तासां॒ नि चि᳚क्युः क॒वयो᳚ नि॒दानं॒ परे᳚षु॒ या गुह्ये᳚षु व्र॒तेषु᳚ ॥
पदपाठः (Word-by-word)
तासा᳚म् । नि । चि॒क्युः॒ । क॒वयः᳚ । नि॒॑दान᳚म् । परे᳚षु । याः । गुह्ये᳚षु । व्र॒तेषु᳚ ॥
सायणभाष्यम् (Sayana Commentary)
निरृतीः। पृथिवीनामैतत्। अनेनेतरलोकावुपलक्ष्येते। तत्राधिष्थितास्तिस्रोऽग्न्यादिदेवता देष्ट्राय हविषां प्रदानायोपासते। यजमाना उपाननं कुर्वते। ततो दीर्घश्रुतः प्रभुतकीर्तयो वह्नयो जगतः प्रापिकास्ता देवता वि जानन्ति। एतैः कृतामुपासनां मन्वत एव। यद्वा। निरृतिः। निःशेषेणर्च्छन्ति गच्छन्तिति निरृतयः। तास्तिस्रः सृष्टिस्थितिसंहृतीर्देष्ट्रायात्मनः कर्मभोगदानायोपासते ते दीर्घश्रुतो दीर्घं संसारे शृण्वन्तो मन्तव्यदृश्यादिपदार्थं जानन्तः। मन्त्रदृष्ट्यादिरूपमजानन्त इत्यर्थः। अत एव वह्नयः संसारस्य वोढारस्ता न जानन्ति। कवयः क्रान्तदर्शिनस्तु तासां सृष्ट्यादीनामग्न्यादीनां वा निदानं मूलकारणं परमात्मानं नि चिक्युः। नितरां चिन्वन्ति जानन्ति। परेषूत्कृतष्टेषु वा गुह्येषु वा गोप्तव्येशु कर्मसु यमनियमादिषु व्रतेषु याः प्रवृत्तयः सन्ति तासां निदानं नि चिक्युः। जानन्ति। चिञ् चयने। लिटि विभाषाञ्चेरित्यभ्यासादुत्तरस्य कवर्णादेशः। यद्वा। चायतेर्लिटि चायः की। पा. ६-१-३५। इति च्छन्दसि कीत्यादेशः॥२॥