दशमं मण्डलम् - सूक्तम् 17

14 ऋचः

ऋषिः: देवश्रवा यामायनः देवता: सरण्यूः छन्दः: त्रिष्टुप्

सूक्तम् 10.17 - सम्पूर्णम्

1 / 14
ऋक्: 10.17.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (14)
10.17.1
त्वष्टा᳚ दुहि॒त्रे व᳚ह॒तुं कृ᳚णो॒तीती॒दं विश्वं॒ भुव᳚नं॒ समे᳚ति ।
य॒मस्य᳚ मा॒ता प᳚र्यु॒ह्यमा᳚ना म॒हो जा॒या विव᳚स्वतो ननाश ॥
▶ पदपाठः (Word-by-word)
त्वष्टा᳚ । दु॒हि॒त्रे । व॒ह॒तुम् । कृ॒णो॒ति॒ । इति᳚ । इ॒दम् । विश्व᳚म् । भुव᳚नम् । सम् । ए॒ति॒ ।
य॒मस्य᳚ । मा॒ता । प॒रि॒॑उ॒ह्यमा᳚ना । म॒हः । जा॒या । विव᳚स्वतः । न॒ना॒श॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्वष्टा एतन्नामकोदेवः दुहित्रे षष्ठ्यर्थे चतुर्थी दुहितुः सरण्यूनामिकायाः वहतुं वहनं विवाहं एधिवह्योश्चतुरिति वहेश्चतुप्रत्ययः तं कृणोति करोतीति एतेन हेतुना इदं विश्वं सर्वं भुवनं भूतजातं समेति तं विवाहं समागमत् पर्युह्यमाना विवस्वता उद्वोढव्या यमस्य यम्याश्च माता महोमहतः विवस्वतोजाया भार्या सरण्यूः ननाश उत्तरान् कुरून् प्रतिन- ष्टा अगच्छदित्यर्थः ॥ १ ॥

10.17.2
अपा᳚गूहन्न॒मृतां॒ मर्त्ये᳚भ्यः कृ॒त्वी सव᳚र्णामददु॒र्विव᳚स्वते ।
उ॒ताश्विना᳚वभर॒द्यत्तदासी॒दज᳚हादु॒ द्वा मि᳚थु॒ना स᳚र॒ण्यूः ॥
▶ पदपाठः (Word-by-word)
अप᳚ । अ॒गू॒ह॒न् । अ॒मृता᳚म् । मर्त्ये᳚भ्यः । कृ॒त्वी । स॑व᳚र्णाम् । अ॒द॒दुः॒ । विव᳚स्वते ।
उ॒त । अ॒श्विनौ᳚ । अ॒भ॒र॒त् । यत् । तत् । आसी᳚त् । अज᳚हात् । ऊं॒ इति᳚ । द्वा । मि॒थु॒ना । स॒र॒ण्यूः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अमृतां मरणधर्मरहितां एतां सरण्यूं मर्त्येभ्योमनुष्येभ्यः तदुत्पत्यर्थं अपागूहन् अप- गूहितवन्तः संवृतवन्तः देवाउपनीतवन्तइत्यर्थः । किंच सवर्णां सरण्यूसदृशां अन्यां स्त्रियं कृत्वी कृत्वा तस्मै विवस्वते देवाअददुः प्रायच्छन् । उतापिच सा अश्वरूपिणी सरण्यूः तदाश्विनावभरत् स्वोदरे गर्भभूतौ धारितवती यद्यदा तत् जायापतिभ्यां अश्वरूपात्मना संभोगकाले रेतः पतितमासीत् तदा अश्विनौ जनयामासेत्यर्थः । तथा सरण्यूः सरणवती एतन्नामिका द्वा मिथुना द्वौ मिथुनौ यममम्यौ अजहात् त्यक्तवती जनितवतीत्यर्थः । यद्वा सरण्यूः एतन्नामिका मध्यस्थाना देवता मध्यममग्निं माध्यमिकां वाचं च उत्पादि- तवती ॥ २ ॥ दीक्षितमरणे पूषात्वेतइत्याद्याश्चतस्रः शंसनीयाः । सूत्रितंच—पूषात्वेतश्च्यावयतुप्रविद्वा- नितिचतस्रइति ।

