दशमं मण्डलम् - सूक्तम् 114

10 ऋचः

ऋषिः: सध्रिर्वैरूपो घर्मो वा तापसः देवता: विश्वेदेवाः छन्दः: त्रिष्टुप्

सूक्तम् 10.114 - सम्पूर्णम्

1 / 10
ऋक्: 10.114.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
10.114.1
घ॒र्मा सम᳚न्ता त्रि॒वृतं॒ व्या᳚पतु॒स्तयो॒र्जुष्टिं᳚ मात॒रिश्वा᳚ जगाम ।
दि॒वस्पयो॒ दिधि᳚षाणा अवेषन्वि॒दुर्दे॒वाः स॒हसा᳚मानम॒र्कम् ॥
▶ पदपाठः (Word-by-word)
घ॒र्मा । सम्॑अ᳚न्ता । त्रि॒॑वृत᳚म् । वि । आ॒प॒तुः॒ । तयोः᳚ । जुष्टि᳚म् । मा॒त॒रिश्वा᳚ । ज॒गा॒म॒ ।
दि॒वः । पयः᳚ । दिधि᳚षाणाः । अ॒वे॒ष॒न् । वि॒दुः । दे॒वाः । स॒ह॑सा᳚मानम् । अ॒र्कम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

घर्मेति दशर्चम् द्वितीयं सूक्तं सध्रिर्नाम वैरूप ऋषिः। तपस पुत्रो घर्मो वा। चतुर्थी जगती। शिष्तास्त्रिष्टुभः। तथा चानुक्रान्तम्। घर्मा सध्रिस्तापसो वा घर्मो वैश्वदेवं चतुर्थी जगतिति। गतो विनियोगः।

समन्ता समन्तौ संव्याप्तदिगन्तौ घर्मा। घृ क्षरनदीप्त्योः। घर्मौ दीप्यमानावग्न्यादित्यौ त्रिवृतम्। त्रयो वा इमे त्रिवृतो नोकाः। ऐ. आ. १-१-२। इत्याम्नानात्। त्रैलोक्यं व्यापतुः। स्वतेजोभिर्व्याप्तवन्तौ। मातरिश्वान्तरिक्षे वर्तमानो वायुस्तयोरग्न्यादित्य योर्जुश्टिं प्रितिं जगाम। गतवान्। यदा सहसामानम्। सामशब्द उपलक्शकः। वेदत्रतेजः सहितम्। सर्वं तेजः सामरूपं ह शश्वदित्याम्नानात्। ईदृशमर्कमर्चनीयं सुर्यं देवा दीप्यमानाः स्वरश्मयो विदुः विविदुः लेभिरे प्रापुः तदा दिधिषाणा लोकधारणशीलास्ते दिवो द्युलोकस्य सम्बन्धि पय उदकमवेषन्। व्याप्तवन्तः। ववर्षुरित्यर्थः। दिवस्पय इत्यत्र षष्ठ्याः पतिपुत्रेति सत्वम्। दिधिषानाः। धिश धारने। चानश्। शपः श्लुः। यद्वा। धिधारने। सनन्तस्य चानश्। अज्झनगमां सनीति दीर्घाभावश्छान्दसः। यद्वा। समन्तौ सङ्गतौ घर्मौ स्वयं दीप्यमानौ जीवेश्वरौ त्रिवृतं सत्त्वरजस्तमोगुणात्मिकां मायां व्यापतुः। नियंतृनियन्तव्यभावेन मातरिश्वा परमात्मा तयोर्जुष्टिं सम्भोक्तव्यपदार्थैः सञ्जातां प्रीतिं जगाम। गतवान्। तं परमात्मानं वेद मयमिमं सूर्यमिति देवा जानन्ति॥१॥

10.114.2
ति॒स्रो दे॒ष्ट्राय॒ निरृ᳚ती॒रुपा᳚सते दीर्घ॒श्रुतो॒ वि हि जा॒नन्ति॒ वह्न᳚यः ।
तासां॒ नि चि᳚क्युः क॒वयो᳚ नि॒दानं॒ परे᳚षु॒ या गुह्ये᳚षु व्र॒तेषु᳚ ॥
▶ पदपाठः (Word-by-word)
ति॒स्रः । दे॒ष्ट्राय᳚ । निः॑ऋ᳚तीः । उप᳚ । आ॒स॒ते॒ । दी॒र्घ॒॑श्रुतः᳚ । वि । हि । जा॒नन्ति᳚ । वह्न᳚यः ।
तासा᳚म् । नि । चि॒क्युः॒ । क॒वयः᳚ । नि॒॑दान᳚म् । परे᳚षु । याः । गुह्ये᳚षु । व्र॒तेषु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

