दशमं मण्डलम् - सूक्तम् 79

7 ऋचः

ऋषिः: अग्निः सौचीको वैश्वानरो वा सप्तिर्वा वाजंभरः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 10.79 - सम्पूर्णम्

1 / 7
ऋक्: 10.79.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
10.79.1
अप᳚श्यमस्य मह॒तो म᳚हि॒त्वमम᳚र्त्यस्य॒ मर्त्या᳚सु वि॒क्षु ।
नाना॒ हनू॒ विभृ᳚ते॒ सं भ᳚रेते॒ असि᳚न्वती॒ बप्स᳚ती॒ भूर्य᳚त्तः ॥
▶ पदपाठः (Word-by-word)
अप᳚श्यम् । अ॒स्य॒ । म॒ह॒तः । म॒हि॒॑त्वम् । अम᳚र्त्यस्य । मर्त्या᳚सु । वि॒क्षु ।
नाना᳚ । हनू॒ इति᳚ । विभृ᳚ते॒ इति॒ वि॑भृ᳚ते । सम् । भ॒रे॒ते॒ इति᳚ । असि᳚न्वती॒ इति᳚ । बप्स᳚ती॒ इति᳚ । भूरि᳚ । अ॒त्तः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अपश्यमिति सप्तर्चमेकादह्सम् सूक्तमाग्नेयं त्रैष्टुभम्। सौचीकगुणोऽग्निरृषिर्वैश्वानरगुणो वाथवा सप्तिर्नाम वाजंभरपुत्रः। तथाचानुक्रान्तम्। अपश्यं सप्त सौचीकोऽग्निर्वैश्वानरो वा सप्तिर्वा वाजंभर आग्नेयं त्विति। प्रातरनुवाकाश्विनशस्त्रयोस्त्रैष्टुभे छन्दसीदमादिके द्वे सूक्ते। सूत्रितं च। अपश्यमस्य महत इति सूक्ते। आ. ४-१३॥ इति॥

अस्याग्नेर्महतो मंहनीयस्य महित्त्वं महत्त्वमपश्यम् । पश्यामि। कीदृशस्यास्य। मर्त्यासु विक्षु मनुष्यरूपासु प्रजासु तासाम् हृदयेऽमर्त्यस्यामरनस्वभावस्य वैश्वानररूपेण वर्तमानस्य। यद्वा। मर्त्यासु विक्ष्वृत्विग्यजमानरूपासु प्रजस्वमर्त्यस्य सर्वदा जागरितस्य। अथ दावाग्निरूपोऽग्निरुच्यते। अस्याग्नेर्हनू शिप्रे नाना विभृते विभिन्ने सं भरेते। सम्भरतो दन्तैः। तथा कृत्वानन्वती असङ्खादन्तौ स्तोतारं बप्सती भक्षयन्तौ भूरि प्रभूतं काष्थमरण्ये वर्तमानमत्तः। भक्षयतः॥१॥

10.79.2 समानपद
गुहा॒ शिरो॒ निहि᳚त॒मृध᳚ग॒क्षी असि᳚न्वन्नत्ति जि॒ह्वया॒ वना᳚नि ।
अत्रा᳚ण्यस्मै प॒ड्भिः सं भ᳚रन्त्युत्ता॒नह᳚स्ता॒ नम॒साधि᳚ वि॒क्षु ॥
▶ पदपाठः (Word-by-word)
गुहा᳚ । शिरः᳚ । नि॑हि᳚तम् । ऋध᳚क् । अ॒क्षी इति᳚ । असि᳚न्वन् । अ॒त्ति॒ । जि॒ह्वया᳚ । वना᳚नि ।
अत्रा᳚णि । अ॒स्मै॒ । प॒ट्॑भिः । सम् । भ॒र॒न्ति॒ । उ॒त्ता॒न॑ह᳚स्ताः । नम᳚सा । अधि᳚ । वि॒क्षु ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्याग्नेः शिरो मूर्धा गुहायां निहितम् मनुष्योदरेषु वर्तते। अस्याक्षी अक्षिणी ऋधक् पृथग्निहितं निहिते चन्द्रसूर्यात्मना। तावेवाक्ष्णी इत्यर्थः। ईदृशो योऽग्निरसिन्वन्दन्तैरसङ्खादञ्जिह्वया वनान्यत्ति काष्ठानि भक्षयति दाहभूतः अस्मा अग्नयेऽध्वर्य्वादयः पड्भिः पादैरभिगत्यात्राणि सं भरन्ति। सम्पादयन्ति हवींषि। कथं भूता। उत्तानहस्ताः पात्रधारणार्थमुन्नतकरा नमसा नमस्कारेण युक्ताः। कुत्र। अधि विक्षु प्रजास्वृत्विक्षु मध्ये॥२॥

