दशमं मण्डलम् - सूक्तम् 106

11 ऋचः

ऋषिः: भूतांशः काश्यपः देवता: अश्विनौ छन्दः: त्रिष्टुप्

सूक्तम् 10.106 - सम्पूर्णम्

1 / 11
ऋक्: 10.106.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
10.106.1
उ॒भा उ᳚ नू॒नं तदिद᳚र्थयेथे॒ वि त᳚न्वाथे॒ धियो॒ वस्त्रा॒पसे᳚व ।
स॒ध्री॒ची॒ना यात᳚वे॒ प्रेम᳚जीगः सु॒दिने᳚व॒ पृक्ष॒ आ तं᳚सयेथे ॥
▶ पदपाठः (Word-by-word)
उ॒भौ । ऊं॒ इति᳚ । नू॒नम् । तत् । इत् । अ॒र्थ॒ये॒थे॒ इति᳚ । वि । त॒न्वा॒थे॒ इति᳚ । धियः᳚ । वस्त्रा᳚ । अ॒पसा᳚॑इव ।
स॒ध्री॒ची॒ना । यात᳚वे । प्र । ई॒म् । अ॒जी॒ग॒रिति᳚ । सु॒दिना᳚॑इव । पृक्षः᳚ । आ । तं॒स॒ये॒थे॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तत्रोभा उ नूनुमित्येकादशर्चमाद्यं सूक्तम्। अनुवाकापेक्षया सप्तमं सूक्तम्। त्रैष्टुभमश्विदैवत्यम्। कश्यप पुत्रो भूतांशो नामर्षिः। तथा चानुक्रम्यते। उभौ भुतांशः काश्यप आश्विनमिति। अप्तोर्यामेऽच्छावाकातिरिक्तोक्थ्य एतत्सूक्तम्। सूत्रितम् च। उभा उ नूनं दैव्या होतारा प्रथमा पुरोहितेति परिधानीया। आ. ९-११। इति॥

हे अश्विनावुभौ युवां नूनमिदानीं तदिदस्माभिर्दीयमानं हविः क्रियमाणं स्तोत्रमेवार्थयेथे। प्रार्थयथः। अर्थ याज्ञायां चौरादिकः। अनुदात्तेत्। उः पूरणः। सम्प्रार्थ्य च धियः कर्माणि स्तुतीर्वा वि तन्वाथे। विस्तारयथः। तनु विस्तारे तानादिकः। तत्र दृष्टान्तः। अपसेवापस्विनौ कुविन्दौ यथा वस्त्रा वस्त्राणि विस्तारयतः। अपः शब्दान्मत्वर्थीयो विनिः। तस्य बहुलं छन्दसीति लुक्। प्रातिपदिकस्वरेणान्तोदात्तः। उभयत्र सुप आकारः। ईमयं यजमानः सध्रीचीना सध्रीचीनौ सहांचनौ युवाम्। सहपूर्वादञ्चरेः क्विनि सहस्य सध्रिरिति सध्र्यादेशः। विभाषाञ्चेरदिक् स्त्रियामिति खः। सुप आजादेशः। तौ यातवे। तुमर्थे तवेन्प्रत्ययः। अभिमतप्राप्त्यर्थं प्राजीगः। प्रकर्षेण स्तौति। यद्वा। युवां प्रति स्तुतीरुद्गिरति। गॄ शब्दे। गॄ निगरणे वा। एताभ्यां लुङि बहुलं छन्दसीति विकरणस्य श्लुः। बहुलं छन्दसीत्यभ्यासस्येत्वम्। दीर्घश्छान्दसः। गुणे कृते हल् ङ्यादिना तिपो लोपः। किञ्च सुदिनेव सुदिनेश्वन्नानि यथालङ्कुर्वन्ति। यद्वा। सुदिना सुदिनौ। आहोरात्रयोः प्रवर्तकत्वेन तद्वन्तौ सूर्याचन्द्रमसौ स्वरश्मिभिर्यथान्नान्यलङ्कुरुतः। तद्वद्युवां पृक्षः। अन्ननामैतत्। भोक्तृभिः संपृच्यन्त इति पृक्षोऽन्नानि । आ तंसयेथे। समन्तादलङ्कुरुथः। तसि भूष अलङ्कारे चौरादिकः॥१॥