निरृतीः। पृथिवीनामैतत्। अनेनेतरलोकावुपलक्ष्येते। तत्राधिष्थितास्तिस्रोऽग्न्यादिदेवता देष्ट्राय हविषां प्रदानायोपासते। यजमाना उपाननं कुर्वते। ततो दीर्घश्रुतः प्रभुतकीर्तयो वह्नयो जगतः प्रापिकास्ता देवता वि जानन्ति। एतैः कृतामुपासनां मन्वत एव। यद्वा। निरृतिः। निःशेषेणर्च्छन्ति गच्छन्तिति निरृतयः। तास्तिस्रः सृष्टिस्थितिसंहृतीर्देष्ट्रायात्मनः कर्मभोगदानायोपासते ते दीर्घश्रुतो दीर्घं संसारे शृण्वन्तो मन्तव्यदृश्यादिपदार्थं जानन्तः। मन्त्रदृष्ट्यादिरूपमजानन्त इत्यर्थः। अत एव वह्नयः संसारस्य वोढारस्ता न जानन्ति। कवयः क्रान्तदर्शिनस्तु तासां सृष्ट्यादीनामग्न्यादीनां वा निदानं मूलकारणं परमात्मानं नि चिक्युः। नितरां चिन्वन्ति जानन्ति। परेषूत्कृतष्टेषु वा गुह्येषु वा गोप्तव्येशु कर्मसु यमनियमादिषु व्रतेषु याः प्रवृत्तयः सन्ति तासां निदानं नि चिक्युः। जानन्ति। चिञ् चयने। लिटि विभाषाञ्चेरित्यभ्यासादुत्तरस्य कवर्णादेशः। यद्वा। चायतेर्लिटि चायः की। पा. ६-१-३५। इति च्छन्दसि कीत्यादेशः॥२॥

10.114.3
चतु᳚ष्कपर्दा युव॒तिः सु॒पेशा᳚ घृ॒तप्र᳚तीका व॒युना᳚नि वस्ते ।
तस्यां᳚ सुप॒र्णा वृष᳚णा॒ नि षे᳚दतु॒र्यत्र᳚ दे॒वा द᳚धि॒रे भा᳚ग॒धेय᳚म् ॥
▶ पदपाठः (Word-by-word)
चतुः᳚॑कपर्दा । यु॒व॒तिः । सु॒॑पेशाः᳚ । घृ॒त॑प्र᳚तीका । व॒युना᳚नि । व॒स्ते॒ ।
तस्या᳚म् । सु॒॑प॒र्णा । वृष᳚णा । नि । से॒द॒तुः॒ । यत्र᳚ । दे॒वाः । द॒धि॒रे । भा॒ग॒॑धेय᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

चतुष्कपर्दा चतुष्कोणा युवतिः स्त्रीरूपा सुपेशाः शोभनालङ्कारा घृतप्रतिका घृतप्रमुखहविष्कैतादृशी वेदिर्वयुनानि ज्ञातव्यानि पदार्थजातानि कर्माणि स्तोत्राणि वा वस्ते। अच्छादयति। तस्यां वेद्यां वृषणा वृषणौ हविषां वर्षितारौ सुपर्णा सुपर्णौ सुपतनौ जायापती यजमानब्रह्माणौ वा निषेदतुः। निषण्णौ भवतः। यत्र यस्यां वेद्यां देवा अग्न्यादयो भागधेयम् । स्वार्थिको धेयप्रत्ययः। स्वस्वभागं हविर्दधिरे। धारयन्ति। यद्वा। चतुष्कपर्दा नामाख्यातोपसर्गनिपाताश्चत्वारः कपर्दस्थानीया यस्याः सा युवतिस्तरुणी नित्या घृतप्रतीकादीप्यमानवर्णावयवैषौपनिशदी वाग्वयुनानि ज्ञानानि वस्ते। आच्छादयति। तस्यां वाचि सुपर्णा सुपर्णौ जीवपरमात्मनौ निशण्णौ भवतः। यत्र । इतराभ्योऽपि द्रुश्यन्त इति तृतीयार्थे त्रल्प्रत्ययः। यया वाचा देवा भागं धारयन्ति॥३॥