10.79.3
प्र मा॒तुः प्र᳚त॒रं गुह्य᳚मि॒च्छन्कु᳚मा॒रो न वी॒रुधः᳚ सर्पदु॒र्वीः ।
स॒सं न प॒क्वम᳚विदच्छु॒चन्तं᳚ रिरि॒ह्वांसं᳚ रि॒प उ॒पस्थे᳚ अ॒न्तः ॥
▶ पदपाठः (Word-by-word)
प्र । मा॒तुः । प्र॒॑त॒रम् । गुह्य᳚म् । इ॒च्छन् । कु॒मा॒रः । न । वी॒रुधः᳚ । स॒र्प॒त् । उ॒र्वीः ।
स॒मम् । न । प॒क्वम् । अ॒वि॒द॒त् । शु॒चन्त᳚म् । रि॒रि॒ह्वांस᳚म् । रि॒पः । उ॒प॑स्थे᳚ । अ॒न्तरिति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमग्निर्मातुः पृथिव्याः सम्बन्धिनीरुर्वीर्बह्वीर्वीरुधो लता इच्छन् तथा प्रतरं पृकृष्टतरं गुह्यं गोप्यं तासाम् वीरुधाम् मूलमपीच्छन्कामयमानः प्र सर्पत्। प्रसर्पति। प्रसरति। किमिव। कुमारो न कुर्मार इव। स यथा स्तन्यम् पातुं जानुभ्यां सर्पति तद्वत्। ससं न पक्वं पक्वमन्नमिव शुचन्तं दीप्यमानं नीरसं वृक्षं रिपः पृथिव्याः उपस्थेऽन्तरुत्सङ्गेऽन्तरविदत्। विन्दति। पुनः कीदृशम् । रिरिह्वांसमाकाशमास्वादयन्तम् । यद्वा। मूलैर्मातरं पृथिवीं रिरिह्वांसम्॥३॥

10.79.4 समानपद
तद्वा᳚मृ॒तं रो᳚दसी॒ प्र ब्र᳚वीमि॒ जाय᳚मानो मा॒तरा॒ गर्भो᳚ अत्ति ।
नाहं दे॒वस्य॒ मर्त्य᳚श्चिकेता॒ग्निर॒ङ्ग विचे᳚ता॒ः स प्रचे᳚ताः ॥
▶ पदपाठः (Word-by-word)
तत् । वा॒म् । ऋ॒तम् । रो॒द॒सी॒ इति᳚ । प्र । ब्र॒वी॒मि॒ । जाय᳚मानः । मा॒तरा᳚ । गर्भः᳚ । अ॒त्ति॒ ।
न । अ॒हम् । दे॒वस्य᳚ । मर्त्यः᳚ । चि॒के॒त॒ । अ॒ग्निः । अ॒ङ्ग । वि॑चे᳚ताः । सः । प्र॑चे᳚ताः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे रोदसी द्यावापृथिव्यौ वां युवाम् तदृतं सत्यम् प्रब्रवीमि यदरणीभ्यां जायमान उत्पन्नो गर्भो गर्भस्थानीयोऽग्निर्मातरारणी अत्ति भक्षयति। देवस्य द्योतनादिगुणस्याग्नेर्वर्तनं मर्त्यो मनुष्योऽहं न चिकेत। न जानामि। हे अङ्ग वैश्वानर अग्निररणीभ्यामुत्पन्नो विचेता विविधज्ञानवान् स प्रचेताः प्रकृष्टज्ञानः। अतो न जानामीत्यर्थः। अथवाङ्गेत्यात्मानमेव सम्बोध्यब्रवीमि। अग्निरेव विचेता बहुधा जानाति स प्रचेताः स एव जानाति। स्वमहिमानं नाहं स्तोतुं प्रभवामीत्यर्थः॥४॥

