श्रवणम्

10.165.2
शि॒वः क॒पोत᳚ इषि॒तो नो᳚ अस्त्वना॒गा दे᳚वाः शकु॒नो गृ॒हेषु᳚ ।
अ॒ग्निर्हि विप्रो᳚ जु॒षतां᳚ ह॒विर्न॒ः परि᳚ हे॒तिः प॒क्षिणी᳚ नो वृणक्तु ॥
▶ पदपाठः (Word-by-word)
शि॒वः । क॒पोतः᳚ । इ॒षि॒तः । नः॒ । अ॒स्तु॒ । अ॒ना॒गाः । दे॒वाः॒ । श॒कु॒नः । गृ॒हेषु᳚ ।
अ॒ग्निः । हि । विप्रः᳚ । जु॒षता᳚म् । ह॒विः । नः॒ । परि᳚ । हे॒तिः । प॒क्षिणी᳚ । नः॒ । वृ॒ण॒क्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवाः नोऽस्माकं गृहेष्विषितः कपोताख्यः शकुनः पक्षी शिवः सुखकरोऽनागा अपापहेतुश्चास्तु। हि यस्माद्विप्रो मेधाव्यग्निर्नोऽस्माकं हविर्युष्मभ्यं परिकल्पितं जुषताम् जुषते अतो युष्मत्प्रसादात्पक्षिणी पक्षोपेता हेतिर्हननहेतुः कपोतो नोऽस्मान्परि वृणक्तु। अस्मान्परित्यजतु। मा बाधतामित्यर्थः॥२॥