्वा छन्दः: त्रिष्टुप्

सूक्तम् 10.30 - सम्पूर्णम्

1 / 15
ऋक्: 10.30.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (15)
10.30.1
प्र दे᳚व॒त्रा ब्रह्म᳚णे गा॒तुरे᳚त्व॒पो अच्छा॒ मन᳚सो॒ न प्रयु᳚क्ति ।
म॒हीं मि॒त्रस्य॒ वरु᳚णस्य धा॒सिं पृ᳚थु॒ज्रय᳚से रीरधा सुवृ॒क्तिम् ॥
▶ पदपाठः (Word-by-word)
प्र । दे॒व॒॑त्रा । ब्रह्म᳚णे । गा॒तुः । ए॒तु॒ । अ॒पः । अच्छ᳚ । मन᳚सः । न । प्र॑यु᳚क्ति ।
म॒हीम् । मि॒त्रस्य᳚ । वरु᳚णस्य । धा॒सिम् । पृ॒थु॒॑ज्रय᳚से । री॒र॒ध॒ । सु॒॑वृ॒क्तिम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ब्रह्मणे तृतीयार्थे चतुर्थी ब्रह्मणा स्तोत्रेण स्तूयमानइतिशेषः गातुर्देवानपोवाप्रति गम- नशीलः सोमः देवत्रा देवीर्द्योतमानाः अपः वसतीवर्येकधनालक्षणान्युदकानि अच्छाभिप्रैतु प्रकर्षेण गच्छतु । तत्र दृष्टान्तः—मनसोनप्रयुक्ति यथा मनसः प्रयुक्ति प्रयोगउद्योगः शीघ्रं गच्छति तद्वत् । एवं सोमे अपःप्रति गते सति हे मदीयात्मन् अध्वर्यो वा महीं धासिं महत्सोमलक्षणमन्नं मित्रस्य वरुणस्य चार्थाय पृथुज्रयसे विस्तीर्णजवाय महतइन्द्रस्य वा- र्थायेत्यर्थः रीरध संसाधय संस्कुरु दानयोग्यं कुरु । सुवृक्तिं सुष्ठु दोषैर्वर्जितां स्तुतिं च कुरु ॥ १ ॥

10.30.2
अध्व᳚र्यवो ह॒विष्म᳚न्तो॒ हि भू॒ताच्छा॒प इ᳚तोश॒तीरु᳚शन्तः ।
अव॒ याश्चष्टे᳚ अरु॒णः सु᳚प॒र्णस्तमास्य᳚ध्वमू॒र्मिम॒द्या सु᳚हस्ताः ॥
▶ पदपाठः (Word-by-word)
अध्व᳚र्यवः । ह॒विष्म᳚न्तः । हि । भू॒त । अच्छ᳚ । अ॒पः । इ॒त॒ । उ॒श॒तीः । उ॒श॒न्तः॒ ।
अव᳚ । याः । चष्टे᳚ । अ॒रु॒णः । सु॒॑प॒र्णः । तम् । आ । अ॒स्य॒ध्व॒म् । ऊ॒र्मिम् । अ॒द्य । सु॒॑ह॒स्ताः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अध्वर्यवः यूयं हविष्मन्तोहि अभिषोतव्येन सोमलक्षणेन हविषा युक्ताः खलु भूत भवत । किञ्च हे उशन्तः सोमाभिषवं कर्तुं कामयमानाः अध्वर्यवोयूयं उशतीः सोमाभिष वांगभावमभिलषन्तीः एकधनालक्षणाअपः अच्छाभिमुख्येन इत गच्छत । अरुणः रक्तवर्णः सुपर्णः सुपतनः सोमः अवाधस्तात् अन्तरिक्षे याः मेघान्तरगताः अपः चष्टे पश्यति । हे सुहस्ताः सोमाभिषवादिशोभनकर्मकारित्वात्सुवर्णमयपवित्राद्यलंकृताः । यद्वा शोभनहस्ताहे अध्वर्यवोयूयं अद्येदानीं तं तादृशं ऊर्मिं सोमसंघातं ताभिरद्भिः सह आ अस्यध्वं आभि मुख्येन स्थित्वा महतादरेण दशापवित्रे शोधनार्थं प्रक्षिपत ॥ २ ॥