10.17.3 समानपद
पू॒षा त्वे॒तश्च्या᳚वयतु॒ प्र वि॒द्वानन᳚ष्टपशु॒र्भुव᳚नस्य गो॒पाः ।
स त्वै॒तेभ्य॒ः परि᳚ ददत्पि॒तृभ्यो॒॑ग्निर्दे॒वेभ्य᳚ः सुविद॒त्रिये᳚भ्यः ॥
▶ पदपाठः (Word-by-word)
पू॒षा । त्वा॒ । इ॒तः । च्य॒व॒य॒तु॒ । प्र । वि॒द्वान् । अन᳚ष्ट॑पशुः । भुव᳚नस्य । गो॒पाः ।
सः । त्वा॒ । ए॒तेभ्यः᳚ । परि᳚ । द॒द॒त् । पि॒तृ॑भ्यः᳚ । अ॒ग्निः । दे॒वेभ्यः᳚ । सु॒॑वि॒द॒त्रिये᳚भ्यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूषा पोषयिता एतन्नामकोदेवः त्वा त्वां इतोस्माद्देशात् लोकात् प्रच्यावयतु प्रकर्षे- णोत्तमलोकं गमयतु । कीदृशः विद्वान् अस्मद्भक्ततां विजानानः अनष्टपशुः अविनश्वरपशु- युक्तः तस्मिन् सर्वेपशवस्तिष्ठन्ति नतु नश्यन्तीत्यर्थः भुवनस्य भूतजातस्य गोपाः गोपा- यिता । किंच प्रक्रम्य्यसपूषा एतेभ्यः पितृभ्यः त्वा त्वां परिददत् परिप्रयच्छतु । तथा अग्निश्च सुविदत्रियेभ्यः सुविदत्रं ज्ञानं धनं वा तदर्हाः सुविदत्रियाः छान्दसोघप्रत्ययः शोभनज्ञानेभ्यः सुधनेभ्योवा देवेभ्यः त्वां प्रयच्छतु तेषां लोके स्थापयत्वित्यर्थः ॥ ३ ॥

10.17.4
आयु᳚र्वि॒श्वायु॒ः परि᳚ पासति त्वा पू॒षा त्वा᳚ पातु॒ प्रप᳚थे पु॒रस्ता᳚त् ।
यत्रास᳚ते सु॒कृतो॒ यत्र॒ ते य॒युस्तत्र᳚ त्वा दे॒वः स᳚वि॒ता द᳚धातु ॥
▶ पदपाठः (Word-by-word)
आयुः᳚ । वि॒श्व॑आ᳚युः । परि᳚ । पा॒स॒ति॒ । त्वा॒ । पू॒षा । त्वा॒ । पा॒तु॒ । प्र॑प᳚थे । पु॒रस्ता᳚त् ।
यत्र᳚ । आस᳚ते । सु॒॑कृतः᳚ । यत्र᳚ । ते । य॒युः । तत्र᳚ । त्वा॒ । दे॒वः । स॒वि॒ता । द॒धा॒तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वायुः सर्वान्नः सर्वत्रगमनशीलोवा आयुः वकारलोपश्छान्दसः वायुः यद्वा छन्दसी- णइति उण् प्रत्यये वृद्धौ च कृतायां रूपम् । गन्ता वायुः त्वा त्वां परिपासति परिपातु पूषानुज्ञया परितोरक्षतु । पा रक्षणे लेटि सिप्यडागमः । प्रपथे प्रकृष्टे मार्गे स्वर्गे पुरस्ता- त् सर्वेषां प्रथममेव वर्तमानः पूषा स्वयमेव त्वा त्वां प्रमितं यजमानं पातु रक्षतु । सुकृतः पुण्यकर्माणः यत्र यस्मिन्देशे आसते तिष्ठन्ते यत्र वा ते सुकृतः ययुः प्राप्ताः तत्र तस्मिन् स्थाने देवोदीप्यमानः सविता सर्वस्य स्वस्वकर्मणि प्रेरकः एतन्नामकोदेवः एत नामकोदेवः त्वा त्वां दधातु निदधातु ॥ ४ ॥ एकादशिनस्य पौष्णस्य पसोर्हविषः पूषेमाइत्यनुवाक्या । पूषेमाआशाअनुवेदसर्वाः शु- क्रंतेअन्यद्यजतमितिहि सूत्रितम् ।