10.114.4 समानपद
एकः᳚ सुप॒र्णः स स᳚मु॒द्रमा वि᳚वेश॒ स इ॒दं विश्वं॒ भुव᳚नं॒ वि च᳚ष्टे ।
तं पाके᳚न॒ मन᳚सापश्य॒मन्ति᳚त॒स्तं मा॒ता रे᳚ळ्हि॒ स उ᳚ रेळ्हि मा॒तर᳚म् ॥
▶ पदपाठः (Word-by-word)
एकः᳚ । सु॒॑प॒र्णः । सः । स॒मु॒द्रम् । आ । वि॒वे॒श॒ । सः । इ॒दम् । विश्व᳚म् । भुव᳚नम् । वि । च॒ष्टे॒ ।
तम् । पाके᳚न । मन᳚सा । अ॒प॒श्य॒म् । अन्ति᳚तः । तम् । मा॒ता । रे॒ळ्हि॒ । सः । ऊं॒ इति᳚ । रे॒ळ्हि॒ । मा॒तर᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एकः सर्वकार्येष्वसहायः सुपर्णः सुपतनो मध्यमस्थानो देवः समुद्रमन्तरिक्षमा विवेश। आविशति। आविश्य च स इदं विश्वं सर्वं भुवनं भूजातं विचष्टे। अनुग्राह्यतयभिपश्यति। तमेवं रूपं देवं पाकेन परिपक्वेन मनसान्तितः समीपेऽहमपश्यम् । आदर्शम् । किञ्च मातोदकानां निर्मात्री माध्यमिका वाक् तां रेळ्हि। आस्वादयति। उपजीवनमात्रमत्र लक्ष्यते। स उ स खलु मातरं वाचं रेळ्हि लेढि। तामेवोपजीवति। लिह आस्वादने। यद्वा। सुपर्णः पक्शवान्निराधारसञ्चार्येकः प्राणवायुः परमात्मा वा समुद्रम् । समुद्द्रवन्त्यापोऽस्मादिति समुद्रमन्तरिक्षम्। यद्वा। समुद्द्रवं सर्वतो गमनम्। तच्छीलं प्रपञ्चजातमाविष्टवान्। सृष्ट्वा तदेवानुप्राविशत्। तै. आ. ८-६। इति श्रुतेः। वायुपक्शे वाय्वादिरूपेणाविवेश। स इदं विश्वं सर्वं लोकं वि चष्टे। विशेषेण ख्यापयति। सति हि प्राणे परमात्मनि वा जीवन्तः पुरुषा लोकं विख्यातं कुर्वन्ति। तं देवमुपासकोऽहं पाकेन परिपक्वज्ञानेन मनसान्तितः। अन्तिकशब्दात्तसिः। अन्तिकस्य तसि कादिलोपो भवत्याद्युदात्तत्वं च। पा. ६-४-१४९-८। इति कादिलोपः। अन्तिके समीपे स्वहृदयेऽपश्यम् । तं प्रानं माता वाग्रेळ्हि। वाक् प्राणेऽन्तर्भवतीत्यर्थः। स्वापे हि वाग्व्यापारो न दृश्यते प्रानव्यापारस्तु दृश्यत इति॥४॥

10.114.5 समानपद
सु॒प॒र्णं विप्रा᳚ः क॒वयो॒ वचो᳚भि॒रेकं॒ सन्तं᳚ बहु॒धा क᳚ल्पयन्ति ।
छन्दां᳚सि च॒ दध᳚तो अध्व॒रेषु॒ ग्रहा॒न्त्सोम᳚स्य मिमते॒ द्वाद᳚श ॥
▶ पदपाठः (Word-by-word)
सु॒॑प॒र्णम् । विप्रा᳚ । क॒वयः᳚ । वचः᳚॑भिः । एक᳚म् । सन्त᳚म् । ब॒हु॒धा । क॒ल्प॒य॒न्ति॒ ।
छन्दां᳚सि । च॒ । दध᳚तः । अ॒ध्व॒रेषु᳚ । ग्रहा᳚न् । सोम᳚स्य । मि॒म॒ते॒ । द्वाद᳚श ॥
▶ सायणभाष्यम् (Sayana Commentary)