10.106.2
उ॒ष्टारे᳚व॒ फर्व᳚रेषु श्रयेथे प्रायो॒गेव॒ श्वात्र्या॒ शासु॒रेथः᳚ ।
दू॒तेव॒ हि ष्ठो य॒शसा॒ जने᳚षु॒ माप᳚ स्थातं महि॒षेवा᳚व॒पाना᳚त् ॥
▶ पदपाठः (Word-by-word)
उ॒ष्टारा᳚॑इव । फर्व᳚रेषु । श्र॒ये॒थे॒ इति᳚ । प्रा॒यो॒गा॑इ᳚व । श्वात्र्या᳚ । शासुः᳚ । आ । इ॒थः॒ ।
दू॒ता॑इ᳚व । हि । स्थः । य॒शसा᳚ । जने᳚षु । मा । अप᳚ । स्था॒त॒म् । म॒हि॒षा॑इ᳚व । अ॒व॒॑पाना᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उष्टारेव। उष्टः कामयेते गन्तव्यं देशमित्युष्टारौ प्रासङस्य वोढारावनड्वाहाविव। वश कान्तावित्यस्मात्तृचि च्छान्दसं सम्प्रसारनमिडभावश्च। तौ यथा सम्पुर्णघासेषु सञ्चरतह् तद्वत्फर्वरेषु स्तुतिभिर्हविर्भिश्च पूरयितृषु जनेशु श्रयेथे। तत्स्वीकरणार्थमाश्रयथः। पर्वतिः पूरनार्थः। अस्मादौणादिकोरन्प्रत्ययः। प्रायोगेव प्रयोक्तव्यावनड्वाहाविव। प्रपूर्वाद्युजेः कर्मणि घञ्श्युपसर्गस्य दीर्घः। थाथादिस्वरेणान्तोदात्तः। तौ यथा श्वात्र्या श्वात्र्यौ। शु क्षिप्रमतनं श्वात्रम्। तत्र साधू भवतः तद्वत्। यद्वा। युद्धार्थं प्रयोक्तव्यावश्वाविव श्वात्र्यौ। श्वात्रमिति धननाम। तत्र भवौ। धनस्य साधकावित्यर्थः। तौ युवाम् शासुः शम्सितुः स्तोतुः स्तुतिं प्रत्येथः। आगच्छथः। इण् गतौ आदादिकः। दुतेव दूताविव यथा राज्ञह् प्रियतमौ दूतौ जनपदेषु यशस्विनौ भवतः तद्वज्जनेषु स्तोतृषु यशसा यशस्विनौ स्थो हि। भवथः खलु। अस्तेर्लिटि रूपम्। हियोगादनिघातः। महिषेव महिषाविव यथा श्रान्तौ महिषाववपानात्। पीयतेऽस्मिन्निति पानं ह्रदादि। अधिकरणे ल्युट्। पानमेवावपानम्। संनिक्रुष्टात्पानादपगच्छतः तद्वत्युवामस्मदीयाद्धविषः स्तोत्राच्च माप स्थातम्। मापक्रम्य तिष्ठतम्। तिष्थेर्लुङि गातिस्थेति सिचो लुक्। न माङ्योग इत्यडभावः॥२॥

10.106.3
सा॒कं॒युजा᳚ शकु॒नस्ये᳚व प॒क्षा प॒श्वेव᳚ चि॒त्रा यजु॒रा ग᳚मिष्टम् ।
अ॒ग्निरि᳚व देव॒योर्दी᳚दि॒वांसा॒ परि᳚ज्मानेव यजथः पुरु॒त्रा ॥
▶ पदपाठः (Word-by-word)
सा॒क॒म्॑युजा᳚ । श॒कु॒नस्य᳚॑इव । प॒क्षा । प॒श्वा॑इ᳚व । चि॒त्रा । यजुः᳚ । आ । ग॒मि॒ष्ट॒म् ।
अ॒ग्निः॑इ᳚व । दे॒व॒॑योः । दी॒दि॒॑वांसा᳚ । परि᳚ज्माना॑इव । य॒ज॒थः॒ । पु॒रु॒॑त्रा ॥
▶ सायणभाष्यम् (Sayana Commentary)

