दशमं मण्डलम् - सूक्तम् 158

5 ऋचः

ऋषिः: चक्षुः सौर्यः देवता: सूर्यः छन्दः: गायत्री

सूक्तम् 10.158 - सम्पूर्णम्

1 / 5
ऋक्: 10.158.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
10.158.1
सूर्यो᳚ नो दि॒वस्पा᳚तु॒ वातो᳚ अ॒न्तरि᳚क्षात् ।
अ॒ग्निर्न॒ः पार्थि᳚वेभ्यः ॥
▶ पदपाठः (Word-by-word)
सूर्यः᳚ । नः॒ । दि॒वः । पा॒तु॒ । वातः᳚ । अ॒न्तरि᳚क्षात् ।
अ॒ग्निः । नः॒ । पार्थि᳚वेभ्यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सूर्य इति पञ्चर्चम् सप्तमं सूक्तं सूर्यपुत्रस्य चक्षुः संज्ञस्यार्षम् सूर्यदेवत्यं गायत्रम्। तथा चानुक्रान्तम्। सूर्यो नश्चक्षुः सौर्यः सौर्यं गायत्रमिति। आश्विनशस्त्रे सूर्योदयादुत्तरकाले सौरकाण्ड इदं सूक्तम्। सूत्रितं च। सूर्यो नो दिव उदु त्यं जातवेदसमिति नव। आ. ६-५। इति। दर्शपूर्णमासयोः स्रुगादापनात्पूर्वभाविनि जपे सूर्यो न इत्येषा। सूत्रितं च। सूर्यो नो दिवस्पातु नमो महद्भ्यो नमो आर्भकेभ्यः। आ. १-४। इति॥

सूर्यः सर्वस्य प्रेरकः शोभनीयो वा देवो दिवो द्युलोकाद्द्युलोकवर्तिनो जदान्नोऽस्मान्पातु। रक्षतु। वातो वायुश्चान्तरिक्ष्मान्मध्यमस्थानगताद्बाधकादस्मान्रक्षतु। तथा पृथिवीस्थानोऽग्निश्च पार्थिवेभ्यः पृथिव्यां वर्तमानेभ्यः शत्रुभ्यो नोऽस्मान्रक्शतु॥१॥

10.158.2
जोषा᳚ सवित॒र्यस्य᳚ ते॒ हरः᳚ श॒तं स॒वा{4} अर्ह᳚ति ।
पा॒हि नो᳚ दि॒द्युत॒ः पत᳚न्त्याः ॥
▶ पदपाठः (Word-by-word)
जोष᳚ । स॒वि॒तः॒ । यस्य᳚ । ते॒ । हरः᳚ । श॒तम् । स॒वान् । अर्ह᳚ति ।
पा॒हि । नः॒ । दि॒द्युतः᳚ । पत᳚न्त्याः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सवितः सर्वस्य प्रेरक सूर्य जोष। अस्मत्स्तुत्यादिकं सेवस्व। यस्य ते तव हरो रसहरणशीलं तेजः शतं सवान्बहून्यज्ञान्प्रत्यर्हति योग्यं भवति। यद्वा। प्रकाशनादिद्वारा पूजयति। सत्वं नोऽस्मान्पतन्त्या निपतन्त्याः शत्रुभिरस्मासु क्षिप्यमाणाया दिद्युतः। वज्रनामैतत्। द्योतमानायाः शक्तेरायुधात्पाहि। रक्ष॥२॥

10.158.3
चक्षु᳚र्नो दे॒वः स᳚वि॒ता चक्षु᳚र्न उ॒त पर्व᳚तः ।
चक्षु᳚र्धा॒ता द᳚धातु नः ॥
▶ पदपाठः (Word-by-word)
चक्षुः᳚ । नः॒ । दे॒वः । स॒वि॒ता । चक्षुः᳚ । नः॒ । उ॒त । पर्व᳚तः ।
चक्षुः᳚ । धा॒ता । द॒धा॒तु॒ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सविता प्रेरको देवो नोऽस्माकं चक्षुः प्रकाशकमिन्द्रियमिन्द्रियानुग्राहकं तेजो वा दधातु। उतापि च पर्वत इन्द्रसहचरः पर्वताख्योऽपि देवो नोऽस्माकं चक्शुर्दधातु। धाता सर्वस्य विधातादित्यानामन्यतमश्च नोऽस्माकं चक्षुर्विदधातु॥३॥

10.158.4
चक्षु᳚र्नो धेहि॒ चक्षु᳚षे॒ चक्षु᳚र्वि॒ख्यै त॒नूभ्य᳚ः ।
सं चे॒दं वि च᳚ पश्येम ॥
▶ पदपाठः (Word-by-word)
चक्षुः᳚ । नः॒ । धे॒हि॒ । चक्षु᳚षे । चक्षुः᳚ । वि॒॑ख्यै । त॒नूभ्यः᳚ ।
सम् । च॒ । इ॒दम् । वि । च॒ । प॒श्ये॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नोऽस्माकं चक्षुषे रूपोपलब्धिकारणायेन्द्रियाय चक्षुः प्रकाशकं तदानुग्राहकं तेजो हे सूर्य धेहि। विधेहि। कुरु। यद्वा। न इति व्यत्ययेन बहुवचनम्। चक्षुषे चक्षुः संज्ञाय नो मह्यं चक्षुरिन्द्रियं वा तेजो वा हे सूर्य धेहि। प्रयच्छ। तनूभ्योऽस्माकं शरीरेभ्यस्तनयेभ्यो वा विख्यै विख्यानाय प्रकाशनाय चक्षुस्त्वदीयं प्रकाशं विधेहि। यत एवं तस्मात्कारणात्त्वदीयेन तेजसा वयम् चेदं सर्वं जगत्सं पश्येम। सम्यग्द्रष्टारो भवेम। वि पश्येम च। विविधं च सविशेशं द्रष्टारो भवेम॥४॥

10.158.5
सु॒सं॒दृशं᳚ त्वा व॒यं प्रति᳚ पश्येम सूर्य ।
वि प᳚श्येम नृ॒चक्ष᳚सः ॥
▶ पदपाठः (Word-by-word)
सु॒॑स॒न्दृश᳚म् । त्वा॒ । व॒यम् । प्रति᳚ । प॒श्ये॒म॒ । सू॒र्य॒ ।
वि । प॒श्ये॒म॒ । नृ॒॑चक्ष᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सूर्य सुसंदृशं सुष्ठु संदृष्टारं त्वा त्वाम् वयं प्रति पश्येम। प्रत्येकं द्रष्टारो भूयास्म। तथा न्रुचक्शसो नृभिर्मनुष्यैरमाभिर्द्रष्टव्यान्पदार्थान्विपश्येम। विद्रष्टारो भवेम। यद्वा। नृचक्शसो नृणां शत्रुमनुष्याणाम् हिम्सकाः सन्तो वयं विशिष्टज्ञाना भवेम॥५॥