विप्रा मेधाविनः कवयः क्रान्तप्रज्ञा मनुष्याः सुपर्णम् सुपतनमेकं सन्तं परमात्मानं वचोभिः स्तुतिलक्षणैर्वचनैर्बहुधा बहुप्रकरं कल्पयन्ति। कुर्वन्ति। किञ्च त एव कवयोऽध्वतेषु यज्ञेषु च्छन्दांसि गायत्र्यादीनि सप्त च्छन्दांसि दधतः स्तोत्रशस्त्रादिना धरयन्तो द्वादशसङ्ख्याकान्सोमस्य ग्रहान् ग्रहणसाधनानि पात्राण्युपांश्वन्तर्यामादीनि मिमते। निर्मिमते। ग्रहान्। गृह्यत एभिरिति ग्रहाः। ग्रहवृदृनिश्चिगमश्चेति करनेऽप्प्रत्ययः। सोमस्येति कर्मणि षष्ठी। द्वादशेत्यत्यसङ्ख्या। पा. ६-३५। इति पूर्वपदप्रकृतिस्वरत्वम्॥५॥

10.114.6 समानपद
ष॒ट्त्रिं॒शा{4}श्च᳚ च॒तुरः᳚ क॒ल्पय᳚न्त॒श्छन्दां᳚सि च॒ दध᳚त आद्वाद॒शम् ।
य॒ज्ञं वि॒माय᳚ क॒वयो᳚ मनी॒ष ऋ᳚क्सा॒माभ्यां॒ प्र रथं᳚ वर्तयन्ति ॥
▶ पदपाठः (Word-by-word)
ष॒ट्॑त्रिं॒शान् । च॒ । च॒तुरः᳚ । क॒ल्पय᳚न्तः । छन्दां᳚सि । च॒ । दध᳚तः । आ॒॑द्वा॒द॒शम् ।
य॒ज्ञम् । वि॒॑माय᳚ । क॒वयः᳚ । म॒नी॒षा । ऋ॒क्॑सा॒माभ्या᳚म् । प्र । रथ᳚म् । व॒र्त॒य॒न्ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वं सामान्येन यज्ञग्रहानुक्त्वेदानीं सर्वग्रहादिपूर्वको यज्ञोऽभिधीयते। षट् त्रिंशान्। द्वावुपांश्वन्तर्यामौ। ऐन्द्रवायवादयस्त्रयोद्विदेवत्यग्रहाः। द्वौ शुक्रामन्थिनौ। आग्रयण उक्थ्यो ध्रुवश्चेति त्रयः। ऋतुग्रहाद्वादश। ऐन्द्राग्नौ वैश्वदेवश्च द्वौ। त्रयो मरुत्वतीयाः। एको माहेन्द्रः। आदित्यसावित्रौ द्वौ। वैश्वदेवः पात्नीवतो हारियोजन इति त्रयो ग्रहाः। एवं षट् त्रिंशद्भवन्ति। अत्यग्निष्टोमे पूर्वे षट् त्रिंशद्ग्रहा द्वावंश्वदाभ्यौ दधिग्रहः षोडशीति चेति चत्वारः। एतांश्चत्वारिंशत्सङ्ख्याकान्ग्रहान्कलयन्तः सोमेन पूरयन्तः। किञ्चाद्वादशम् । आङ्मर्यादाभिविध्योः। पा. २-१-१३। इत्यव्ययीभावसमासः। तस्य स्वरः। द्वादशसङ्ख्याकप्रौगादिशस्त्रसमाप्तिपर्यन्तं छन्दांसि गायत्र्यादीनि दधतः सन्तः शस्त्रादिरूपेण धारयन्तः कवयो मनीषा। तृतीयाया आकारः। मनीषया बुद्ध्यैवं यज्ञं विमाय निर्माय रथम् । रमन्त्यत्रेति रथो यज्ञः । तं रथं यज्ञमृक्सामाभ्यां प्र वर्तयन्ति। प्रकर्षेन सम्पादयन्ति । चतुर इत्यत्र चतुरः शसीत्यन्तोदात्तत्वम्॥६॥