शकुनस्येव पक्षिण इव यथा पक्षिणः पक्षा पक्षौ संहत्य वर्तमानौ तद्वत्साकंयुजा साकम्युजौ सहावियुज्य वर्तमानौ भवथः। युजेः सत्सूद्विषेत्यादिना क्विप्। पश्वेव पशू इव। सुप आकारः। तौ यथा चायनीयौ तद्वच्छित्रा चित्रौ चायनीय युवां यजुर्यजनावस्मदीयावा गमिष्टम्। आगच्छतम्। यजेरौणादिको भाव उसिन्प्रत्ययः। गमिष्टम्। गमेर्लेटि सिब्बहुलं लेटेति सिप्। सिप आर्धधातुकत्वाद्गमेरिट् परस्मैपदेषु। पा. ७-२-५८। इतीडागमः। देवयोर्देवानिच्छतो यजमानस्य यज्ञेऽग्निरिवाग्निर्यथा हविर्भिः स्तुतिभिश्च दीप्यते तद्वद्दीदिवांसा दीदिवांसौ स्तुतिभिर्दीप्तौ भवथः। दीव्यतेः क्वसौ वस्वेकाजादिति नियमादिडभावः। वलि लोपे तुजादित्त्वादभ्यासस्य दीर्घः। प्रैज्मानेव परिज्मानाविव परितोऽजतो गच्छतः कर्मकरणार्थमिति परिज्मानावध्वर्यू इव स्थितौ युवां पुरुत्रा बहुषु देशेषु यजथः। देवान्पूजयथः। अश्विनौ हि देवानामध्वर्यू इत्याम्नानात्। ऐ. ब्रा. १-१८। यद्वा। परिज्मानेन परितो गन्तारौ पुरो वा पश्चाद्वा तौ यथा बहुषु देशेषु यजथः सङ्गच्छमानौ भवथः। यज देवपूजा सङ्गतिकरणदानेषु। पुरुत्रा। देवमनुष्येत्यादिना त्राप्रत्ययः॥३॥

10.106.4
आ॒पी वो᳚ अ॒स्मे पि॒तरे᳚व पु॒त्रोग्रेव᳚ रु॒चा नृ॒पती᳚व तु॒र्यै ।
इर्ये᳚व पु॒ष्ट्यै कि॒रणे᳚व भु॒ज्यै श्रु᳚ष्टी॒वाने᳚व॒ हव॒मा ग᳚मिष्टम् ॥
▶ पदपाठः (Word-by-word)
आ॒पी इति᳚ । वः॒ । अ॒स्मे इति᳚ । पि॒तरा᳚॑इव । पु॒त्रा । उ॒ग्रा॑इ᳚व । रु॒चा । नृ॒पती᳚ इ॒वेति᳚ नृ॒पती᳚॑इव । तु॒र्यै ।
इर्या᳚॑इव । पु॒ष्ट्यै । कि॒रणा᳚॑इव । भु॒ज्यै । श्रु॒ष्टी॒वाना᳚॑इव । हव᳚म् । आ । ग॒मि॒ष्ट॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्मे अस्माकम् वो युवाम्। पूजायां बहुवचनम्। अपी प्राप्तौ बन्धुभूतौ भवथः। पितरेव पितराविव यथात्र पितरौ प्रति पुत्रा पुत्रौ बन्धुभूतौ भवतः तद्वत्। यद्वा । पुत्रा। षष्ठ्या आकारः। पुत्राणां पितरौ बन्धू। तथोग्रेवोग्राविव यथोग्रौ स्वतेजसोद्गूर्णावग्न्यादित्यौ यथा रोचमानौ भवतः तद्वद्रुचा दीप्त्या युक्तौ। रोचतेर्भावे क्विप्। सावेकाच इति विभक्तेरुदात्तत्वम्। यद्वा। रुचा रोचमानौ भवथः। रोचतेरिगुपधलक्षण कः। सुप आकारः। नृपतीव यथा नृणां पालयितारौ राजानौ सम्भ्रमयुक्तायै सेनायै रक्षकत्वेन भवतः तद्वत्तुर्यै कर्मार्थं त्वरमाणायै सम्भ्रमवत्यै जनतायै युवामभीष्टदतृत्वेन भवथः। तुर त्वरणे। इगुपधात्कित्। उ. ४-११९। इतीन्प्रत्ययः। कृदिकारादक्तिनः। पा. ४-१-४५। इति ङीप्। उदात्तयणो हल्पूर्वादिति विभक्तेरुदात्तत्वम्। इर्येवेर्याविव। इरान्नम्। तत्र भवौ। भावार्थे यत्। अन्नवन्तावाढ्यौ स्वजवरितोषणाय भवतः। तद्वद्युवां पुष्ट्यै धनादिदानेनास्माकं परितोषणाय भवथः। किरणेद किरणाविव यथाग्न्यादित्यकिरणऔ सर्वेषां प्रकाशनादिद्वारेन भोगाय भवतः तद्वद्भुज्यै स्तोतॄणां परिभोगाय भवथः। श्रुष्टीवानेव शृष्टिवन्ताविव। श्रुष्टीति क्षिप्रनाम। मत्वर्थीयो वनिप्। तद्वन्तावश्वौ यथा लक्ष्यं देशं प्रति शीघ्रं गच्छतः तद्वत्। यद्वा। श्रुष्टीवानेव। श्रुष्टीति सुखनाम। तद्वन्तौ पुरुषौ यथा क्रीडार्थमागच्छतः तद्वद्युवां हवमस्मदीयमाह्वानाम् प्रत्या गमिष्टम्। आगच्छतम्। हवम्। भावेऽनुपसर्गस्येति ह्वयतेरप् सम्प्रसारणं च॥४॥

