श्रवणम्

10.106.3
सा॒कं॒युजा᳚ शकु॒नस्ये᳚व प॒क्षा प॒श्वेव᳚ चि॒त्रा यजु॒रा ग᳚मिष्टम् ।
अ॒ग्निरि᳚व देव॒योर्दी᳚दि॒वांसा॒ परि᳚ज्मानेव यजथः पुरु॒त्रा ॥
▶ पदपाठः (Word-by-word)
सा॒क॒म्॑युजा᳚ । श॒कु॒नस्य᳚॑इव । प॒क्षा । प॒श्वा॑इ᳚व । चि॒त्रा । यजुः᳚ । आ । ग॒मि॒ष्ट॒म् ।
अ॒ग्निः॑इ᳚व । दे॒व॒॑योः । दी॒दि॒॑वांसा᳚ । परि᳚ज्माना॑इव । य॒ज॒थः॒ । पु॒रु॒॑त्रा ॥
▶ सायणभाष्यम् (Sayana Commentary)

शकुनस्येव पक्षिण इव यथा पक्षिणः पक्षा पक्षौ संहत्य वर्तमानौ तद्वत्साकंयुजा साकम्युजौ सहावियुज्य वर्तमानौ भवथः। युजेः सत्सूद्विषेत्यादिना क्विप्। पश्वेव पशू इव। सुप आकारः। तौ यथा चायनीयौ तद्वच्छित्रा चित्रौ चायनीय युवां यजुर्यजनावस्मदीयावा गमिष्टम्। आगच्छतम्। यजेरौणादिको भाव उसिन्प्रत्ययः। गमिष्टम्। गमेर्लेटि सिब्बहुलं लेटेति सिप्। सिप आर्धधातुकत्वाद्गमेरिट् परस्मैपदेषु। पा. ७-२-५८। इतीडागमः। देवयोर्देवानिच्छतो यजमानस्य यज्ञेऽग्निरिवाग्निर्यथा हविर्भिः स्तुतिभिश्च दीप्यते तद्वद्दीदिवांसा दीदिवांसौ स्तुतिभिर्दीप्तौ भवथः। दीव्यतेः क्वसौ वस्वेकाजादिति नियमादिडभावः। वलि लोपे तुजादित्त्वादभ्यासस्य दीर्घः। प्रैज्मानेव परिज्मानाविव परितोऽजतो गच्छतः कर्मकरणार्थमिति परिज्मानावध्वर्यू इव स्थितौ युवां पुरुत्रा बहुषु देशेषु यजथः। देवान्पूजयथः। अश्विनौ हि देवानामध्वर्यू इत्याम्नानात्। ऐ. ब्रा. १-१८। यद्वा। परिज्मानेन परितो गन्तारौ पुरो वा पश्चाद्वा तौ यथा बहुषु देशेषु यजथः सङ्गच्छमानौ भवथः। यज देवपूजा सङ्गतिकरणदानेषु। पुरुत्रा। देवमनुष्येत्यादिना त्राप्रत्ययः॥३॥