10.114.7 समानपद
चतु᳚र्दशा॒न्ये म᳚हि॒मानो᳚ अस्य॒ तं धीरा᳚ वा॒चा प्र ण᳚यन्ति स॒प्त ।
आप्ना᳚नं ती॒र्थं क इ॒ह प्र वो᳚च॒द्येन᳚ प॒था प्र॒पिब᳚न्ते सु॒तस्य᳚ ॥
▶ पदपाठः (Word-by-word)
चतुः᳚॑दश । अ॒न्ये । म॒हि॒मानः᳚ । अ॒स्य॒ । तम् । धीराः᳚ । वा॒चा । प्र । न॒य॒न्ति॒ । स॒प्त ।
आप्ना᳚नम् । ती॒र्थम् । कः । इ॒ह । प्र । वो॒च॒त् । येन᳚ । प॒था । प्र॒॑पिब᳚न्ते । सु॒तस्य᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्य यज्ञरूपस्य परमात्मनोऽन्ये चतुर्दश चतुर्दशसङ्ख्याका महिमानो विभूतयो भवन्ति। तं यज्ञम् सप्त सप्तसङ्ख्याका धीरा धीमन्तो होत्रादयो वाचा शस्त्ररूपया प्रणयन्ति। प्रकर्षेण नयन्ति। आप्नानम् । अप्लृ व्याप्तौ। ताच्छीलिके चानशि व्यत्ययेन विकरणस्य व्यत्ययः। व्यापनशीलं तीर्थं पापोत्ताय समर्थं चात्वोलोत्करमध्यदेशमिहास्मिन्यज्ञे कः प्रवोचत्। को वक्ति। न कोऽपीत्यर्थः। येन पथा येन यज्ञमार्गेण सुतस्याभिषुतं सोमं प्रपिबन्ते देवा अतिशयेन पिबन्ति। पा पाने। पाघ्रेत्यादिना पिबादेशः। व्यत्ययेनात्मनेपदम्। उपसर्गेण समासः। यद्योगादनिघाते तिङि चोदात्तवतिति गतेर्निघातः॥७॥

10.114.8 समानपद
स॒ह॒स्र॒धा प᳚ञ्चद॒शान्यु॒क्था याव॒द्द्यावा᳚पृथि॒वी ताव॒दित्तत् ।
स॒ह॒स्र॒धा म᳚हि॒मानः᳚ स॒हस्रं॒ याव॒द्ब्रह्म॒ विष्ठि᳚तं॒ ताव᳚ती॒ वाक् ॥
▶ पदपाठः (Word-by-word)
स॒ह॒स्र॒धा । प॒ञ्च॒॑द॒शानि᳚ । उ॒क्था । याव᳚त् । द्यावा᳚पृथि॒वी इति᳚ । ताव᳚त् । इत् । तत् ।
स॒ह॒स्र॒धा । म॒हि॒मानः᳚ । स॒हस्र᳚म् । याव᳚त् । ब्रह्म᳚ । वि॑स्थि᳚तम् । ताव᳚ती । वाक् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सहस्रधा सहस्रसङ्ख्याकेषु ब्रह्मादिस्तम्बपर्यन्तेषु देहेषु पञ्चदशानि चक्षुः श्रोत्रं मनो वाक् प्राण इत्येतानि पञ्च। तदाधारत्वेन मातापित्रोः सकाशादागतानि पृथिव्यप्तेजोवाय्वाकाशरूपाणि भूतानि मिलितानि दश। एवं पञ्चदशसङ्ख्याकान्युक्थान्युत्कृष्टान्यङ्गानि विद्यन्ते प्राणिदेहेषु जातेषु। द्यावापृथिवी। षष्ठीद्विवचनस्य सुपां सुलुगिति पूर्वसवर्नदीर्घः। द्यावापृथिव्योर्यावद्यत्परिमाणमस्ति तावदित्तत्परिमाणमेवात्माधिष्ठितं प्राणिदेहजातं भवति। यावत्तावच्छब्दयोर्यत्तदेतेभ्यः परिमाणे वतुपि। पा. ५-२-३९। आ सर्वनाम्नः। पा. ६-३-९१। इति दीर्घः। किञ्च सहस्रधा सहस्रसङ्ख्याकेषु सदस्रं महिमानः सहस्रसङ्ख्याका महान्तो व्यवहारविशेषा भवन्ति। प्रतिविषयं प्रतिलक्षनं दर्शनश्रवणादिव्यवहारनिष्पत्तेः। सहस्रधेत्यत्र विधार्थे धाप्रत्ययः। ब्रह्म जगत्कारनं वस्तु यावन्नानाविधाप्राणिदेहरूपेण यावत्परिमाणं भुत्वा विष्ठितं विशेषेण स्थितं वाक् तावती तत्परिमाणा भवति। एकैकस्याभिधेयार्थस्यैकैकनामापेक्षनात्। अन्यत्रापि श्रूयते। सर्वाणि रूपणि विचिन्त्य धीरो नामानि कृत्वाभिवदन्यदास्त इति। सहस्रधा पञ्चदशान्युक्थेति पञ्च हि दशतो भवन्तीत्यादिकमारण्यकमत्रानुसन्धेयम्। ऐ. आ. १-३-८॥८॥

