श्रवणम्

10.114.5 समानपद
सु॒प॒र्णं विप्रा᳚ः क॒वयो॒ वचो᳚भि॒रेकं॒ सन्तं᳚ बहु॒धा क᳚ल्पयन्ति ।
छन्दां᳚सि च॒ दध᳚तो अध्व॒रेषु॒ ग्रहा॒न्त्सोम᳚स्य मिमते॒ द्वाद᳚श ॥
▶ पदपाठः (Word-by-word)
सु॒॑प॒र्णम् । विप्रा᳚ । क॒वयः᳚ । वचः᳚॑भिः । एक᳚म् । सन्त᳚म् । ब॒हु॒धा । क॒ल्प॒य॒न्ति॒ ।
छन्दां᳚सि । च॒ । दध᳚तः । अ॒ध्व॒रेषु᳚ । ग्रहा᳚न् । सोम᳚स्य । मि॒म॒ते॒ । द्वाद᳚श ॥
▶ सायणभाष्यम् (Sayana Commentary)

विप्रा मेधाविनः कवयः क्रान्तप्रज्ञा मनुष्याः सुपर्णम् सुपतनमेकं सन्तं परमात्मानं वचोभिः स्तुतिलक्षणैर्वचनैर्बहुधा बहुप्रकरं कल्पयन्ति। कुर्वन्ति। किञ्च त एव कवयोऽध्वतेषु यज्ञेषु च्छन्दांसि गायत्र्यादीनि सप्त च्छन्दांसि दधतः स्तोत्रशस्त्रादिना धरयन्तो द्वादशसङ्ख्याकान्सोमस्य ग्रहान् ग्रहणसाधनानि पात्राण्युपांश्वन्तर्यामादीनि मिमते। निर्मिमते। ग्रहान्। गृह्यत एभिरिति ग्रहाः। ग्रहवृदृनिश्चिगमश्चेति करनेऽप्प्रत्ययः। सोमस्येति कर्मणि षष्ठी। द्वादशेत्यत्यसङ्ख्या। पा. ६-३५। इति पूर्वपदप्रकृतिस्वरत्वम्॥५॥