10.106.5
वंस᳚गेव पूष॒र्या᳚ शि॒म्बाता᳚ मि॒त्रेव᳚ ऋ॒ता श॒तरा॒ शात᳚पन्ता ।
वाजे᳚वो॒च्चा वय᳚सा घर्म्ये॒ष्ठा मेषे᳚वे॒षा स᳚प॒र्या॒३॒᳚ पुरी᳚षा ॥
▶ पदपाठः (Word-by-word)
वंस᳚गा॑इव । पू॒ष॒र्या᳚ । शि॒म्बाता᳚ । मि॒त्रा॑इव᳚ । ऋ॒ता । श॒तरा᳚ । शात᳚पन्ता ।
वाजा᳚॑इव । उ॒च्चा । वय᳚सा । घ॒र्म्ये॒॑स्था । मेषा᳚॑इव । इ॒षा । स॒प॒र्या᳚ । पुरी᳚षा ॥
▶ सायणभाष्यम् (Sayana Commentary)

वंसगेव वंसगाविव वननीयगमनौ वृषभावव तौ यथा पूषर्या पूषरौ पूषणे भवौ। पुष्टावयवावित्यर्थः। तद्वद्युवां स्फीताङ्गावयवौ। पुष पुष्टौ। अस्मादौणादिको भावेऽरन्प्रत्ययः। तदन्ताद्भावे छन्दसीति यत्। तित्स्वरितम्। तथा शिंबाता शिंबातौ। सुखनामैतत्। शिम्बेन दुःकानां तनूकरणेन हेतुनातितं प्राप्तमिति। शिञ् निशाने। अस्माच्छिम्बमिति बाहुलकाद्बप्रत्ययो मुक्च निपात्यते। अततेः कर्मणि घञ्। सुप आलादेशः। सुखकरौ भवथः। मित्रेव मित्राविव। मित्रशब्देन वरुणोऽप्युपलक्ष्यते। सहावस्थितमित्रावरुणाविवर्तर्तौ सत्यभुतौ तद्वद्यथार्थदर्शिनौ भवथः। तथा शतरा शतं शतसङ्ख्यानि बहूनि रायो धनानि ययोः सन्ति तौ तथोक्तौ। सुपो डादेशः। यद्वा। शतमनेकमिन्द्रियप्रसादादि राति ददातिति शतरा सुखम् । तेन तद्वन्तौ। शातपन्ता शातपन्तौ तीक्ष्णस्तुतिकौ। शान्तं तीक्श्णम्। पन्तम्। पन्तेर्बाहुलकात्तन्। उ. ३-८६। यद्वा। शातपन्ता शातेन दुःखानां तनूकरनेन पन्यते स्तूयत इति शातपन्तम् सुखम्। शो तनूकरने। निष्ठा। पनतेस्तन्। तेन युवां सुखवन्तौ भवथः। यद्यपि शिम्बाता शतरा शातपन्तेति त्रीण्यपि सुखनामानि तथापि कालत्रयेऽप्यश्विनोः सुखकरत्वस्य विवक्षितत्वेन विषयभेदादपौनरुक्त्यम्। वाजेव वाजाविव यथाश्वौ घासादिनोन्नतौ सम्पूर्णावयवौ तद्वद्वयसा हवीरूपेणान्नेन हेतुनोच्चोच्चैर्वर्तमानौ। पुष्टावित्यर्थः। उच्चा। उच्चैः शब्दात्सुपो डादेशः। टित्त्वाट्टिलोपः। घर्म्येष्ठा घर्मस्थौ। घर्मं दीप्तमन्तरिक्षम्। तत्सम्बन्धिनि देशे सूर्याचन्द्रमसो रूपेणावस्थितौ भवथः सूर्या चन्द्रमसाविति यास्कः। २-१२-१। यद्वा। घर्मे प्रवर्ग्ये भवं घर्म्यं हविः। तत्र देवतात्वेनावस्थितौ भवथः। तिष्थतेरन्येभ्योऽपि दृश्यन्त इति विच्। तत्पुरुषे कृति बहुलमिति पूर्वपदस्य सप्तम्या अलुक्। मेशेव मेषाविव। तौ यथान्नेन परि चरणियौ तद्वद्युवामिषा हवीरूपेणान्नेन सपर्या सपरौ परिचरणियौ भवथः। सपर शब्दः कण्ड्वादिः। सपर्यतिः परिचरणकर्मा। पुरीषा पुरीषौ धनादिदानेन स्तोतृणां पोषयितारौ यद्वा हविर्भिः पोषणियौ भवथः। पुरीशं पुष्णातेः पोषयतेर्वेति यास्कः॥५॥