10.30.3
अध्व᳚र्यवो॒॑प इ᳚ता समु॒द्रम॒पां नपा᳚तं ह॒विषा᳚ यजध्वम् ।
स वो᳚ दददू॒र्मिम॒द्या सुपू᳚तं॒ तस्मै॒ सोमं॒ मधु᳚मन्तं सुनोत ॥
▶ पदपाठः (Word-by-word)
अध्व᳚र्यवः । अ॒पः । इ॒त॒ । स॒मु॒द्रम् । अ॒पाम् । नपा᳚तम् । ह॒विषा᳚ । य॒ज॒ध्व॒म् ।
सः । वः॒ । द॒द॒त् । ऊ॒र्मिम् । अ॒द्य । सु॑पू᳚तम् । तस्मै᳚ । सोम᳚म् । मधु᳚॑मन्तम् । सु॒नो॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अध्वर्यवोयूयं अपः एकधनलक्षणान्युदकान्याहर्तुमितिशेषः समुद्रं उदधिस्थानीयं ज- लाशयं इत गच्छत । इदानीं उत्तरोर्धर्चोव्याख्यायते—पश्चाद्द्वितीयः पादः आर्थिकोयं क्रमः अद्येदानीं सोपान्नपात् वः जलाशयं प्रति गतेभ्योयुष्मभ्यं सुपूतं सुशुद्धं ऊर्मिं जलसमूहं ददत् ददातु यूयमपि तेन समूहेन तस्मै अपांनपाते मधुमन्तं मधुरस्वादूपेतं सोमं सुनोत अभिषुणुत अभिषुतेन सोमाख्येन हविषा अपांनपातं वृष्टिकर्मण्यधिकृतं देवं यजध्वं ॥ ३ ॥

10.30.4 समानपद
यो अ᳚नि॒ध्मो दीद᳚यद॒प्स्व१॒᳚न्तर्यं विप्रा᳚स॒ ईळ᳚ते अध्व॒रेषु᳚ ।
अपां᳚ नपा॒न्मधु᳚मतीर॒पो दा॒ याभि॒रिन्द्रो᳚ वावृ॒धे वी॒र्या᳚य ॥
▶ पदपाठः (Word-by-word)
यः । अ॒नि॒ध्मः । दीद᳚यत् । अ॒प्॑सु । अ॒न्तः । यम् । विप्रा᳚सः । ईळ᳚ते । अ॒ध्व॒रेषु᳚ ।
अपा᳚म् । न॒पा॒त् । मधु᳚॑मतीः । अ॒पः । दाः॒ । याभिः᳚ । इन्द्रः᳚ । व॒वृ॒धे । वी॒र्या᳚य ॥
▶ सायणभाष्यम् (Sayana Commentary)

उत्तरार्धस्य प्रत्यक्षकृतत्वादेकवाक्यतायै युष्मच्छब्देन समानार्थोभवच्छब्दः प्रथमार्धे आहार्यः योभवानपान्नपात् अप्सु अन्तः अपां मध्ये मेघस्थाने अनिध्मः काष्ठवर्जितः सन् दीदयत् दीप्यते विप्रासोमेधाविनऋत्विग्यजमानाअध्वरेषु यागेषु यं भवन्तं ईळते स्तुवन्ति । हे अपान्नपात् सत्वं मधुमतीः मधुररसयुक्ताः अपोवृष्टिलक्षणादाः अस्मभ्यं देहि याभिर्व सतीवर्येकधनारूपाभिः सोमेन श्रृताभिरद्भिः इन्द्रः वीर्याय वृत्रवधादिशूरकर्मणे ववृधे ता अपोदेहीति संबंधः ॥ ४ ॥