10.17.5
पू॒षेमा आशा॒ अनु᳚ वेद॒ सर्वा॒ः सो अ॒स्मा{4} अभ᳚यतमेन नेषत् ।
स्व॒स्ति॒दा आघृ᳚णि॒ः सर्व᳚वी॒रो॑प्र᳚युच्छन्पु॒र ए᳚तु प्रजा॒नन् ॥
▶ पदपाठः (Word-by-word)
पू॒षा । इ॒माः । आशाः᳚ । अनु᳚ । वे॒द॒ । सर्वाः᳚ । सः । अ॒स्मान् । अभ᳚य॑तमेन । ने॒ष॒त् ।
स्व॒स्ति॒॑दाः । आघृ᳚णिः । सर्व᳚॑वीरः । अप्र᳚॑युच्छन् । पु॒रः । ए॒तु॒ । प्र॒॑जा॒नन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूषा देवः इमाः सर्वाआशाः प्राच्याद्यादिशः अनुवेद आनुपूर्व्येण जानाति इमाः सुखे न गंतव्याः असुखेनेति वा एवमनुक्रमेण जानातीत्यर्थः । एवं सति अस्मान् प्रमिते यज-मानोब्रवीति पुत्रमुखेन याजकमुखेन वा सपूषा अस्मान् अभयतमेन अत्यन्तं भयरहितेन मार्गेन नेषत् नयतु । कथं स्वस्तिदाः कल्याणस्य दाता आघृणिः आगतदीप्तियुक्तः सर्व- वीरः सर्वैः वीरैः कर्मणि समर्थैः ऋत्विग्भिरुपेतः अप्रयुच्छन् अप्रमाद्यन् प्रजानन् अस्मा- कं फलाफले विजानानः सन् पुरएतु अस्माकं पुरस्ताद्गच्छतु यथा अस्माकं भयं न भव- ति तथा गच्छत्वित्यर्थः ॥ ५ ॥ एकादशिनस्य पोष्णस्य पशोः पुरोडाशस्य प्रपथेपथामिति याज्या । सूत्रितंच—प्रपथे पथामजनिष्टपूषा पथस्पथःपरिपतिंवचस्येति ।

10.17.6
प्रप᳚थे प॒थाम᳚जनिष्ट पू॒षा प्रप᳚थे दि॒वः प्रप᳚थे पृथि॒व्याः ।
उ॒भे अ॒भि प्रि॒यत᳚मे स॒धस्थे॒ आ च॒ परा᳚ च चरति प्रजा॒नन् ॥
▶ पदपाठः (Word-by-word)
प्र॑प᳚थे । प॒थाम् । अ॒ज॒नि॒ष्ट॒ । पू॒षा । प्र॑प᳚थे । दि॒वः । प्र॑प᳚थे । पृ॒थि॒व्याः ।
उ॒भे इति᳚ । अ॒भि । प्रि॒यत᳚मे॒ इति᳚ प्रि॒य॑त᳚मे । स॒ध॑स्थे᳚ । आ । च॒ । परा᳚ । च॒ । च॒र॒ति॒ । प्र॒॑जा॒नन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पथां अन्तरिक्षगमनहेतुभूतानां मार्गाणां मध्ये प्रपथे यः प्रकृष्टः पंथाअस्ति तत्र पूषा अजनिष्ट प्रादुरभूत् पुण्यकर्मणां सुगतिप्रापणार्थमवस्थितइतिभावः । तथा दिवोद्युलोकस्य च मार्गाणां मध्ये प्रपथे प्रकृष्टे मार्गे मनुष्याणां तत्तत्कर्मणि प्रवर्तनार्थं प्रादुर्भूतइत्यर्थः । सोयं पूषा प्रियतमे सर्वस्येष्टतमे सधस्थे सर्वेषां सहावस्थानभूते उभे द्यावापृथिव्यावभि लक्ष्य आचरति आभिमुख्येन चरति सुकृतिनां सुकृतफलप्रदर्शनायानुकूलं चरतीत्यर्थः । तथा पराचरति दुष्कर्मणां प्रतिकूलं गच्छति । किं कुर्वन् प्रजानन् अनेनेदं कर्म कृतं अस्य कर्मणइदं फलमिति अविशेषेण जानानः ॥ ६ ॥ व्यूह्ळस्य दशरात्रस्य त्रुतीये छन्दोमे प्रउगे सारस्वततृचस्य सरस्वतींदेवयन्तइत्येषा आद्या । सूत्र्यतेहि—प्रब्रह्माणोअंगिरसोनक्षंत सरस्वतींदेवयन्तोहवन्तइति ।