10.114.9 समानपद
कश्छन्द᳚सां॒ योग॒मा वे᳚द॒ धीर॒ः को धिष्ण्यां॒ प्रति॒ वाचं᳚ पपाद ।
कमृ॒त्विजा᳚मष्ट॒मं शूर᳚माहु॒र्हरी॒ इन्द्र᳚स्य॒ नि चि᳚काय॒ कः स्वि᳚त् ॥
▶ पदपाठः (Word-by-word)
कः । छन्द᳚साम् । योग᳚म् । आ । वे॒द॒ । धीरः᳚ । कः । धिष्ण्या᳚म् । प्रति᳚ । वाच᳚म् । प॒पा॒द॒ ।
कम् । ऋ॒त्विजा᳚म् । अ॒ष्ट॒मम् । शूर᳚म् । आ॒हुः॒ । हरी॒ इति᳚ । इन्द्र᳚स्य । नि । चि॒का॒य॒ । कः । स्वि॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

धीरो धीमान् को मानुषश्छन्दसां गायत्र्यादीनां योगं स्तुतशस्त्रात्मना नियोगमा वेद। आजानाति। को वा धिष्ण्याम् । धिष्ण्यानि होत्रादीनां सप्तस्थानानि। तदर्हां वाचं प्रति पपद। प्रतिपादयति। करोति। किञ्चर्त्विजां होत्रादीनां सप्तानामष्टममष्टसङ्ख्यापूरकं शूरं स्वतन्त्रं कमाहुः। वदन्ति। कहः स्वित् कः खल्विन्द्रस्य हरी ऋक्सामरूपौ द्वावश्वौ। ऋक्सामे वा इन्द्रस्य हरी इत्याम्नायते। तादृशौ हरी नि चिकाय। नितरां पूजयति। जानाति। वेदिता प्रतिपादयैतष्टसङ्ख्यापूरकस्य देवस्य ज्ञाता वा परमात्मनोऽन्यो नास्तीत्यर्त्यः॥९॥

10.114.10
भूम्या॒ अन्तं॒ पर्येके᳚ चरन्ति॒ रथ᳚स्य धू॒र्षु यु॒क्तासो᳚ अस्थुः ।
श्रम᳚स्य दा॒यं वि भ᳚जन्त्येभ्यो य॒दा य॒मो भव᳚ति ह॒र्म्ये हि॒तः ॥
▶ पदपाठः (Word-by-word)
भूम्याः᳚ । अन्त᳚म् । परि᳚ । एके᳚ । च॒र॒न्ति॒ । रथ᳚स्य । धूः॒॑सु । यु॒क्तासः᳚ । अ॒स्थुः॒ ।
श्रम᳚स्य । दा॒यम् । वि । भ॒ज॒न्ति॒ । ए॒भ्यः॒ । य॒दा । य॒मः । भव᳚ति । ह॒र्म्ये । हि॒तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

एके केचनाश्वा भूम्याः पृथिव्याः। अनेन द्युलोकोऽप्युपलक्श्यते। द्युलोकस्य चान्तं पर्यन्तं परि चरन्ति। तदानीं सर्वत आगच्छन्ति। तदा च तेऽश्वा रथस्य धूर्षु युगादिभारेषु युक्तासो युक्ताः सन्तोऽस्थुः। तिष्ठन्ति। एभ्योऽश्वेभ्यः श्रमस्य दायम् । दो अवखण्डने। घञ्। कर्षात्वत इत्यन्तोदात्तत्वम्। शरमस्य नाशकं घासादिकं वि भजन्ति। देवाः प्रयच्छन्ति। यदा यस्मिन्काले यमो नियतां सूर्यो हर्म्ये हर्म्यस्थानीये रथे हितो निहितो भवति। तदैते भजन्तीत्यर्थः॥१०॥