श्रवणम्

10.106.9
बृ॒हन्ते᳚व ग॒म्भरे᳚षु प्रति॒ष्ठां पादे᳚व गा॒धं तर᳚ते विदाथः ।
कर्णे᳚व॒ शासु॒रनु॒ हि स्मरा॒थों॑शे᳚व नो भजतं चि॒त्रमप्न᳚ः ॥
▶ पदपाठः (Word-by-word)
बृ॒हन्ता᳚॑इव । ग॒म्भरे᳚षु । प्र॒ति॒॑स्थाम् । पादा᳚॑इव । गा॒धम् । तर᳚ते । वि॒दा॒थः॒ ।
कर्णा᳚॑इव । शासुः᳚ । अनु᳚ । हि । स्मरा᳚थः । अंशा᳚॑इव । नः॒ । भ॒ज॒त॒म् । चि॒त्रम् । अप्नः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

बृहन्तेव बृहन्ताविव प्रांशू पुरुषौ यथा गम्भरेषु गहनेषु जलेषु प्रतिष्ठां विन्दतः तद्वग्दह्वरेषु गम्भीरेषु दुष्प्रवेशेशु स्थानेषु प्रतिष्थामवस्थितमासदं युवां विदाथः। जानीथः। पादेव पादाविव यथा तरते। षष्थ्यर्थे चतुर्थी। तरतः पुरुषस्य पादौ यथा गाधं जलं वित्तः तद्वद्युवां तार्येषु जलेषु गाधम् विदाथः। जानीथः। विद ज्ञाने। लेट्यडागमः। कर्नेव यथा कर्णावुक्तं शब्दं विदतुः तद्वद्युवां शासु शासितारं स्तुतिं कुर्वाणं जनमनु हि स्मराथः। अनुकूलं जानीथः खलु। स्मरतेर्लेट्युडागमः। हियोगादनिघातः। अधीगर्थदयेशां कर्मणि। पा. २-३-५२। इति शासुरित्यस्य षष्ठी। अंशेवांशाविव यथावयवौ तद्वन्तं यज्ञम् भजेते तद्वद्युवां नोऽस्मदीयं चित्रं चायनीयमप्नः कर्म भजतम्। आश्रयन्त। आप्नः। आप्लृ व्याप्तौ। अस्मादापः कर्माख्यायां ह्रस्वो नुट्च वा। उ. ४-२०७। इत्यसुन् तत्सन्नियोगेन ह्रस्वो नुडागमश्च। नित्स्वरेणाद्युदात्तः॥९॥