10.30.5
याभि॒ः सोमो॒ मोद᳚ते॒ हर्ष᳚ते च कल्या॒णीभि᳚र्युव॒तिभि॒र्न मर्य᳚ः ।
ता अ᳚ध्वर्यो अ॒पो अच्छा॒ परे᳚हि॒ यदा᳚सि॒ञ्चा ओष᳚धीभिः पुनीतात् ॥
▶ पदपाठः (Word-by-word)
याभिः᳚ । सोमः᳚ । मोद᳚ते । हर्ष᳚ते । च॒ । क॒ल्या॒णीभिः᳚ । यु॒व॒ति॑भिः᳚ । न । मर्यः᳚ ।
ताः । अ॒ध्व॒र्यो॒ इति᳚ । अ॒पः । अच्छ᳚ । परा᳚ । इ॒हि॒ । यत् । आ॒॑सि॒ञ्चाः । ओष᳚धीभिः । पु॒नी॒ता॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अभिषुतः सोमः याभीर्वसतीवर्येकधनाख्याभिरद्भिः सह मोदते मुदितोभवति हर्षते च पुनरुक्तिरादरार्था अत्यर्थं हृष्यतीत्यर्थः । तत्र दृष्टान्तः—कल्याणीभिः कमनीयाभिर्युवतिभि स्तरुणीभिः सह मर्योन यथा मनुष्योमोदते तद्वत् । हे अध्वर्यो त्वं तास्तादृशीरपः अच्छा भिप्राप्तुं परेहि जलाशयं प्रति गच्छ । किञ्च यद्यदा आहृताभिस्ताभिः आसिंचाः आसमन्ता त्सोमान्सिञ्चसि तदा ओषधीभिः सोमैः सह अपश्च पुनीतात् दशापवित्रेण पुनीहि ॥ ५ ॥

10.30.6
ए॒वेद्यूने᳚ युव॒तयो᳚ नमन्त॒ यदी᳚मु॒शन्नु᳚श॒तीरेत्यच्छ᳚ ।
सं जा᳚नते॒ मन᳚सा॒ सं चि᳚कित्रे॑ध्व॒र्यवो᳚ धि॒षणाप᳚श्च दे॒वीः ॥
▶ पदपाठः (Word-by-word)
ए॒व । इत् । यूने᳚ । यु॒व॒तयः᳚ । न॒म॒न्त॒ । यत् । ई॒म् । उ॒शन् । उ॒श॒तीः । एति᳚ । अच्छ᳚ ।
सम् । जा॒न॒ते॒ । मन᳚सा । सम् । चि॒कि॒त्रे॒ । अ॒ध्व॒र्यवः᳚ । धि॒षणा᳚ । आपः᳚ । च॒ । दे॒वीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

युवतयस्तरुण्यः स्त्रियः यूने तरुणाय नमंत यथा प्रह्वीभवन्ति एव एवं वसतीवर्येक धनाख्याआपः सोमाय प्रह्वीभवन्ति । यद्वा युवतयः सोमेन सह मिश्रयित्र्यः आपः यूने अभिषवादिकर्मणा आत्मना सह मिश्रयित्रे कर्त्रे अध्वर्यवे नमन्त प्रह्वीभवन्त्येव । इदिति पूरणः । कदा यद्यदा उशन् अभिषवार्थं वसतीवरीः कामयमानः सोमः सोमाभिषवं कर्तुं कामयमानोध्वर्युर्वा उशतीः सोमेन सह मिश्रीभावमभिषवादिकर्मांगभावं च कामयमानाः ईमेनाअपः अच्छ प्राप्तुं एति गच्छति तदा उपनमन्ते अध्वर्यवः धिषणा तदीया स्तुति- लक्षणा वाक् च देवीर्देव्यः अपः आपश्च मनसा विशिष्टया बुद्या संजानते सम्यक् जानन्ति संचिकित्रे स्वं स्वमधिकारं परस्परोपकारं च चक्षुषा सम्यक् पश्यन्ति ॥ ६ ॥

