यदुलू᳚को॒ वद᳚ति मो॒घमे॒तद्यत्क॒पोतः᳚ प॒दम॒ग्नौ कृ॒णोति᳚ ।
यस्य᳚ दू॒तः प्रहि᳚त ए॒ष ए॒तत्तस्मै᳚ य॒माय॒ नमो᳚ अस्तु मृ॒त्यवे᳚ ॥
यस्य᳚ दू॒तः प्रहि᳚त ए॒ष ए॒तत्तस्मै᳚ य॒माय॒ नमो᳚ अस्तु मृ॒त्यवे᳚ ॥
पदपाठः (Word-by-word)
यत् । उलू᳚कः । वद᳚ति । मो॒घम् । ए॒तत् । यत् । क॒पोतः᳚ । प॒दम् । अ॒ग्नौ । कृ॒णोति᳚ ।
यस्य᳚ । दू॒तः । प्र॑हि᳚तः । ए॒षः । ए॒तत् । तस्मै᳚ । य॒माय᳚ । नमः᳚ । अ॒स्तु॒ । मृ॒त्यवे᳚ ॥
यस्य᳚ । दू॒तः । प्र॑हि᳚तः । ए॒षः । ए॒तत् । तस्मै᳚ । य॒माय᳚ । नमः᳚ । अ॒स्तु॒ । मृ॒त्यवे᳚ ॥
सायणभाष्यम् (Sayana Commentary)
उलूको घूकसंज्ञः पक्षी यदशोभनम् वदति ब्रवीति आत्मीयेन शब्देन सूचयति एतन्मोघं निष्फलमस्तु। कपोतश्चाग्नावग्निमति ग्रुहमध्ये यत्पदं कृणोति करोति एतदपि मोघं निर्वीर्यमस्तु। प्रहितः प्रेषितः एष कपोतो यस्य स्वामिनो दूतोऽनुचरो भवति तस्मै नाम मृत्यवे मारयित्रे यमायैतन्नमः प्रणामोऽस्तु। भवतु॥४॥