दशमं मण्डलम् - सूक्तम् 162

6 ऋचः

ऋषिः: रक्षोहा ब्राह्मः देवता: गर्भसंस्रावे प्रायश्चित्तं छन्दः: अनुष्टुप्

सूक्तम् 10.162 - सम्पूर्णम्

1 / 6
ऋक्: 10.162.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
10.162.1
ब्रह्म᳚णा॒ग्निः सं᳚विदा॒नो र᳚क्षो॒हा बा᳚धतामि॒तः ।
अमी᳚वा॒ यस्ते॒ गर्भं᳚ दु॒र्णामा॒ योनि᳚मा॒शये᳚ ॥
▶ पदपाठः (Word-by-word)
ब्रह्म᳚णा । अ॒ग्निः । सा॒म्॑वि॒दा॒नः । र॒क्षः॒॑हा । बा॒ध॒ता॒म् । इ॒तः ।
अमी᳚वा । यः । ते॒ । गर्भ᳚म् । दुः॒॑नामा᳚ । योनि᳚म् । आ॒॑शये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ब्रह्मणाग्निरिति षडृचमेकादशं सूक्तमानुष्टुभम्। ब्रह्मपुत्रो रक्षोहानामर्षिः। अपप्रसवसमाधानरूपस्य गर्भरक्षणस्य प्रतिपाद्यत्वात्तद्देवताकमिदम्। अनुक्रान्तं च। ब्रह्मणा षट् ब्राह्मो रक्षोहा गर्भसंस्रावे प्रायश्चित्तमानुष्तुभं हीति। विनियोगो लिङ्गादवगन्तव्यः॥

ब्रह्मणा मन्त्रेण सह संविदान ऐकमत्यं प्राप्तो रक्षोहा रक्षसाम् हन्ताग्निरितोऽस्मात्स्थानाद्राक्षसादिकं बाधताम्। हिनस्तु। यो राक्षसोऽमीवा रोगरुपः संस्ते तव गर्भमाशये आशेते। लोपस्त आत्मनेपदेष्विति तलोपः। हन्तुं प्राप्नोति। दुर्नामार्श आख्यो रोगः। तद्रूपः सन् यश्च ते तव योनिं रेतस आधानं गर्भस्थानमाशेते तं बाधतामित्यन्वयः॥१॥

10.162.2 समानपद
यस्ते॒ गर्भ॒ममी᳚वा दु॒र्णामा॒ योनि᳚मा॒शये᳚ ।
अ॒ग्निष्टं ब्रह्म᳚णा स॒ह निष्क्र॒व्याद᳚मनीनशत् ॥
▶ पदपाठः (Word-by-word)
यः । ते॒ । गर्भ᳚म् । अमी᳚वा । दुः॒॑नामा᳚ । योनि᳚म् । आ॒॑शये᳚ ।
अ॒ग्निः । तम् । ब्रह्म᳚णा । स॒ह । निः । क्र॒व्य॒॑अद᳚म् । अ॒नी॒न॒श॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

गतः पूर्वोऽर्धचः। तं क्रव्यादं मांसाशिनं राक्षसादिकं ब्रह्मणा सहितोऽग्निर्निःशेषेणानीनशत्। नाशयतु॥२॥

10.162.3 समानपद
यस्ते॒ हन्ति᳚ प॒तय᳚न्तं निष॒त्स्नुं यः स᳚रीसृ॒पम् ।
जा॒तं यस्ते॒ जिघां᳚सति॒ तमि॒तो ना᳚शयामसि ॥
▶ पदपाठः (Word-by-word)
यः । ते॒ । हन्ति᳚ । प॒तय᳚न्तम् । नि॒॑स॒त्स्नुम् । यः । स॒री॒सृ॒पम् ।
जा॒तम् । यः । ते॒ । जिघां᳚सति । तम् । इ॒तः । ना॒श॒या॒म॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे योषित् ते तव गर्भाशये पतयन्तं पतन्तं रेतोरूपेण गच्छन्तं तदनन्तरं तत्र निषत्स्नुं निषीदन्तं च गर्भं यो राक्षसादिर्हन्ति हिनस्ति शतो मासत्रयादूर्ध्वं प्राप्तसर्वावयं सरीसृपं सर्पणशीलं च गर्भं यो हन्ति जातं दशसु मासेषूत्पन्नं ते तव शिशुं यो राक्शसादिर्जिघांसति हन्तुमिच्छति तमितः स्थानन्नाशयामसि। नाशयामः॥३॥

