तं पाके᳚न॒ मन᳚सापश्य॒मन्ति᳚त॒स्तं मा॒ता रे᳚ळ्हि॒ स उ᳚ रेळ्हि मा॒तर᳚म् ॥
पदपाठः (Word-by-word)
तम् । पाके᳚न । मन᳚सा । अ॒प॒श्य॒म् । अन्ति᳚तः । तम् । मा॒ता । रे॒ळ्हि॒ । सः । ऊं॒ इति᳚ । रे॒ळ्हि॒ । मा॒तर᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
एकः सर्वकार्येष्वसहायः सुपर्णः सुपतनो मध्यमस्थानो देवः समुद्रमन्तरिक्षमा विवेश। आविशति। आविश्य च स इदं विश्वं सर्वं भुवनं भूजातं विचष्टे। अनुग्राह्यतयभिपश्यति। तमेवं रूपं देवं पाकेन परिपक्वेन मनसान्तितः समीपेऽहमपश्यम् । आदर्शम् । किञ्च मातोदकानां निर्मात्री माध्यमिका वाक् तां रेळ्हि। आस्वादयति। उपजीवनमात्रमत्र लक्ष्यते। स उ स खलु मातरं वाचं रेळ्हि लेढि। तामेवोपजीवति। लिह आस्वादने। यद्वा। सुपर्णः पक्शवान्निराधारसञ्चार्येकः प्राणवायुः परमात्मा वा समुद्रम् । समुद्द्रवन्त्यापोऽस्मादिति समुद्रमन्तरिक्षम्। यद्वा। समुद्द्रवं सर्वतो गमनम्। तच्छीलं प्रपञ्चजातमाविष्टवान्। सृष्ट्वा तदेवानुप्राविशत्। तै. आ. ८-६। इति श्रुतेः। वायुपक्शे वाय्वादिरूपेणाविवेश। स इदं विश्वं सर्वं लोकं वि चष्टे। विशेषेण ख्यापयति। सति हि प्राणे परमात्मनि वा जीवन्तः पुरुषा लोकं विख्यातं कुर्वन्ति। तं देवमुपासकोऽहं पाकेन परिपक्वज्ञानेन मनसान्तितः। अन्तिकशब्दात्तसिः। अन्तिकस्य तसि कादिलोपो भवत्याद्युदात्तत्वं च। पा. ६-४-१४९-८। इति कादिलोपः। अन्तिके समीपे स्वहृदयेऽपश्यम् । तं प्रानं माता वाग्रेळ्हि। वाक् प्राणेऽन्तर्भवतीत्यर्थः। स्वापे हि वाग्व्यापारो न दृश्यते प्रानव्यापारस्तु दृश्यत इति॥४॥