10.30.7
यो वो᳚ वृ॒ताभ्यो॒ अकृ᳚णोदु लो॒कं यो वो᳚ म॒ह्या अ॒भिश᳚स्ते॒रमु᳚ञ्चत् ।
तस्मा॒ इन्द्रा᳚य॒ मधु᳚मन्तमू॒र्मिं दे᳚व॒माद᳚नं॒ प्र हि᳚णोतनापः ॥
▶ पदपाठः (Word-by-word)
यः । वः॒ । वृ॒ताभ्यः᳚ । अकृ᳚णोत् । ऊं॒ इति᳚ । लो॒कम् । यः । वः॒ । म॒ह्याः । अ॒भि॑श᳚स्तेः । अमु᳚ञ्चत् ।
तस्मै᳚ । इन्द्रा᳚य । मधु᳚॑मन्तम् । ऊ॒र्मिम् । दे॒व॒॑माद᳚नम् । प्र । हि॒णो॒त॒न॒ । आ॒पः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यइन्द्रः बृताभ्यः मेघैरावृताभ्यः परिवेष्टिताभ्यः वोयुष्मभ्यं अद्भ्यः लोकं मेघोदरान्निर्ग मनमार्गं अकृणोदकरोत् । उइतिपूरणः । किञ्च यः वोयुष्मान् मह्या महत्याः अभिशस्तेर्मेघ परिवेष्टनाभिहिंसनात् अमुंचत् मोचितवान् । हे आपः यूयं तस्मै तादृशायेन्द्राय मधुमन्तं मधुरस्वादयुक्तं देवमादनं इन्द्रादिदेवानां सोमेन सह मिश्रीभूय तर्पयितारं ऊर्मिं अप्संघा- तं प्रहिणोतन अस्मद्यज्ञं प्रतिगमयत सोमाभिषवकर्मांगभावाय प्रस्थापयत ॥ ७ ॥

10.30.8
प्रास्मै᳚ हिनोत॒ मधु᳚मन्तमू॒र्मिं गर्भो॒ यो वः᳚ सिन्धवो॒ मध्व॒ उत्स᳚ः ।
घृ॒तपृ᳚ष्ठ॒मीड्य᳚मध्व॒रेष्वापो᳚ रेवतीः शृणु॒ता हवं᳚ मे ॥
▶ पदपाठः (Word-by-word)
प्र । अ॒स्मै॒ । हि॒नो॒त॒ । मधु᳚॑मन्तम् । ऊ॒र्मिम् । गर्भः᳚ । यः । वः॒ । सि॒न्ध॒वः॒ । मध्वः᳚ । उत्सः᳚ ।
घृ॒त॑पृ᳚ष्ठम् । ईड्य᳚म् । अ॒ध्व॒रेषु᳚ । आपः᳚ । रे॒व॒तीः॒ । शृ॒णु॒त । हव᳚म् । मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्र यच्छब्दसंबंधात् द्वितीयः पादः पूर्वं व्याख्येयः हे सिन्धवः स्यन्दनशीलाः आपः वोयुष्माकं योगर्भः मध्वोमधुररसस्य उत्सउत्स्यन्दनः प्रस्रवणः यच्छब्दयोगात्तच्छब्दोध्या- हार्यः तं मधुमन्तं मधुररसोपेतं ऊर्मिमप्संघातं सारमित्यर्थः अस्मै अस्येन्द्रस्यार्थाय प्रहि नोते प्रहिणुत प्रगमयत । कीदृशं अध्वरेषु यज्ञेषु घृतपृष्ठं घृतमाज्यं पृष्ठे यस्य तं पश्चा- द्घृतपातिनमित्यर्थः । ईड्यं स्तुत्यम् । किञ्च हे आपः यूयं रेवतीः रेवत्यः अस्मभ्यं यानि धनानि दातव्यानि तैर्धनवत्यः मे मदीयं हवमाह्वानं शृणुत ॥ ८ ॥