10.106.6
सृ॒ण्ये᳚व ज॒र्भरी᳚ तु॒र्फरी᳚तू नैतो॒शेव᳚ तु॒र्फरी᳚ पर्फ॒रीका᳚ ।
उ॒द॒न्य॒जेव॒ जेम᳚ना मदे॒रू ता मे᳚ ज॒राय्व॒जरं᳚ म॒रायु᳚ ॥
▶ पदपाठः (Word-by-word)
सृ॒ण्या᳚॑इव । ज॒र्भरी॒ इति᳚ । तु॒र्फरी᳚तू॒ इति᳚ । नै॒तो॒शा॑इ᳚व । तु॒र्फरी॒ इति᳚ । प॒र्फ॒रीका᳚ ।
उ॒द॒न्य॒जा॑इ᳚व । जेम᳚ना । म॒दे॒रू इति᳚ । ता । मे॒ । ज॒रायु᳚ । अ॒जर᳚म् । म॒रायु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सृण्येव सृण्यावि सृणिरङ्कुशः। तत्र साधुरिति यत्। अङ्कुशार्हौ मत्तगजाविव जर्भरी गात्रविनामम् कुर्वन्तौ। जभ जृभि गात्र विनामे। अस्मादौ णादिको रिप्रत्ययः। यद्वा। सृण्येव। सृणिर्दिविधा। मत्तगजस्यैकत्रावस्थापयित्र्येका। अपरा बाधयित्री। सर्तेः किच्च। उ. ४-४९-१०४। इत्यौणादिको निप्रत्ययः। कित्त्वादगुणः। कृदिकारादक्तिन इति ङीष्। सुप आकारः। उदात्तस्वरितयोर्यण इति स्वरितः। तादृश्यौ सृण्याविव जर्भरी भर्तारवेकत्रैवावस्थापकौ। तथा तुर्फरीतूतर्फितारौ शत्रूणां हन्तारौ। जर्भरी। भरतेयङ् लुगन्तादौणादिक इप्रत्ययः। अभ्यासस्य जकारश्छान्दसः। तृफ तृम्फ हिंसायाम्। अस्मात्तृजंतस्य तुर्फरीतारावित्यस्य पृषोदरादित्वाद्वर्णविकारः। यद्वा। अस्माद्बाहुलकादौणादिकोऽरीतुप्रत्यय उत्वं च। अत्र निरुक्तम्। द्विविधा सृणिर्भवति भर्ता च हन्ता च तथाश्विनौ चापि भर्तारौ जर्भरी भर्तारावित्यर्थस्तुर्फरीतू हन्तारावित्यादि। नि. १३-५। नैतोशेव। नितो शतिर्वधकर्मा। नितोशयतिति नितोशः। तस्यापत्यं नैतोशः। ताविव तुर्फरी शत्रूणां हन्तारौ। तृफतिर्हिंसार्थः। अस्मादौणादिको रिप्रत्यय उत्वं च। पर्फरीका पर्फरीकौ ह्सत्रूणां विदारयितारौ। ञिफला विशरणे। अस्मात्र्फरीकादयश्च। उ. ४-२०। इतीकप्रत्ययान्तो निपात्यते। यद्वा। स्तोतृजनानां धनादिदानेन पूरयितारौ। पॄ पालनपूरनयोः। अस्मादीकनि पूर्ववत्सर्वं निपात्यते। फर्वतेः पूरणार्थाद्वा। उदन्यजेव उपन्यजे इव। उदके भवमुदन्यम्। पद्दन्नोमास्। पा. ६-१-६३। इत्यादिनाशस्त्रभृतिष्वप्युदन्नादेशः। तत्र जाते रत्ने इव निर्मलौ कान्तियुक्तावित्यर्थः। जेमना जेमनौ जयशीलौ। जयतेरन्येभ्योऽपि दृश्यन्त इति मनिन्। दीर्घाभावश्छान्दसः। मदेरू बलातिशयेन मत्तौ स्तुत्यौ वा। ता तौ पूर्वोक्तगुनावश्विनौ युवां मे मदीयं जरायु जरायुजं अत एव मरायु मरणशीलं शरीरमजरं जरारहितं मरणधर्मरहितं कुरुतम्। नञो जरमरणत्रमृता इति नञ उत्तरस्य जरशब्दस्याद्युदात्तत्वम्॥६॥

