चक्षु᳚र्नो धेहि॒ चक्षु᳚षे॒ चक्षु᳚र्वि॒ख्यै त॒नूभ्य᳚ः ।
सं चे॒दं वि च᳚ पश्येम ॥
सं चे॒दं वि च᳚ पश्येम ॥
पदपाठः (Word-by-word)
चक्षुः᳚ । नः॒ । धे॒हि॒ । चक्षु᳚षे । चक्षुः᳚ । वि॒॑ख्यै । त॒नूभ्यः᳚ ।
सम् । च॒ । इ॒दम् । वि । च॒ । प॒श्ये॒म॒ ॥
सम् । च॒ । इ॒दम् । वि । च॒ । प॒श्ये॒म॒ ॥
सायणभाष्यम् (Sayana Commentary)
नोऽस्माकं चक्षुषे रूपोपलब्धिकारणायेन्द्रियाय चक्षुः प्रकाशकं तदानुग्राहकं तेजो हे सूर्य धेहि। विधेहि। कुरु। यद्वा। न इति व्यत्ययेन बहुवचनम्। चक्षुषे चक्षुः संज्ञाय नो मह्यं चक्षुरिन्द्रियं वा तेजो वा हे सूर्य धेहि। प्रयच्छ। तनूभ्योऽस्माकं शरीरेभ्यस्तनयेभ्यो वा विख्यै विख्यानाय प्रकाशनाय चक्षुस्त्वदीयं प्रकाशं विधेहि। यत एवं तस्मात्कारणात्त्वदीयेन तेजसा वयम् चेदं सर्वं जगत्सं पश्येम। सम्यग्द्रष्टारो भवेम। वि पश्येम च। विविधं च सविशेशं द्रष्टारो भवेम॥४॥