10.30.9
तं सि᳚न्धवो मत्स॒रमि᳚न्द्र॒पान᳚मू॒र्मिं प्र हे᳚त॒ य उ॒भे इय᳚र्ति ।
म॒द॒च्युत᳚मौशा॒नं न᳚भो॒जां परि᳚ त्रि॒तन्तुं᳚ वि॒चर᳚न्त॒मुत्स᳚म् ॥
▶ पदपाठः (Word-by-word)
तम् । सि॒न्ध॒वः॒ । म॒त्स॒रम् । इ॒न्द्र॒॑पान᳚म् । ऊ॒र्मिम् । प्र । हे॒त॒ । यः । उ॒भे इति᳚ । इय᳚र्ति ।
म॒द॒॑च्युत᳚म् । औ॒शा॒नम् । न॒भः॒॑जाम् । परि᳚ । त्रि॒॑तन्तु᳚म् । वि॒॑चर᳚न्तम् । उत्स᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सिन्धवः स्यन्दनशीलाआपः योयुष्मदीयः सारभूतः समूहः उभे अस्मभ्यं दृष्टादृष्ट- फले दाता सन् इयर्ति कर्मांगभावं प्रतिपद्यते मत्सरं मादयितारं इन्द्रादिदेवानां तर्पयि तारं इन्द्रपानं देवानां प्रमुखेनेन्द्रेण पानीयं तादृशं ऊर्मिमुदकसमूहं प्रहेत प्रगमयत अस्म द्यज्ञं प्रति प्रेरयत । कीदृशं मदच्युतं मदस्य च्यावकं औशानं सोमेन सह मिश्रीभावं का- मयमानं नभोजां नभस्यन्तरिक्षे वृष्टिरूपेण जातं परि सर्वतः त्रितंतुं त्रयाणां लोकानां तनितारं विस्तारयितारं विचरन्तं यज्ञपात्रेषु गच्छन्तं उत्सं उत्स्यन्दनं तर्पयितारं देवान्प्र तिऊर्ध्वं गन्तारमिमित्यर्थः ॥ ९ ॥ अपोनप्त्रीये एकधनास्वावृत्तासु आवर्वृततीरित्येषा । सूत्रितञ्च—आवर्वृततीरधनुद्विधारा- इत्यावृत्तास्वेकधनास्विति । तत्रैव हिनोतानइत्येषा । सूत्रंपूर्वमुदाहृतम् ।

10.30.10 समानपद
आ॒वर्वृ᳚तती॒रध॒ नु द्वि॒धारा᳚ गोषु॒युधो॒ न नि᳚य॒वं चर᳚न्तीः ।
ऋषे॒ जनि᳚त्री॒र्भुव᳚नस्य॒ पत्नी᳚र॒पो व᳚न्दस्व स॒वृध॒ः सयो᳚नीः ॥
▶ पदपाठः (Word-by-word)
आ॒॑वर्वृ᳚ततीः । अध᳚ । नु । द्वि॒॑धाराः᳚ । गो॒षु॒॑युधः᳚ । न । नि॒॑य॒वम् । चर᳚न्तीः ।
ऋषे᳚ । जनि᳚त्रीः । भुव᳚नस्य । पत्नीः᳚ । अ॒पः । व॒न्द॒स्व॒ । स॒॑वृधः᳚ । स॑यो᳚नीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अधाथानन्तरं गोषु युधोन गोषु निमित्तभूतासु मेघैः सह युद्धतइति गोषुयुदिन्द्रः तस्य यथा वृष्टिलक्षणाआपः द्विधाराः द्विशब्दोनेकत्ववाची अनेकधाराः अपर्यन्तधाराइ त्यर्थः अस्माकमप्येवं स्थिताः आवर्वृततीः आवृत्ताः नियवं सोमं प्रतिनियतं यवं मिश्री भावं चरन्तीः गच्छन्तीः भुवनस्य लोकस्य जनित्रीः जनयित्रीः पत्नीः पालयित्रीश्च सवृ धः सह सोमस्य वर्धयित्रीः सयोनीः सोमेन सह समानस्थानाः हे ऋषे मदीयान्तरात्मन् अध्वर्यो वा त्वं एवंभूताअपः नु क्षिप्रं वन्दस्व स्तुहीत्यर्थः ॥ १० ॥