10.79.5
यो अ᳚स्मा॒ अन्नं᳚ तृ॒ष्वा॒३॒᳚दधा॒त्याज्यै᳚र्घृ॒तैर्जु॒होति॒ पुष्य᳚ति ।
तस्मै᳚ स॒हस्र᳚म॒क्षभि॒र्वि च॒क्षे॑ग्ने᳚ वि॒श्वतः᳚ प्र॒त्यङ्ङ᳚सि॒ त्वम् ॥
▶ पदपाठः (Word-by-word)
यः । अ॒स्मै॒ । अन्न᳚म् । तृ॒षु । आ॒॑दधा᳚ति । आज्यैः᳚ । घृ॒तैः । जु॒होति᳚ । पुष्य᳚ति ।
तस्मै᳚ । स॒हस्र᳚म् । अ॒क्ष॑भिः᳚ । वि । च॒क्षे॒ । अग्ने᳚ । वि॒श्वतः᳚ । प्र॒त्यङ् । अ॒सि॒ । त्वम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यो यजमानोऽस्मा अग्नये तृषु क्षिप्रमन्नमादधाति करोत्याज्यैर्घृतैः क्षरद्रूपैर्दीप्तैर्वा सोमरसैर्जुहोति पुष्यति पुष्णाति चैनं काष्ठैः तस्मै। तमित्यर्थः। तं सहस्रं सहस्रसङ्ख्याकैरक्षभिरक्षिस्थानीयाभिरपरिमिताभिर्ज्वालाभिर्विचक्षे। विचष्टे। विपश्यति। अथ प्रत्यक्षकृतः। हे अग्ने त्वं विश्वतः सर्वतः प्रत्यङ्गसि। प्रत्यगञ्चनो भवसि। अस्मदानुकूल्येन प्रवर्तमानो भवसि॥५॥

10.79.6 समानपद
किं दे॒वेषु॒ त्यज॒ एन᳚श्चक॒र्थाग्ने᳚ पृ॒च्छामि॒ नु त्वामवि᳚द्वान् ।
अक्री᳚ळ॒न्क्रीळ॒न्हरि॒रत्त᳚वे॒॑दन्वि प᳚र्व॒शश्च᳚कर्त॒ गामि᳚वा॒सिः ॥
▶ पदपाठः (Word-by-word)
किम् । दे॒वेषु᳚ । त्यजः᳚ । एनः᳚ । च॒क॒र्थ॒ । अग्ने᳚ । पृ॒च्छामि᳚ । नु । त्वाम् । अवि᳚द्वान् ।
अक्री᳚ळन् । क्रीळ᳚न् । हरिः᳚ । अत्त᳚वे । अ॒दन् । वि । प॒र्व॒॑शः । च॒क॒र्त॒ । गाम्॑इ᳚व । अ॒सिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वां नु क्षिप्रं देवेषु किं त्यजः क्रोधमेनः पापं च चकर्थ कृतवानसीत्यविद्वानहम् पृच्छामि। खाण्डवं दहन्तमग्निं पृच्छामि। किञ्चाक्रीळन् क्वचिद्देशेऽविहरन् क्रीळन् क्वचिद्देशे विनोदयल्लीलया दहन्ळर्हरितवर्णः सन्नत्तवेऽत्तव्यमदन्नन्नकाष्ठादिकं पर्वशः सन्धौ सन्धौ वि चकर्थ। विविधं करोषि। गामिवासिः गां यथासि स्वधितिः पर्वशश्छिनत्ति तद्वत्॥६॥

10.79.7
विषू᳚चो॒ अश्वा᳚न्युयुजे वने॒जा ऋजी᳚तिभी रश॒नाभि᳚र्गृभी॒तान् ।
च॒क्ष॒दे मि॒त्रो वसु᳚भि॒ः सुजा᳚त॒ः समा᳚नृधे॒ पर्व᳚भिर्वावृधा॒नः ॥
▶ पदपाठः (Word-by-word)
विषू᳚चः । अश्वा᳚न् । यु॒यु॒जे॒ । व॒ने॒॑जाः । ऋजी᳚ति॑भिः । र॒श॒नाभिः᳚ । गृ॒भी॒तान् ।
च॒क्ष॒दे । मि॒त्रः । वसु᳚॑भिः । सु॑जा᳚तः । सम् । आ॒नृ॒धे॒ । पर्व᳚॑भिः । व॒वृ॒धा॒नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमग्निर्विषूचो विष्वगञ्चनानश्वान्व्याप्तान्महतो वृक्षान्सर्वतो गन्तॄनश्वानेव वा युयुजे युङ्क्ते वनेजा वने प्रवृद्धः सम्पन्नः सन् कीदृशानश्वान्। ऋजीतिभिरृजुगामिनीभी रशनभी रशनास्थानीयाभिर्लताभिर्गृभीतान्परिगृहीतान्वेष्टान्। साक्षादश्वपक्ष ऋजुगतिभिः प्रसिद्धाभी रशनाभिर्गृभीतान्गृहीतन्स्व्वकीयानश्वाञ्शेघ्रदाहाय रथे योजितवानित्यर्थः। ताद्रुशोऽग्निश्चक्षदे चक्षाद शकलीकरोति वसूनि मित्रोऽस्माकं मित्रभूतो वसुभिर्वासकै रश्मिभिः सुजातः सुष्ठु प्रवृद्धः सन्। किञ्च समानृधे सम्यग्वर्धते पर्वभिः काष्ठखण्डैर्वाव्रुधानो वर्धमानः॥७॥