10.17.7
सर᳚स्वतीं देव॒यन्तो᳚ हवन्ते॒ सर᳚स्वतीमध्व॒रे ता॒यमा᳚ने ।
सर᳚स्वतीं सु॒कृतो᳚ अह्वयन्त॒ सर᳚स्वती दा॒शुषे॒ वार्यं᳚ दात् ॥
▶ पदपाठः (Word-by-word)
सर᳚स्वतीम् । दे॒व॒॑यन्तः᳚ । ह॒व॒न्ते॒ । सर᳚स्वतीम् । अ॒ध्व॒रे । ता॒यमा᳚ने ।
सर᳚स्वतीम् । सु॒॑कृतः᳚ । अ॒ह्व॒य॒न्त॒ । सर᳚स्वती । दा॒शुषे᳚ । वार्य᳚म् । दा॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवयन्तः देवान् यष्टुं स्तोतुं च कामयमानायजमानाः सरस्वतीं एतन्नामिकां मध्यम- स्थानदेवतां हवन्ते कर्मावयवत्वायाह्वयन्ति । तथा तायमाने स्तुतिभिर्हविर्भिश्च विस्तार्य माणे अध्वरे यज्ञे सरस्वतीं यजन्तीति शेषः । सुकृतः पुण्यकर्माणः सरस्वतीं अह्वयन्त फलप्रदानायाह्वयन्ते यतएवमतः कारणात् सरस्वती देवी दाशुषे हवींषि दत्तवते यज- मानाय वार्यं वरणीयं कर्मफलं दात् प्रयच्छतु ॥ ७ ॥

10.17.8
सर᳚स्वति॒ या स॒रथं᳚ य॒याथ᳚ स्व॒धाभि᳚र्देवि पि॒तृभि॒र्मद᳚न्ती ।
आ॒सद्या॒स्मिन्ब॒र्हिषि᳚ मादयस्वानमी॒वा इष॒ आ धे᳚ह्य॒स्मे ॥
▶ पदपाठः (Word-by-word)
सर᳚स्वति । या । स॒॑रथ᳚म् । य॒याथ᳚ । स्व॒धाभिः᳚ । दे॒वि॒ । पि॒तृ॑भिः᳚ । मद᳚न्ती ।
आ॒॑सद्य᳚ । अ॒स्मिन् । ब॒र्हिषि᳚ । मा॒द॒य॒स्व॒ । अ॒न॒मी॒वाः । इषः᳚ । आ । धे॒हि॒ । अ॒स्मे इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सरस्वति हे देवि या त्वं सरथं पितृभिः सह समानेन रथेनयुक्तं यथा भवति तथा ययाथ अस्मदीयं यज्ञं प्राप्तासि । किंकुर्वती पितृभिः सह स्वधाभिर्हविर्लक्षणैरन्नैः मदन्तीमाद्यन्ती यज्ञं गच्छसीति संबन्धः । सा त्वं बर्हिषि अस्मिन् वेदिस्तरणे यज्ञे आसद्य उपविश्य मादयस्व हविर्भिस्तृप्ता भव आत्मानं तर्पय वा । ततस्तृप्ता सती त्वं अनमीवाः अमीवा रोगः तद्वर्जितानि आरोग्यजननानि इषोन्नानि अस्मे अस्मभ्य्माधेहि पर्याप्तं प्रयच्छ ॥ ८ ॥

