श्रवणम्

10.79.1
अप᳚श्यमस्य मह॒तो म᳚हि॒त्वमम᳚र्त्यस्य॒ मर्त्या᳚सु वि॒क्षु ।
नाना॒ हनू॒ विभृ᳚ते॒ सं भ᳚रेते॒ असि᳚न्वती॒ बप्स᳚ती॒ भूर्य᳚त्तः ॥
▶ पदपाठः (Word-by-word)
अप᳚श्यम् । अ॒स्य॒ । म॒ह॒तः । म॒हि॒॑त्वम् । अम᳚र्त्यस्य । मर्त्या᳚सु । वि॒क्षु ।
नाना᳚ । हनू॒ इति᳚ । विभृ᳚ते॒ इति॒ वि॑भृ᳚ते । सम् । भ॒रे॒ते॒ इति᳚ । असि᳚न्वती॒ इति᳚ । बप्स᳚ती॒ इति᳚ । भूरि᳚ । अ॒त्तः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अपश्यमिति सप्तर्चमेकादह्सम् सूक्तमाग्नेयं त्रैष्टुभम्। सौचीकगुणोऽग्निरृषिर्वैश्वानरगुणो वाथवा सप्तिर्नाम वाजंभरपुत्रः। तथाचानुक्रान्तम्। अपश्यं सप्त सौचीकोऽग्निर्वैश्वानरो वा सप्तिर्वा वाजंभर आग्नेयं त्विति। प्रातरनुवाकाश्विनशस्त्रयोस्त्रैष्टुभे छन्दसीदमादिके द्वे सूक्ते। सूत्रितं च। अपश्यमस्य महत इति सूक्ते। आ. ४-१३॥ इति॥

अस्याग्नेर्महतो मंहनीयस्य महित्त्वं महत्त्वमपश्यम् । पश्यामि। कीदृशस्यास्य। मर्त्यासु विक्षु मनुष्यरूपासु प्रजासु तासाम् हृदयेऽमर्त्यस्यामरनस्वभावस्य वैश्वानररूपेण वर्तमानस्य। यद्वा। मर्त्यासु विक्ष्वृत्विग्यजमानरूपासु प्रजस्वमर्त्यस्य सर्वदा जागरितस्य। अथ दावाग्निरूपोऽग्निरुच्यते। अस्याग्नेर्हनू शिप्रे नाना विभृते विभिन्ने सं भरेते। सम्भरतो दन्तैः। तथा कृत्वानन्वती असङ्खादन्तौ स्तोतारं बप्सती भक्षयन्तौ भूरि प्रभूतं काष्थमरण्ये वर्तमानमत्तः। भक्षयतः॥१॥