दशमं मण्डलम् - सूक्तम् 153

5 ऋचः

ऋषिः: इंद्रमातरो देवजामयः देवता: इंद्रः छन्दः: गायत्री

सूक्तम् 10.153 - सम्पूर्णम्

1 / 5
ऋक्: 10.153.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
10.153.1
ई॒ङ्खय᳚न्तीरप॒स्युव॒ इन्द्रं᳚ जा॒तमुपा᳚सते ।
भे॒जा॒नासः᳚ सु॒वीर्य᳚म् ॥
▶ पदपाठः (Word-by-word)
ई॒ङ्खय᳚न्तीः । अ॒प॒स्युवः᳚ । इन्द्र᳚म् । जा॒तम् । उप᳚ । आ॒स॒ते॒ ।
भे॒जा॒नासः᳚ । सु॒॑वीर्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ईंखयन्तीरिति पञ्चर्चं गायत्रमैन्द्रं द्वितीयं सूक्तम्। देवानां स्वसृभूता इन्द्रमातरो नामर्षिकाः। तथा चानुक्रान्तम्। ईंखयन्तीर्देवजामय इन्द्रमातरो गायत्रमिति। द्वितीये पर्याये प्रशास्तुः शस्त्र इदं सूक्तम्। सूत्रितं च। ईंखयन्तीरहं दां पाता सुतम्। आ. ६-४। इति। महाव्रतेऽपि प्रातः सवनिके ब्रह्मशस्त्र एतत्सूक्तम्॥

ईंखयन्तीर्गच्छन्त्यः स्तुत्यादिभिरिन्द्रं प्राप्नुवत्योऽपस्युवोऽपः कर्मात्मन इच्छन्त्य इन्द्रमातरोऽस्य सूक्तस्य द्रष्ट्र्यो जातं प्रादुर्भूतमिन्द्रमुपासते। परिचरन्ति। सुवीर्यं शोभनवीर्योपेतं धनं च भेजानासः। तस्मादिन्द्रात्संभक्तवत्यो भवन्ति॥१॥

10.153.2
त्वमि᳚न्द्र॒ बला॒दधि॒ सह᳚सो जा॒त ओज᳚सः ।
त्वं वृ᳚ष॒न्वृषेद᳚सि ॥
▶ पदपाठः (Word-by-word)
त्वम् । इ॒न्द्र॒ । बला᳚त् । अधि᳚ । सह᳚सः । जा॒तः । ओज᳚सः ।
त्वम् । वृ॒ष॒न् । वृषा᳚ । इत् । अ॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं सहसः परेषामभिभावुदाद्बलादधि जातोऽसि। अधिः पञ्चम्यर्थानुवादकः। वृत्रातिवधहेतुभूताद्बलाद्धेतोस्त्वं प्रख्यातो भवसीत्यर्थः। अपि चौजसः। ओजो नाम बलहेतु हृदयगतं धैर्यम्। तस्मादपि त्वं जतोऽसि। हे वृषन्वर्षितः त्वं वृषेदसि। कामानां वर्षितैव भवसि॥२॥

10.153.3
त्वमि᳚न्द्रासि वृत्र॒हा व्य१॒᳚न्तरि᳚क्षमतिरः ।
उद्द्याम᳚स्तभ्ना॒ ओज᳚सा ॥
▶ पदपाठः (Word-by-word)
त्वम् । इ॒न्द्र॒ । अ॒सि॒ । वृ॒त्र॒॑हा । वि । अ॒न्तरि᳚क्षम् । अ॒ति॒रः॒ ।
उत् । द्याम् । अ॒स्त॒भ्नाः॒ । ओज᳚सा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं वृत्रहासि। शत्रूणां हन्ता भवसि। अन्तरिक्षं मध्यमस्थानं च व्यतिरः। अवारकापनोदनेन प्रावर्धयः। द्यां द्युलोकं चौजसा बलेनोदस्त्भ्नाः। ऊर्ध्वमस्तंभी। यथाधो न पतति तथोपर्यवस्थापितवानित्यर्थः॥३॥

10.153.4
त्वमि᳚न्द्र स॒जोष᳚सम॒र्कं बि᳚भर्षि बा॒ह्वोः ।
वज्रं॒ शिशा᳚न॒ ओज᳚सा ॥
▶ पदपाठः (Word-by-word)
त्वम् । इ॒न्द्र॒ । स॒॑जोष᳚सम् । अ॒र्कम् । बि॒भ॒र्षि॒ । बा॒ह्वोः ।
वज्र᳚म् । शिशा᳚नः । ओज᳚सा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वम् सजोषसम् सह प्रीयमाणमर्कं स्तुत्यं वज्रमात्मीयमायुधमोजसा बलेन शिशानो न्बिश्यंस्तीक्ष्णीकुर्वन्बाह्बोर्हस्तयोर्बिभर्षि। धारयसि शत्रूणां वधार्थम्॥४॥

10.153.5
त्वमि᳚न्द्राभि॒भूर᳚सि॒ विश्वा᳚ जा॒तान्योज᳚सा ।
स विश्वा॒ भुव॒ आभ᳚वः ॥
▶ पदपाठः (Word-by-word)
त्वम् । इ॒न्द्र॒ । अ॒भि॒॑भूः । अ॒सि॒ । विश्वा᳚ । जा॒तानि᳚ । ओज᳚सा ।
सः । विश्वाः᳚ । भुवः᳚ । आ । अ॒भ॒वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं विश्वा सर्वाणि जातानि जनिमन्ति भूतान्योजसा बलेनाभिभूरभिभविता भवसि। तथा स तादृशस्त्वं विश्वा भुवः सर्वा भुमीः प्राप्तव्यानि सर्वाण्यपि स्थानान्याभवः। अभितः प्रप्नोः। भू प्राप्तौ॥५॥