स॒मा॒नं योनि॒मनु᳚ सं॒चर᳚न्तं द्र॒प्सं जु᳚हो॒म्यनु᳚ स॒प्त होत्रा᳚ः ॥
पदपाठः (Word-by-word)
स॒मा॒नम् । योनि᳚म् । अनु᳚ । स॒म्॑चर᳚न्तम् । द्र॒प्सम् । जु॒हो॒मि॒ । अनु᳚ । स॒प्त । होत्राः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
द्रप्सः अभिषूयमाणस्य सोमस्य रसः प्रथमान् पूर्वभाविनः पार्थिवान् लोकान् द्यून् दीप्यमानान् द्युलोकांश्च अनुलक्षीकृत्य चस्कन्द स्कन्नवान् गतवान् । तदेवाह इमं परिदृश्य मानं योनिं स्थानभूतं लोकं च यश्च अस्मत्पूर्वोस्ति तमनुगतवान् समानं साधारणं योनिं द्यावापृथिवीलक्षणं स्थानमनुसंचरन्तं सम्यग्गच्छन्तं द्रप्सं सोमरसं विप्रुल्लक्षणं सप्तहोत्राः सप्तसंख्याकाः विप्रुड्ढोमस्य कर्तारः होतृप्रभृतयोवयं अनु आनुपूर्व्येण जुहोमि जुहुमः । यद्वा द्रप्सः द्रुतगामित्वात् द्रप्सआदित्यउच्यते सआदित्यः पृथिवीं च दिवं च गच्छति समानं योनिमन्तरिक्षं लक्षीकृत्य सम्यक् चरन्तं द्रप्समादित्यमुद्दिश्य सप्तहोत्राः सप्तसंख्याकादिशः यस्यां दिशिसूर्योवर्तते तद्भ्यतिरिक्ताः सप्तसंख्याकादिशः सप्त अनु पश्चाज्जुहोमि यत्रयत्र वर्तते तां तां दिशं द्रव्यत्वेन प्रयच्छामि प्रतिष्ठापयामीत्यर्थः । अत्र वाजसनेयकं—असौवा आदित्योद्रप्सः सदिवंचपृथिवींच स्कन्दतीमंचयोनिमनुयश्चपूर्वइति । इमंचलोकममुंचेत्येतत् समानं योनिम नुसंचरन्तमिति । समानं ह्येषएतंयोनिमनुसंचरन्ति । द्रप्सं जुहोम्यनुसप्तहो- त्राइत्यसौवाआदित्योद्रप्सोदिशः सप्तहोत्राअमुंतदादित्यं दिक्षुप्रतिष्ठापयतीति ॥ ११ ॥