10.30.11
हि॒नोता᳚ नो अध्व॒रं दे᳚वय॒ज्या हि॒नोत॒ ब्रह्म᳚ स॒नये॒ धना᳚नाम् ।
ऋ॒तस्य॒ योगे॒ वि ष्य᳚ध्व॒मूधः᳚ श्रुष्टी॒वरी᳚र्भूतना॒स्मभ्य᳚मापः ॥
▶ पदपाठः (Word-by-word)
हि॒नोत᳚ । नः॒ । अ॒ध्व॒रम् । दे॒व॒॑य॒ज्या । हि॒नोत᳚ । ब्रह्म᳚ । स॒नये᳚ । धना᳚नाम् ।
ऋ॒तस्य᳚ । योगे᳚ । वि । स्य॒ध्व॒म् । ऊधः᳚ । श्रु॒ष्टी॒॑वरीः᳚ । भू॒त॒न॒ । अ॒स्मभ्य᳚म् । आ॒पः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋत्विजः हिनोत प्रहिणुत प्रगमयत प्रोत्सर्पयत नोस्माकं एतमध्वरं यज्ञं देवयज्या देवयज्यायै देवयजनार्थम् । किञ्च प्रहिणुतब्रह्मस्तुत्याख्यं यथाशास्त्रक्रमेण सनये लब्धयेस्माकं धनानां किञ्च ऋतस्य यज्ञस्य योगे संयोगे यदेतदूधरिव सोमपूर्णमधिषवणचर्म वर्तते । अथवा सोमसंबद्धशकटं योगः तद्धि तर्हि युज्यते तेनाधिषवणचर्मोधसोधस्तादवस्थितेनेति मन्यमानोनिरुक्तकारोब्रवीति याज्ञेशकटइति । यदेतद्यज्ञशकटस्याधस्तादुपरिवाधिषवणचर्मैत द्विष्यध्वं विमुंचध्वं ग्रहचमसस्थाल्यादिषु योनिषेकः सोमस्य एतद्विमोचनमधिषवणचर्मो- धसः तद्धिसोमउत्सिच्यमाने श्लथीभवति । यथेतरं गोरूधोदुह्यमानायां गवि एवमृत्विजउ- क्त्वाधुनैवसोमसंमिश्राअपोब्रवीति यूयमपि हे आपः एभिरृत्विग्भिरुत्सिच्यमानाः श्रुष्ठईव- रीः सुखवत्योभूतन भवतास्मभ्यम । एवमत्र प्रशब्देनार्थस्य सुतरां प्रकटनाभवतीति भा- ष्यकारेण प्रशब्दोध्याहृतः प्रहिणुतेति अध्वरमित्यनेनसंबंधात् हिनोतेर्गत्यर्थद्त्वमुपपद्यते । एतस्याऋचोव्याख्यानं निरुक्तटीकायाउद्धृतं ॥ ११ ॥ प्रातरनुवाकस्यापोरेवतीरित्येषा प्रतिपत् । सूत्रितंच—आपोरेवतीःक्षयथाहिवस्व उपप्रय- न्तइतिसूक्ते इति ।

