श्रवणम्

10.114.7 समानपद
चतु᳚र्दशा॒न्ये म᳚हि॒मानो᳚ अस्य॒ तं धीरा᳚ वा॒चा प्र ण᳚यन्ति स॒प्त ।
आप्ना᳚नं ती॒र्थं क इ॒ह प्र वो᳚च॒द्येन᳚ प॒था प्र॒पिब᳚न्ते सु॒तस्य᳚ ॥
▶ पदपाठः (Word-by-word)
चतुः᳚॑दश । अ॒न्ये । म॒हि॒मानः᳚ । अ॒स्य॒ । तम् । धीराः᳚ । वा॒चा । प्र । न॒य॒न्ति॒ । स॒प्त ।
आप्ना᳚नम् । ती॒र्थम् । कः । इ॒ह । प्र । वो॒च॒त् । येन᳚ । प॒था । प्र॒॑पिब᳚न्ते । सु॒तस्य᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्य यज्ञरूपस्य परमात्मनोऽन्ये चतुर्दश चतुर्दशसङ्ख्याका महिमानो विभूतयो भवन्ति। तं यज्ञम् सप्त सप्तसङ्ख्याका धीरा धीमन्तो होत्रादयो वाचा शस्त्ररूपया प्रणयन्ति। प्रकर्षेण नयन्ति। आप्नानम् । अप्लृ व्याप्तौ। ताच्छीलिके चानशि व्यत्ययेन विकरणस्य व्यत्ययः। व्यापनशीलं तीर्थं पापोत्ताय समर्थं चात्वोलोत्करमध्यदेशमिहास्मिन्यज्ञे कः प्रवोचत्। को वक्ति। न कोऽपीत्यर्थः। येन पथा येन यज्ञमार्गेण सुतस्याभिषुतं सोमं प्रपिबन्ते देवा अतिशयेन पिबन्ति। पा पाने। पाघ्रेत्यादिना पिबादेशः। व्यत्ययेनात्मनेपदम्। उपसर्गेण समासः। यद्योगादनिघाते तिङि चोदात्तवतिति गतेर्निघातः॥७॥