चतु᳚ष्कपर्दा युव॒तिः सु॒पेशा᳚ घृ॒तप्र᳚तीका व॒युना᳚नि वस्ते ।
तस्यां᳚ सुप॒र्णा वृष᳚णा॒ नि षे᳚दतु॒र्यत्र᳚ दे॒वा द᳚धि॒रे भा᳚ग॒धेय᳚म् ॥
तस्यां᳚ सुप॒र्णा वृष᳚णा॒ नि षे᳚दतु॒र्यत्र᳚ दे॒वा द᳚धि॒रे भा᳚ग॒धेय᳚म् ॥
पदपाठः (Word-by-word)
चतुः᳚॑कपर्दा । यु॒व॒तिः । सु॒॑पेशाः᳚ । घृ॒त॑प्र᳚तीका । व॒युना᳚नि । व॒स्ते॒ ।
तस्या᳚म् । सु॒॑प॒र्णा । वृष᳚णा । नि । से॒द॒तुः॒ । यत्र᳚ । दे॒वाः । द॒धि॒रे । भा॒ग॒॑धेय᳚म् ॥
तस्या᳚म् । सु॒॑प॒र्णा । वृष᳚णा । नि । से॒द॒तुः॒ । यत्र᳚ । दे॒वाः । द॒धि॒रे । भा॒ग॒॑धेय᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
चतुष्कपर्दा चतुष्कोणा युवतिः स्त्रीरूपा सुपेशाः शोभनालङ्कारा घृतप्रतिका घृतप्रमुखहविष्कैतादृशी वेदिर्वयुनानि ज्ञातव्यानि पदार्थजातानि कर्माणि स्तोत्राणि वा वस्ते। अच्छादयति। तस्यां वेद्यां वृषणा वृषणौ हविषां वर्षितारौ सुपर्णा सुपर्णौ सुपतनौ जायापती यजमानब्रह्माणौ वा निषेदतुः। निषण्णौ भवतः। यत्र यस्यां वेद्यां देवा अग्न्यादयो भागधेयम् । स्वार्थिको धेयप्रत्ययः। स्वस्वभागं हविर्दधिरे। धारयन्ति। यद्वा। चतुष्कपर्दा नामाख्यातोपसर्गनिपाताश्चत्वारः कपर्दस्थानीया यस्याः सा युवतिस्तरुणी नित्या घृतप्रतीकादीप्यमानवर्णावयवैषौपनिशदी वाग्वयुनानि ज्ञानानि वस्ते। आच्छादयति। तस्यां वाचि सुपर्णा सुपर्णौ जीवपरमात्मनौ निशण्णौ भवतः। यत्र । इतराभ्योऽपि द्रुश्यन्त इति तृतीयार्थे त्रल्प्रत्ययः। यया वाचा देवा भागं धारयन्ति॥३॥