10.106.7
प॒ज्रेव॒ चर्च᳚रं॒ जारं᳚ म॒रायु॒ क्षद्मे॒वार्थे᳚षु तर्तरीथ उग्रा ।
ऋ॒भू नाप᳚त्खरम॒ज्रा ख॒रज्रु᳚र्वा॒युर्न प᳚र्फरत्क्षयद्रयी॒णाम् ॥
▶ पदपाठः (Word-by-word)
प॒ज्रा॑इ᳚व । चर्च᳚रम् । जार᳚म् । म॒रायु᳚ । क्षद्म᳚॑इव । अर्थे᳚षु । त॒र्त॒री॒थः॒ । उ॒ग्रा॒ ।
ऋ॒भू इति᳚ । न । आ॒प॒त् । ख॒र॒म॒ज्रा । ख॒र॑ज्रुः᳚ । वा॒युः । न । प॒र्फ॒र॒त् । क्ष॒य॒त् । र॒यी॒णाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे उग्रोग्रावुद्गूर्णतेजस्कावश्विनौ पज्रेव पज्राविव प्रार्जितबलौ वीराविव स्थितौ। यद्वा। पज्रेव। जि ज्रि अभिभवे। पादाभ्यामभिभवन्तौ समर्थाविव स्थितौ। युवां चर्चरम् चरणशीलं जारं जरायुक्तं अत एव मरायु मरणशीलं मदीयं शरीरमर्थेषु गन्तव्येषु तरितव्येष्वापदादिषु क्षद्मेव। उदकनामैतत्। उदकमिव तर्तरिथः। अत्यन्तं तारयथः । तॄ प्लवनतरनयोः। यङ् लुगन्ताल्लटि च्छन्दस्युभयथेति थस आर्धधातुकत्वेनेडागमः। वॄतो वा। पा. ७-२-३८। इति दीर्घः। ऋभू नर्भू इव। दार्ष्टान्तिकसाम्यादत्र द्विवचनम्। ऋभू यथा स्वनिर्मितो रथ आपत् तद्वत् खरमज्रा खरं तीक्ष्णम् मज्जयितारौ शोधयितारौ। अत्यन्तं शुद्धबलावित्यर्थः। टुमस्जो शुद्धौ। अस्मादौणादिको रप्रत्ययः। तादृशौ युवां खरज्रुस्तीक्ष्णगतिरतिशयेन वेगवानृभुभिर्दत्तो रथो युवामापत्। आप्नोत्। आप्लृ व्याप्तौ। लुङि लृदित्त्वाच्च्लेरङ्। स रथो वायुरिव पर्फरत्। सर्वत्रापुरयत्। सर्वत्र व्याप्तवानित्यर्थः। फर्व पूरने। अस्माल्लेटि बहुलं छन्दसिति शपः श्लुः। अभ्यासस्य रुगागमो वलोपश्च। लेटोऽडाटावित्यडागमः। ततह् स रथो रयीणां धनानां धनानि क्शयत्। शत्रुभ्य आगमयत्। क्शि निवासगत्योः। अस्मादन्तर्णीतण्यर्थाल्लेट्यडागमः। यद्वा। क्षयतिरैश्वर्यकर्मा। धनानामीष्टे। छान्दसमनुदात्तत्वम्॥७॥

10.106.8
घ॒र्मेव॒ मधु᳚ ज॒ठरे᳚ स॒नेरू॒ भगे᳚विता तु॒र्फरी॒ फारि॒वार᳚म् ।
प॒त॒रेव᳚ चच॒रा च॒न्द्रनि᳚र्णि॒ङ्मन᳚ऋङ्गा मन॒न्या॒३॒᳚ न जग्मी᳚ ॥
▶ पदपाठः (Word-by-word)
घ॒र्मा॑इ᳚व । मधु᳚ । ज॒ठरे᳚ । स॒नेरू॒ इति᳚ । भगे᳚॑अविता । तु॒र्फरी॒ इति᳚ । फारि᳚वा । अर᳚म् ।
प॒त॒रा॑इ᳚व । च॒च॒रा । च॒न्द्र॑नि᳚र्निक् । मनः᳚॑ऋङ्गा । म॒न॒न्या᳚ । न । जग्मी॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

