तस्मा᳚ अर्चाम कृ॒णवा᳚म॒ निष्कृ᳚तिं॒ शं नो᳚ अस्तु द्वि॒पदे॒ शं चतु᳚ष्पदे ॥
पदपाठः (Word-by-word)
तस्मै᳚ । अ॒र्चा॒म॒ । कृ॒णवा᳚म । निः॑कृ᳚तिम् । शम् । नः॒ । अ॒स्तु॒ । द्वि॒॑पदे᳚ । शम् । चतुः᳚॑पदे ॥
सायणभाष्यम् (Sayana Commentary)
देवा इति पञ्चर्चं चतुर्दशं सूक्तं निरृतिपुत्रस्य कपोताख्यस्यार्षम् त्रैष्टुभं वैश्वदेवम् । तथा चानुक्रान्तम्। देवा नैरृतः कपोतः कपोतोपहतौ प्रायश्चित्तमिदं वैश्वदेवमिति। कपोतो यदि गृहं प्रविशेत् तदानेन सूक्तेन होतव्यम् । सूत्र्यते हि। कपोतश्चेदगारमुपहन्यादनुपतेद्वा देवाः कपोत इति प्रत्युचं जुहुयाज्जपेद्वा। आ. गृ. ३-७-७। इति॥
हे देवाः इषितः प्राप्तो निरृत्याः पापदेवताया दूतोऽनुचरः कपोतो यद्भाधनमिच्छन्निभिलषन्निदमस्मदीयं ग्रुहमाजगाम प्राप्नोत् तस्मै बाधनाय तद्भाधननिवृत्त्यर्थमर्चाम। युष्मान्हविषा पूजयाम। ततो निष्क्रुतिं कपोतप्रवेशजन्यस्य दोषस्य परिहृतिं कृणवाम। अनेन हविर्दानेन करवाम। अतो नोऽस्माकं द्विपदे पुत्राय शं सुखमस्तु चतुष्पदे गावश्वप्रभृतये च शं सुखमस्तु॥१॥