श्रवणम्

10.114.9 समानपद
कश्छन्द᳚सां॒ योग॒मा वे᳚द॒ धीर॒ः को धिष्ण्यां॒ प्रति॒ वाचं᳚ पपाद ।
कमृ॒त्विजा᳚मष्ट॒मं शूर᳚माहु॒र्हरी॒ इन्द्र᳚स्य॒ नि चि᳚काय॒ कः स्वि᳚त् ॥
▶ पदपाठः (Word-by-word)
कः । छन्द᳚साम् । योग᳚म् । आ । वे॒द॒ । धीरः᳚ । कः । धिष्ण्या᳚म् । प्रति᳚ । वाच᳚म् । प॒पा॒द॒ ।
कम् । ऋ॒त्विजा᳚म् । अ॒ष्ट॒मम् । शूर᳚म् । आ॒हुः॒ । हरी॒ इति᳚ । इन्द्र᳚स्य । नि । चि॒का॒य॒ । कः । स्वि॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

धीरो धीमान् को मानुषश्छन्दसां गायत्र्यादीनां योगं स्तुतशस्त्रात्मना नियोगमा वेद। आजानाति। को वा धिष्ण्याम् । धिष्ण्यानि होत्रादीनां सप्तस्थानानि। तदर्हां वाचं प्रति पपद। प्रतिपादयति। करोति। किञ्चर्त्विजां होत्रादीनां सप्तानामष्टममष्टसङ्ख्यापूरकं शूरं स्वतन्त्रं कमाहुः। वदन्ति। कहः स्वित् कः खल्विन्द्रस्य हरी ऋक्सामरूपौ द्वावश्वौ। ऋक्सामे वा इन्द्रस्य हरी इत्याम्नायते। तादृशौ हरी नि चिकाय। नितरां पूजयति। जानाति। वेदिता प्रतिपादयैतष्टसङ्ख्यापूरकस्य देवस्य ज्ञाता वा परमात्मनोऽन्यो नास्तीत्यर्त्यः॥९॥