10.162.4 समानपद
यस्त᳚ ऊ॒रू वि॒हर᳚त्यन्त॒रा दम्प᳚ती॒ शये᳚ ।
योनिं॒ यो अ॒न्तरा॒रेळ्हि॒ तमि॒तो ना᳚शयामसि ॥
▶ पदपाठः (Word-by-word)
यः । ते॒ । ऊ॒रू इति᳚ । वि॒॑हर᳚ति । अ॒न्त॒रा । दम्प᳚ती॒ इति॒ दम्॑प᳚ती । शये᳚ ।
योनि᳚म् । यः । अ॒न्तः । आ॒॑रेळ्हि᳚ । तम् । इ॒तः । ना॒श॒या॒म॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे योषित् तवूरोपादमूलौ यो राक्षसादिर्विहरति गर्भघातय विश्लिष्टौ करोति दम्पती अन्तरा जायापत्योर्मध्ये गर्भहननार्थं यश्च शये शेते यश्च योनिमन्तः प्रविश्यारेळ्हि निषिक्तं रेतो जिह्वयास्वादयति। भक्षयतीत्यर्थः। लिह आस्वानने आदादिकः। कपिलकादित्वाल्लत्वविकल्पः। तं सर्वमितो नाशयामः॥४॥

10.162.5
यस्त्वा॒ भ्राता॒ पति᳚र्भू॒त्वा जा॒रो भू॒त्वा नि॒पद्य᳚ते ।
प्र॒जां यस्ते॒ जिघां᳚सति॒ तमि॒तो ना᳚शयामसि ॥
▶ पदपाठः (Word-by-word)
यः । त्वा॒ । भ्राता᳚ । पतिः᳚ । भू॒त्वा । जा॒रः । भू॒त्वा । नि॒॑पद्य᳚ते ।
प्र॒॑जाम् । यः । ते॒ । जिघां᳚सति । तम् । इ॒तः । ना॒श॒या॒म॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे योषित् यो राक्षसो भ्राता भ्रातृरूपो भुत्वा पतिर्भर्तृरूपो वा भुत्वा त्वां निपद्यते अभिगच्छति। अथवा जार उपपतिरूपो वा भूत्वाभिगच्छति। एवंभूतो यो राक्षसादिस्ते तव प्रजाम् जिघांसति हन्तुमिच्छति। स्पष्टमन्यत्॥५॥

10.162.6
यस्त्वा॒ स्वप्ने᳚न॒ तम᳚सा मोहयि॒त्वा नि॒पद्य᳚ते ।
प्र॒जां यस्ते॒ जिघां᳚सति॒ तमि॒तो ना᳚शयामसि ॥
▶ पदपाठः (Word-by-word)
यः । त्वा॒ । स्वप्ने᳚न । तम᳚सा । मो॒ह॒यि॒त्वा । नि॒॑पद्य᳚ते ।
प्र॒॑जाम् । यः । ते॒ । जिघां᳚सति । तम् । इ॒तः । ना॒श॒या॒म॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे योषित् यो राक्षसादिः स्वप्नेन स्वप्नावस्थया तमसा निद्रया त्वा त्वां मोहयित्वा मूढतां प्रापय्य निपद्यते गर्भघाताय गच्छति। अन्यद्गतम्॥६॥