10.30.12
आपो᳚ रेवती॒ः क्षय᳚था॒ हि वस्व॒ः क्रतुं᳚ च भ॒द्रं बि᳚भृ॒थामृतं᳚ च ।
रा॒यश्च॒ स्थ स्व᳚प॒त्यस्य॒ पत्नी॒ः सर᳚स्वती॒ तद्गृ᳚ण॒ते वयो᳚ धात् ॥
▶ पदपाठः (Word-by-word)
आपः᳚ । रे॒व॒तीः॒ । क्षय᳚थ । हि । वस्वः᳚ । क्रतु᳚म् । च॒ । भ॒द्रम् । बि॒भृ॒थ । अ॒मृत᳚म् । च॒ ।
रा॒यः । च॒ । स्थ । सु॒॑अ॒प॒त्यस्य᳚ । पत्नीः᳚ । सर᳚स्वती । तत् । गृ॒ण॒ते । वयः᳚ । धा॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे आपः रेवतीः रेवत्योधनवत्योयूयं वस्वः वसुनोधनस्य क्षयथ हि ईशिध्वे खलु । किञ्च भद्रं भजनीयं क्रतुं च सोमयागादिलक्षणं कर्म च अमृतं च अमृतममरणरूपं तज्ज न्यफलं च बिभृथ धारयथ पुष्णीथ वा । तथा रायश्च धनस्य च स्वपत्यस्य शोभनपुत्रस्य च पत्नीः पत्न्यः पालयित्र्यः स्थ भवथ । तथा सरस्वती तदभिमानिनी देवता गृणते स्तु- वते मह्यं तदिदं सर्वं वयोन्नलक्षणं धनं धात् दधातु ॥ १२ ॥

10.30.13
प्रति॒ यदापो॒ अदृ᳚श्रमाय॒तीर्घृ॒तं पयां᳚सि॒ बिभ्र᳚ती॒र्मधू᳚नि ।
अ॒ध्व॒र्युभि॒र्मन᳚सा संविदा॒ना इन्द्रा᳚य॒ सोमं॒ सुषु᳚तं॒ भर᳚न्तीः ॥
▶ पदपाठः (Word-by-word)
प्रति᳚ । यत् । आपः᳚ । अदृ᳚श्रम् । आ॒॑य॒तीः । घृ॒तम् । पयां᳚सि । बिभ्र᳚तीः । मधू᳚नि ।
अ॒ध्व॒र्यु॑भिः᳚ । मन᳚सा । स॒म्॑वि॒दा॒नाः । इन्द्रा᳚य । सोम᳚म् । सु॑सु᳚तम् । भर᳚न्तीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे आपः आयतीः अस्मद्यज्ञं प्रत्यागच्छन्तीः यत् सुपांसुलुगितिविभक्तेर्लुक् याः युष्मान् प्रत्यदृश्रं प्रतिपश्यामि घृतं सोमसंसृष्टमाज्यं मधूनि मधुसदृशानि मृष्टरसानि पयांस्युदकानि संभूय बिभ्रतीः यागकाले धारयन्तीः तथा अध्वर्युभिः मनसा अन्तःकरणेन संविदानाःसं- भाषमाणाः । किञ्च इन्द्रायेन्द्रार्थं सुषुतं सुष्ठु सुतं सोमं भरन्तीः धारयन्तीः एवं भूतास्ताः युष्मान्स्तौमीतिशेषः ॥ १३ ॥ अपोनप्त्रीये एमाअग्मन्निति द्वे । सूत्रितंच—एमाअग्मन्रेवतीर्जीवधन्याइति द्वे सन्नासूत्त रयापरिधायेति ।