10.17.9
सर᳚स्वतीं॒ यां पि॒तरो॒ हव᳚न्ते दक्षि॒णा य॒ज्ञम᳚भि॒नक्ष᳚माणाः ।
स॒ह॒स्रा॒र्घमि॒ळो अत्र᳚ भा॒गं रा॒यस्पोषं॒ यज᳚मानेषु धेहि ॥
▶ पदपाठः (Word-by-word)
सर᳚स्वतीम् । याम् । पि॒तरः᳚ । हव᳚न्ते । द॒क्षि॒णा । य॒ज्ञम् । अ॒भि॒॑नक्ष᳚माणाः ।
स॒ह॒स्र॒॑अ॒र्घम् । इ॒ळः । अत्र᳚ । भा॒गम् । रा॒यः । पोष᳚म् । यज᳚मानेषु । धे॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यां त्वां सरस्वतीं पितरोहवन्ते आह्वयन्ति । कीदृशाः दक्षिणा । दक्षिणादाजिति आच् प्रत्ययः । दक्षिणतआगत्य यज्ञमभिनक्षमाणाः अभितोगच्छन्तोव्याप्नुवन्तः अत्रास्मिन् यज्ञे सहस्रर्घं बहुभिः पूजनीयं उपयोज्यं इळोन्नस्य भागं रायोधनस्य पोषं पुष्टिं च यजमानेषु त्वं धेहि स्थापय ॥ ९ ॥ अवभृथस्थाने आपोअस्मानित्येषा । सूत्रितंच—ततआचम्याप्लवन्तआपोअस्मान्मातरः शुंधयन्त्विति । दशमेहनि वपामार्जनेप्येषा । सूत्रितंच—इदमापःप्रवहतेत्येतस्याःस्थानेआपो- अस्मान्मातरः शुंधयंत्विति ।

10.17.10
आपो᳚ अ॒स्मान्मा॒तरः᳚ शुन्धयन्तु घृ॒तेन᳚ नो घृत॒प्व᳚ः पुनन्तु ।
विश्वं॒ हि रि॒प्रं प्र॒वह᳚न्ति दे॒वीरुदिदा᳚भ्य॒ः शुचि॒रा पू॒त ए᳚मि ॥
▶ पदपाठः (Word-by-word)
आपः᳚ । अ॒स्मान् । मा॒तरः᳚ । शु॒न्ध॒य॒न्तु॒ । घृ॒तेन᳚ । नः॒ । घृ॒त॒॑प्वः᳚ । पु॒न॒न्तु॒ ।
विश्व᳚म् । हि । रि॒प्रम् । प्र॒॑वह᳚न्ति । दे॒वीः । उत् । इत् । आ॒भ्यः॒ । शुचिः᳚ । आ । पू॒तः । ए॒मि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मातरः जगतोमातृस्थानीयाआपः अस्मान् शुंधयन्तु प्रोक्षणेन शोधयन्तु । तथा घृतप्वः घृतमुदकं तेनास्मान् पुनन्तीति तास्तथोक्ताआपः यद्वा घृतप्वः घृतं गव्यं तेन पुनन्ति । तथा ब्राह्मणं घृतेननोघृतप्वः पुनन्तीति । तद्वैसुपूतंयत् घृतेनपूयतेइति । ताआपः घृतेन प्रत्यक्षेणोदकेन नोस्मान् पुनन्तु हि यस्मात् देवीर्देव्यः देवनशीलाआपः विश्वं सर्वं रिप्रं पापं प्रवहन्ति पुरुषसकाशात् प्रगमयन्ति अपनयन्तीति यावत् । इत् अनन्तरं आभ्यः अद्भ्यः आपूतः आभिमुख्येन शुद्धः सन् स्तोता अहं उदैमि उद्गच्छामि ऊर्ध्वं स्वर्गं गच्छा मीत्यर्थः ॥ १० ॥ सुत्येहनि द्रप्सश्चस्कन्देत्यादिके द्वे विप्रुड्ढोमार्थे । सूत्रितंच—द्रप्सश्चस्कन्देति द्वाभ्या वि- प्रुढ्ढोमौ हुत्वेति । स्कन्नहविरभिर्मर्शनेपि द्रप्सइत्येषा । आहुतिर्बहिष्परिधि यदिस्कन्देत्तदा आग्नीध्रः अनया जुहुयात् । स्कन्नमभिमृशेदितिप्रकृत्य सूत्रितं—द्रप्सश्चस्कन्देत्याहुतिश्चेद्वहि- ष्परिध्याग्नीध्रएनां जुहुयादिति ।

