ऋ॒चा क॒पोतं᳚ नुदत प्र॒णोद॒मिषं॒ मद᳚न्त॒ः परि॒ गां न᳚यध्वम् ।
सं॒यो॒पय᳚न्तो दुरि॒तानि॒ विश्वा᳚ हि॒त्वा न॒ ऊर्जं॒ प्र प᳚ता॒त्पति᳚ष्ठः ॥
सं॒यो॒पय᳚न्तो दुरि॒तानि॒ विश्वा᳚ हि॒त्वा न॒ ऊर्जं॒ प्र प᳚ता॒त्पति᳚ष्ठः ॥
पदपाठः (Word-by-word)
ऋ॒चा । क॒पोत᳚म् । नु॒द॒त॒ । प्र॒॑नोद᳚म् । इष᳚म् । मद᳚न्तः । परि᳚ । गाम् । न॒य॒ध्व॒म् ।
स॒म्॑यो॒पय᳚न्तः । दुः॒॑इ॒तानि᳚ । विश्वा᳚ । हि॒त्वा । नः॒ । ऊर्ज᳚म् । प्र । प॒ता॒त् । पति᳚ष्ठः ॥
स॒म्॑यो॒पय᳚न्तः । दुः॒॑इ॒तानि᳚ । विश्वा᳚ । हि॒त्वा । नः॒ । ऊर्ज᳚म् । प्र । प॒ता॒त् । पति᳚ष्ठः ॥
सायणभाष्यम् (Sayana Commentary)
हे देवाः ऋचा मन्त्रेण स्तूयमानाः सन्तो यूयं प्रणोदं प्रकर्षेन नोदनीयं बहिष्कर्तव्यम् कपोतम् पक्षिणम् नुदत। अस्माद्गृहात्प्रेरयत। निर्गमयत। तथा मदन्तोऽस्माभिर्दत्तैर्हविर्भिर्माद्यन्त इषमन्नं गां च परिणयध्वम्। परितोऽस्मभ्यं पापयत। किं कुर्वन्तः। विश्वा सर्वाणि दुरितानि कपोतोपहतिजन्यानि दोषजातानि संयोपयन्तोऽद्रुश्यानि कुर्वन्तः। अपि च पतिष्ठोऽतिशयेन पतिता शीघ्रोत्पातकः कपोतो नोऽस्माकमूर्जमन्नं हित्वा परित्यज्य प्र पतात्। प्रकर्षेन पततु। पक्शाभ्यामुत्पततु॥५॥