घर्मेव घर्माविव महावीराविव जठरे स्वोदरे मधु मधुनः। षष्ठ्या लुक्। घृतस्य सनेरू सम्भक्तारौ। वन षन सम्भक्तौ। अस्मादौणादिक एरुप्रत्ययः। भगेविता। भगो धनम् । तद्विषयरक्षणयुक्तौ। अवतेर्भावेक्तः। तत्पुरुषे कृति बहुलमिति बहुलवचनाद्बहुव्रीहावप्यलुक्। यद्वा। अवतेस्तृजन्तस्य सुपो डादेशः। स्वरस्तु च्छन्दसः। अरमलं तुर्फरी शत्रूणां हिंसितारौ अत एव फारिवा। फारिरायुधम्। तद्वन्तौ भवतः। स्फुरतिर्वधकर्मा। अस्माण्णिचि चिस्फुरोर्णौ। पा.६-१-५४। इत्यात्वम्। तदन्तादिप्रत्ययः। सकारलोपश्छान्दसः। छन्दसीवनिपाविति मत्वर्थीयो वनिप्। सुपो डादेशः। पतरेव पतराविव पतनशीलौ पक्षिणाविव चचरा सञ्चरन्तौ चन्द्रनिर्णिक्। निर्णिगिति रूपनाम। सुपो लुक्। चन्द्रनिर्णिजौ चन्द्र सदृशरूपयुक्तौ। यद्वा। चन्द्रमाह्लादिकं रूपं ययोस्तौ वर्तेते। मनऋङ्गा मनसा व्रसाधनं ययोस्तौ। ऋञ्जतिः प्रसाधनकर्मा। अस्माद्भावे घञ्। बहुव्रीहिस्वरः। मनन्या न मनन्यौ यथा। मनने साधू। स्तुत्यावित्यर्थः। मननशब्दात्तत्र साधुरिति यत्। तित्स्वरितम्। तादृशाविव जग्मी यज्ञं प्रत्यागमनशीलौ भवतः। गमेरादृगमहन इति किन्प्रत्ययः॥८॥

10.106.9
बृ॒हन्ते᳚व ग॒म्भरे᳚षु प्रति॒ष्ठां पादे᳚व गा॒धं तर᳚ते विदाथः ।
कर्णे᳚व॒ शासु॒रनु॒ हि स्मरा॒थों॑शे᳚व नो भजतं चि॒त्रमप्न᳚ः ॥
▶ पदपाठः (Word-by-word)
बृ॒हन्ता᳚॑इव । ग॒म्भरे᳚षु । प्र॒ति॒॑स्थाम् । पादा᳚॑इव । गा॒धम् । तर᳚ते । वि॒दा॒थः॒ ।
कर्णा᳚॑इव । शासुः᳚ । अनु᳚ । हि । स्मरा᳚थः । अंशा᳚॑इव । नः॒ । भ॒ज॒त॒म् । चि॒त्रम् । अप्नः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

बृहन्तेव बृहन्ताविव प्रांशू पुरुषौ यथा गम्भरेषु गहनेषु जलेषु प्रतिष्ठां विन्दतः तद्वग्दह्वरेषु गम्भीरेषु दुष्प्रवेशेशु स्थानेषु प्रतिष्थामवस्थितमासदं युवां विदाथः। जानीथः। पादेव पादाविव यथा तरते। षष्थ्यर्थे चतुर्थी। तरतः पुरुषस्य पादौ यथा गाधं जलं वित्तः तद्वद्युवां तार्येषु जलेषु गाधम् विदाथः। जानीथः। विद ज्ञाने। लेट्यडागमः। कर्नेव यथा कर्णावुक्तं शब्दं विदतुः तद्वद्युवां शासु शासितारं स्तुतिं कुर्वाणं जनमनु हि स्मराथः। अनुकूलं जानीथः खलु। स्मरतेर्लेट्युडागमः। हियोगादनिघातः। अधीगर्थदयेशां कर्मणि। पा. २-३-५२। इति शासुरित्यस्य षष्ठी। अंशेवांशाविव यथावयवौ तद्वन्तं यज्ञम् भजेते तद्वद्युवां नोऽस्मदीयं चित्रं चायनीयमप्नः कर्म भजतम्। आश्रयन्त। आप्नः। आप्लृ व्याप्तौ। अस्मादापः कर्माख्यायां ह्रस्वो नुट्च वा। उ. ४-२०७। इत्यसुन् तत्सन्नियोगेन ह्रस्वो नुडागमश्च। नित्स्वरेणाद्युदात्तः॥९॥

