श्रवणम्

10.162.1
ब्रह्म᳚णा॒ग्निः सं᳚विदा॒नो र᳚क्षो॒हा बा᳚धतामि॒तः ।
अमी᳚वा॒ यस्ते॒ गर्भं᳚ दु॒र्णामा॒ योनि᳚मा॒शये᳚ ॥
▶ पदपाठः (Word-by-word)
ब्रह्म᳚णा । अ॒ग्निः । सा॒म्॑वि॒दा॒नः । र॒क्षः॒॑हा । बा॒ध॒ता॒म् । इ॒तः ।
अमी᳚वा । यः । ते॒ । गर्भ᳚म् । दुः॒॑नामा᳚ । योनि᳚म् । आ॒॑शये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ब्रह्मणाग्निरिति षडृचमेकादशं सूक्तमानुष्टुभम्। ब्रह्मपुत्रो रक्षोहानामर्षिः। अपप्रसवसमाधानरूपस्य गर्भरक्षणस्य प्रतिपाद्यत्वात्तद्देवताकमिदम्। अनुक्रान्तं च। ब्रह्मणा षट् ब्राह्मो रक्षोहा गर्भसंस्रावे प्रायश्चित्तमानुष्तुभं हीति। विनियोगो लिङ्गादवगन्तव्यः॥

ब्रह्मणा मन्त्रेण सह संविदान ऐकमत्यं प्राप्तो रक्षोहा रक्षसाम् हन्ताग्निरितोऽस्मात्स्थानाद्राक्षसादिकं बाधताम्। हिनस्तु। यो राक्षसोऽमीवा रोगरुपः संस्ते तव गर्भमाशये आशेते। लोपस्त आत्मनेपदेष्विति तलोपः। हन्तुं प्राप्नोति। दुर्नामार्श आख्यो रोगः। तद्रूपः सन् यश्च ते तव योनिं रेतस आधानं गर्भस्थानमाशेते तं बाधतामित्यन्वयः॥१॥