10.17.11
द्र॒प्सश्च᳚स्कन्द प्रथ॒मा{4} अनु॒ द्यूनि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्व᳚ः ।
स॒मा॒नं योनि॒मनु᳚ सं॒चर᳚न्तं द्र॒प्सं जु᳚हो॒म्यनु᳚ स॒प्त होत्रा᳚ः ॥
▶ पदपाठः (Word-by-word)
द्र॒प्सः । च॒स्क॒न्द॒ । प्र॒थ॒मान् । अनु᳚ । द्यून् । इ॒मम् । च॒ । योनि᳚म् । अनु᳚ । यः । च॒ । पूर्वः᳚ ।
स॒मा॒नम् । योनि᳚म् । अनु᳚ । स॒म्॑चर᳚न्तम् । द्र॒प्सम् । जु॒हो॒मि॒ । अनु᳚ । स॒प्त । होत्राः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्रप्सः अभिषूयमाणस्य सोमस्य रसः प्रथमान् पूर्वभाविनः पार्थिवान् लोकान् द्यून् दीप्यमानान् द्युलोकांश्च अनुलक्षीकृत्य चस्कन्द स्कन्नवान् गतवान् । तदेवाह इमं परिदृश्य मानं योनिं स्थानभूतं लोकं च यश्च अस्मत्पूर्वोस्ति तमनुगतवान् समानं साधारणं योनिं द्यावापृथिवीलक्षणं स्थानमनुसंचरन्तं सम्यग्गच्छन्तं द्रप्सं सोमरसं विप्रुल्लक्षणं सप्तहोत्राः सप्तसंख्याकाः विप्रुड्ढोमस्य कर्तारः होतृप्रभृतयोवयं अनु आनुपूर्व्येण जुहोमि जुहुमः । यद्वा द्रप्सः द्रुतगामित्वात् द्रप्सआदित्यउच्यते सआदित्यः पृथिवीं च दिवं च गच्छति समानं योनिमन्तरिक्षं लक्षीकृत्य सम्यक् चरन्तं द्रप्समादित्यमुद्दिश्य सप्तहोत्राः सप्तसंख्याकादिशः यस्यां दिशिसूर्योवर्तते तद्भ्यतिरिक्ताः सप्तसंख्याकादिशः सप्त अनु पश्चाज्जुहोमि यत्रयत्र वर्तते तां तां दिशं द्रव्यत्वेन प्रयच्छामि प्रतिष्ठापयामीत्यर्थः । अत्र वाजसनेयकं—असौवा आदित्योद्रप्सः सदिवंचपृथिवींच स्कन्दतीमंचयोनिमनुयश्चपूर्वइति । इमंचलोकममुंचेत्येतत् समानं योनिम नुसंचरन्तमिति । समानं ह्येषएतंयोनिमनुसंचरन्ति । द्रप्सं जुहोम्यनुसप्तहो- त्राइत्यसौवाआदित्योद्रप्सोदिशः सप्तहोत्राअमुंतदादित्यं दिक्षुप्रतिष्ठापयतीति ॥ ११ ॥

10.17.12
यस्ते᳚ द्र॒प्सः स्कन्द᳚ति॒ यस्ते᳚ अं॒शुर्बा॒हुच्यु᳚तो धि॒षणा᳚या उ॒पस्था᳚त् ।
अ॒ध्व॒र्योर्वा॒ परि᳚ वा॒ यः प॒वित्रा॒त्तं ते᳚ जुहोमि॒ मन᳚सा॒ वष᳚ट्कृतम् ॥
▶ पदपाठः (Word-by-word)
यः । ते॒ । द्र॒प्सः । स्कन्द᳚ति । यः । ते॒ । अं॒शुः । बा॒हु॑च्यु᳚तः । धि॒षणा᳚याः । उ॒प॑स्था᳚त् ।
अ॒ध्व॒र्योः । वा॒ । परि᳚ । वा॒ । यः । प॒वित्रा᳚त् । तम् । ते॒ । जु॒हो॒मि॒ । मन᳚सा । वष᳚ट्॑कृतम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम ते त्वदीयोयोद्रप्सोरसः स्कन्दति अधिषवणचर्मणोन्यत्र गच्छति यश्च ते त्व- दीयः अंशुः रसादितरः सन् स्कन्दति बाहुच्युतः अध्वर्योर्बाहुभ्यां प्रच्युतः सन् स्कन्दति यद्वा बाहुवत् साधनभूताग्रावाणः तैः प्रच्युतोभिषुतः सन् धिषणायाः धिषणेत्यधिषवण- फलकनाम प्रत्येकविवक्षयैकवचनं अधिषवणफलकयोरुपस्थात् समीपस्थात् प्रदेशादन्तत्र गच्छति । तथा अध्वर्योर्वा अभिषुण्वतोध्वर्योर्हस्तात् स्कन्दति वापिवा योरसः पवित्रा द्दशापवित्रात् परिस्कन्दति तं कृ सर्वं द्रप्सं ते त्वदीयं रसं मनसा अन्तःकरणेन स्तोत्रेण वा सह वषट्कृतं वषट्कारेण स्वाहाकारेण कृतं जुहोमि अग्नौ प्रक्षिपामि ॥ १२ ॥