10.30.14 समानपद
एमा अ᳚ग्मन्रे॒वती᳚र्जी॒वध᳚न्या॒ अध्व᳚र्यवः सा॒दय᳚ता सखायः ।
नि ब॒र्हिषि᳚ धत्तन सोम्यासो॒॑पां नप्त्रा᳚ संविदा॒नास᳚ एनाः ॥
▶ पदपाठः (Word-by-word)
आ । इ॒माः । अ॒ग्म॒न् । रे॒वतीः᳚ । जी॒व॑ध᳚न्याः । अध्व᳚र्यवः । सा॒दय᳚त । स॒खा॒यः॒ ।
नि । ब॒र्हिषि᳚ । ध॒त्त॒न॒ । सो॒म्या॒सः॒ । अ॒पाम् । नप्त्रा᳚ । स॒म्॑वि॒दा॒नासः᳚ । ए॒नाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

रेवतीरेवत्योधनवत्यः जीवधन्याः जीवानां पाययित्र्यः प्रीणयित्र्योवा इमाईदृग्भूताआः आग्मन् अस्मद्यज्ञं प्र्त्यागच्छन् एतज्ज्ञात्वा हे सखायः सखिभूताहे अध्वर्यवः यूयं अपांन प्त्रा वृष्टिकर्मस्वधिकृतेन देवेन सह संविदानासः संविदानाः संमंत्रयमाणाः एनाः एताअपः सादयत स्थापयत । कुत्र सादयामीति उच्यते—सोम्यासः सोमसंपादिनः अध्वर्यवोयूयं बर्हि षि वेद्यामास्तीर्णे कुशमये निधत्तन नियमेन स्थापयत ॥ १४ ॥

10.30.15
आग्म॒न्नाप᳚ उश॒तीर्ब॒र्हिरेदं न्य᳚ध्व॒रे अ᳚सदन्देव॒यन्ती᳚ः ।
अध्व᳚र्यवः सुनु॒तेन्द्रा᳚य॒ सोम॒मभू᳚दु वः सु॒शका᳚ देवय॒ज्या ॥
▶ पदपाठः (Word-by-word)
आ । अ॒ग्म॒न् । आपः᳚ । उ॒श॒तीः । ब॒र्हिः । आ । इ॒दम् । नि । अ॒ध्व॒रे । अ॒स॒द॒न् । दे॒व॒॑यन्तीः᳚ ।
अध्व᳚र्यवः । सु॒नु॒त । इन्द्रा᳚य । सोम᳚म् । अभू᳚त् । ऊं॒ इति᳚ । वः॒ । सु॒॑शका᳚ । दे॒व॒॑य॒ज्या ॥
▶ सायणभाष्यम् (Sayana Commentary)

आपः वसतीवर्येकधनाख्याः इदं ईदृशं बर्हिर्वेदिस्तरणं उशतीरुशत्यः कामयमाना आ- ग्मन् आआगच्छन् अस्मद्यज्ञं प्रति आगत्य च अध्वरे अस्मदीये यज्ञे देवयन्तीः देवान्काम यमानाः तर्पयितुमिच्छन्त्यइत्यर्थः न्यसदन् निषीदन् एतज्ज्ञात्वा हे अध्वर्यवः यूयं इन्द्राये न्द्रार्थं सोमं सुनुत अभिषुणुत इदानीमपां प्रसादात् वोयुष्माकं देवयज्या देवानिन्द्रादीनु- द्दिष्य क्रियमाणा यागक्रिया सुशका सुष्ठु कर्तुं शक्या अभूदासीदेव ॥ १५ ॥

आनइत्येकादशर्चं द्वितीयं सूक्तं कवषस्यार्षं त्रैष्टुभं वैश्वदेवं अनुक्रान्तञ्च—आनएकादश- वैश्वदेवमिति गतः सूक्तविनियोगः । एकादशिनस्य वैश्वदेवस्य पशोः पुरोडाशस्यानइत्येषा नुवाक्या सूत्रितञ्च—विश्वेअद्यमरुतोविश्वऊत्यानोदेवानामुपवेतुशंसइति ।