10.106.10 समानपद
आ॒र॒ङ्ग॒रेव॒ मध्वेर᳚येथे सार॒घेव॒ गवि᳚ नी॒चीन᳚बारे ।
की॒नारे᳚व॒ स्वेद᳚मासिष्विदा॒ना क्षामे᳚वो॒र्जा सू᳚यव॒सात्स᳚चेथे ॥
▶ पदपाठः (Word-by-word)
आ॒र॒ङ्ग॒रा॑इ᳚व । मधु᳚ । आ । ई॒र॒ये॒थे॒ इति᳚ । सा॒र॒घा॑इ᳚व । गवि᳚ । नी॒चीन᳚॑बारे ।
की॒नारा᳚॑इव । स्वेद᳚म् । आ॒॑सि॒स्वि॒दा॒ना । क्षाम᳚॑इव । ऊ॒र्जा । सु॒य॒व॒स॒॑अत् । स॒चे॒थे॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अरङ्गरेव। गॄ शब्दे। अस्माद्भाव ऋदोरप्। अरमलं पर्याप्तं गरः शब्दनम्। तस्य सम्बन्धिनौ। तस्येदमित्यण्। शब्दवन्तौ मेघाविव यथा मधु जलं प्रेरयतः तद्वद्युवामेरयेथे। प्रेरयथः। ईर प्रेरणे चौरादिकः। सारघेव सारघाविव। सरघा मधुमक्षिका। सरघैव सरघा। प्रज्ञादित्वादण्। पा. ५-४-३८। ते यथा नीचीनबारे नीचीनद्वारे मधुपुष्पे मधु प्रेरयतः तद्वद्युवां नीची नबारे न्यग्भुतद्वारे गवि गॊरूधसि क्षीरं प्रक्षिपथः। कीनारेव कीनाराविव कुत्सितमनुष्यौ यथा स्विद्यमानौ भवतः तद्वत्स्वेदं स्विद्यमानम् जलमासिस्विदाना समन्तात् स्वेदयन्तौ प्रक्शारयन्तौ भवथः। ञिष्विदा गात्रप्रक्षरणे। अनुदात्तेत्। तस्माच्छान्दसे लिटि कानजादेशः। क्षामेव। क्षै जै षै क्षये। अस्मादातो मनिन्। ह्रस्वश्छान्दसः। क्षामा क्षीणा गौः सुयवसात्। अदेः क्विप्। शोभनं युवसं घासादिकं भक्षयन्ती क्षीररूपेणान्नेन समवेता यथा भवति तद्वद्युवामूर्जा हवीरूपेणान्नेन सचेथे। सङ्गच्छेथे। ष च समवाये॥१०॥

10.106.11 समानपद
ऋ॒ध्याम॒ स्तोमं᳚ सनु॒याम॒ वाज॒मा नो॒ मन्त्रं᳚ स॒रथे॒होप᳚ यातम् ।
यशो॒ न प॒क्वं मधु॒ गोष्व॒न्तरा भू॒तांशो᳚ अ॒श्विनो॒ः काम᳚मप्राः ॥
▶ पदपाठः (Word-by-word)
ऋ॒ध्याम᳚ । स्तोम᳚म् । स॒नु॒याम᳚ । वाज᳚म् । आ । नः॒ । मन्त्र᳚म् । स॒॑रथा᳚ । इ॒ह । उप᳚ । या॒त॒म् ।
यशः᳚ । न । प॒क्वम् । मधु᳚ । गोषु᳚ । अ॒न्तः । आ । भू॒त॑अं᳚शः । अ॒श्विनोः᳚ । काम᳚म् । अ॒प्राः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ वयं स्तोमं त्रिवृत्पञ्चदशादिकमृध्याम। ऋध्यास् वर्धयेम। ऋधु वृद्धौ। अस्मादाशीर्लिङि किदाशिषीति यासुटः कित्त्वम्। वाजम् हविर्लक्षनमन्नं युवाभ्यां सनुयाम। प्रयच्छेम। षणु दाने तानादिकह् विधिलिङ्। वाक्यभेदादनिघातः। तस्माद्युवाम् सरथा सरथौ समानरथावेकमेव रथमारूढौ सन्ताविहास्मिन्कर्मनि सोऽस्मदीयं मन्त्रं मननीयं स्तोत्रमुपयातम्। उपागच्छतम्। गोष्वन्तर्गोरूधस्यवस्थितं पक्वं परिनतं अत एव मधु मधुरम् यशो न। यश इत्यन्ननाम। नश्चार्थे। क्षीराज्यादिलक्षणं महावीरेऽवनीयमानमन्नं चापेक्ष्यागच्छतमिति सम्बन्धः। एवमुक्तप्रकारेन भुतांश एतन्नामर्षिरश्विनोः काममभिलाषमात्मीयाभिः स्तुतिभिरप्राः। आपूरयत्। सम्पूर्णमकार्षीदित्यर्थः। प्रा पूरने आदादिकः। व्यत्ययेन मध्यमः। अत्राश्विने सूक्ते सर्वाण्यपि पदानि दुर्व्युत्पादान्यस्माभिर्दिङ्मात्रं प्रदर्शितानि। एवम् निरुक्तव्याकरनादिभिरर्थविशेषे बुद्धिमद्भिरुन्नेयानि॥११॥