श्रवणम्

10.165.3
हे॒तिः प॒क्षिणी॒ न द᳚भात्य॒स्माना॒ष्ट्र्यां प॒दं कृ᳚णुते अग्नि॒धाने᳚ ।
शं नो॒ गोभ्य᳚श्च॒ पुरु᳚षेभ्यश्चास्तु॒ मा नो᳚ हिंसीदि॒ह दे᳚वाः क॒पोतः᳚ ॥
▶ पदपाठः (Word-by-word)
हे॒तिः । प॒क्षिणी᳚ । न । द॒भा॒ति॒ । अ॒स्मान् । आ॒ष्ट्र्याम् । प॒दम् । कृ॒णु॒ते॒ । अ॒ग्नि॒॑धाने᳚ ।
शम् । नः॒ । गोभ्यः᳚ । च॒ । पुरु᳚षेभ्यः । च॒ । अ॒स्तु॒ । मा । नः॒ । हिं॒सी॒त् । इ॒ह । दे॒वाः॒ । क॒पोतः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पक्षिणी पक्षोपेता हेतिर्हननहेतुः कपोतोऽस्मान्न दभाति। न हिनस्तु। आष्ट्र्यां व्याप्तायामरण्यान्यामग्निधाने। अग्निर्निधीयतेऽस्मिन्नित्यग्निसहिते प्रदेशे पदं स्थानं कृणुते। करोति। तत्रैव प्रदेशे निवसत्वित्यर्थः। यद्वा। अश्नंत्यस्मिन्नित्याष्ट्री पचनशाला। तस्याम् । अग्निधाने यत्र पचनाग्निर्निधीयते तस्मिन्प्रदेशे पदं पादनिधानम् कृणुते। करोति। तद्धेतुको बाधो नोऽस्माकं न भवत्वित्यर्थः। अपि च नोऽस्माकं गोभ्यश्च पुरुषेभ्यश्च शं सुखं शंसनीयानां दोषाणां शान्तिर्वास्तु। भवतु। हे देवाः इहास्मिन्गृहे कपोतो नोऽस्मान्मा हिंसीत्। युद्मदनुग्रहान्मा बाधाताम्॥३॥