10.17.13
यस्ते᳚ द्र॒प्सः स्क॒न्नो यस्ते᳚ अं॒शुर॒वश्च॒ यः प॒रः स्रु॒चा ।
अ॒यं दे॒वो बृह॒स्पति॒ः सं तं सि᳚ञ्चतु॒ राध᳚से ॥
▶ पदपाठः (Word-by-word)
यः । ते॒ । द्र॒प्सः । स्क॒न्नः । यः । ते॒ । अं॒शुः । अ॒वः । च॒ । यः । प॒रः । स्रु॒चा ।
अ॒यम् । दे॒वः । बृह॒स्पतिः᳚ । सम् । तम् । सि॒ञ्च॒तु॒ । राध᳚से ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम ते त्वदीयोयोद्रप्सोरसोन्यत्र स्कन्नोगतः यश्च ते त्वदीयः तव कारणभूतोशुः लताखंडः रसादितरोभवति स्रुचा पात्रविशेषेण गृहीतः सोमः अवः अवस्तात् स्कन्दते परः परस्ताद्वा अतिरिक्तोभवति तमिमं सोमं अयं बृहस्पतिरेतन्नामकोदेवः संसिंचतु सम्यक् प्रक्षारयतु । किमर्थं राधसे अस्माकं धनार्थं स्कन्नेहि सोमे प्रजापश्वादिकमपस्कन्नं भवति खलु ॥ १३ ॥

10.17.14
पय᳚स्वती॒रोष᳚धय॒ः पय᳚स्वन्माम॒कं वचः᳚ ।
अ॒पां पय᳚स्व॒दित्पय॒स्तेन᳚ मा स॒ह शु᳚न्धत ॥
▶ पदपाठः (Word-by-word)
पय᳚स्वतीः । ओष᳚धयः । पय᳚स्वत् । मा॒म॒कम् । वचः᳚ ।
अ॒पाम् । पय᳚स्वत् । इत् । पयः᳚ । तेन᳚ । मा॒ । स॒ह । शु॒न्ध॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इयं प्रत्यक्षकृता हे आपः ओषघयः पयस्वत्यः वृष्टिलक्षणेनोदकेन सारवत्योभवन्ति मामकं मदीयं वचः वचनं वृष्टिप्रार्थनवचनं पयस्वत् सारवत् भवति किं बहुना यच्चेह किंचिदपामुदकानां पयः क्षीरवत् सारभूतंयदस्ति तत्सर्वं पयस्वत् सारवदेव तेनोदकसारे- ण सह मा मां शुंधत यूयं शोधयत । आपोअद्य्नान्वचारिषंरसेनसमगस्महीतिनिगमान्तरं ॥ १४ ॥

परंम्रुत्योइति चतुर्दशर्चं द्वितीयं सूक्तं यमपुत्रस्य संकुसुकस्यार्षं एकादशी प्रस्तारपंक्तिः आद्यौ जागतौ ततो द्वौ गायत्रौ प्रस्तारपंक्तिः पुरतइति । त्रयोदशी जगती चतुर्दशी अनु- ष्टुप् शिष्टास्त्रिष्टुभः । तत्रादौ चतस्रोमृत्युदेवत्याः पञ्चमी धातृदेवताका षष्ठी त्वष्टृदेवत्या सप्तम्याद्याः शिष्टाः पितृमेधाभिधायिन्यः अतस्तद्देवताकाः अन्त्या तु अनिरुक्तत्वात् प्राजा- पत्या वा । तथाचानुक्रान्तं—परंमृत्योः संकुसुकश्चतस्रोमृत्युदेवताः पराधात्री परा त्वाष्ट्री पराः पितृमेधाएकादशी प्रस्तारपंक्तिर्जगत्युपान्त्यान्त्यानुष्टुप् प्राजापत्यावासानिरुक्तेति ।