दशमं मण्डलम् - सूक्तम् 25

11 ऋचः

ऋषिः: विमद ऐंद्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः देवता: सोमः छन्दः: आस्तारपंक्तिः

सूक्तम् 10.25 - सम्पूर्णम्

1 / 11
ऋक्: 10.25.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
10.25.1
भ॒द्रं नो॒ अपि᳚ वातय॒ मनो॒ दक्ष᳚मु॒त क्रतु᳚म् ।
अधा᳚ ते स॒ख्ये अन्ध᳚सो॒ वि वो॒ मदे॒ रण॒न्गावो॒ न यव᳚से॒ विव᳚क्षसे ॥
▶ पदपाठः (Word-by-word)
भ॒द्रम् । नः॒ । अपि᳚ । वा॒त॒य॒ । मनः᳚ । दक्ष᳚म् । उ॒त । क्रतु᳚म् ।
अध᳚ । ते॒ । स॒ख्ये । अन्ध᳚सः । वि । वः॒ । मदे᳚ । रण᳚न् । गावः᳚ । न । यव᳚से । विव᳚क्षसे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं नोस्मदीयं मनः भद्र्ं कल्याण तय गमय अस्माकं मनः शुभसंकल्पं कु- र्वित्यर्थः । तथा दक्षमुत कक्षमपि दक्षवृद्धौ वृद्ध सवव्यापिनं अन्तरात्मानमपि भद्रं शुभ- कारिलक्षणं प्रापय अस्माकमन्तरात्मानं शुभकारिणं कुर्वित्यर्थः । उत अपिच क्रतुं प्रज्ञानं भद्रं शुभाध्यवसायलक्षणं प्रापय शुभाध्यवसायिनं कुर्वित्यर्थः । अध अथ स्तोतारः ते तव सख्ये स्तुत्यस्तोतृत्वेज्ययष्टृत्वलक्षणे सखिकर्मणि रणन् समंताम् । तत्र दृष्टांतः—गावोन यव- से । यथा धेनवोघासे रमंते प्रीतिं कुर्वंति तद्वत् । कस्मिन् सति अन्धसः सोमाख्यस्यान्नस्य संबंधिनि वः तव विमदे विविधसोमजन्यमदनिमित्ते सति । कस्मादेवं यस्माद्विवक्षसे महान् भवसि ॥ १ ॥

10.25.2
हृ॒दि॒स्पृश᳚स्त आसते॒ विश्वे᳚षु सोम॒ धाम᳚सु ।
अधा॒ कामा᳚ इ॒मे मम॒ वि वो॒ मदे॒ वि ति᳚ष्ठन्ते वसू॒यवो॒ विव᳚क्षसे ॥
▶ पदपाठः (Word-by-word)
हृ॒दि॒॑स्पृशः᳚ । ते॒ । आ॒स॒ते॒ । विश्वे᳚षु । सो॒म॒ । धाम᳚॑सु ।
अध᳚ । कामाः᳚ । इ॒मे । मम᳚ । वि । वः॒ । मदे᳚ । वि । ति॒ष्ठ॒न्ते॒ । व॒सु॒॑यवः᳚ । विव᳚क्षसे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम ते तव हृदिस्पृशः स्तुतिभिः हृदयं स्पृशंतऋत्विजः विश्वॆषु धामसु सर्वेषु स्तानेषु आसते त्वां स्तुवंतस्तिष्ठन्ति । अध अथ इमे ईदृग्भूताः कामाः अभिलाषाः वि- वोमदे तव सोमपानजन्यविविधे मदनिमित्ते सति सोमयागार्थमित्यर्थः । वसूयवोवसुका- माः धनमिच्छन्तः मम हृदयादितिशेषः वितिष्ठन्ते उत्तिष्ठन्ति क्र्मादेवं यस्माद्विवक्षसे महान् भवसि ॥ २ ॥

10.25.3
उ॒त व्र॒तानि᳚ सोम ते॒ प्राहं मि᳚नामि पा॒क्या᳚ ।
अधा᳚ पि॒तेव᳚ सू॒नवे॒ वि वो॒ मदे᳚ मृ॒ळा नो᳚ अ॒भि चि᳚द्व॒धाद्विव᳚क्षसे ॥
▶ पदपाठः (Word-by-word)
उ॒त । व्र॒तानि᳚ । सो॒म॒ । ते॒ । प्र । अ॒हम् । मि॒ना॒मि॒ । पा॒क्या᳚ ।
अध᳚ । पि॒ता॑इ᳚व । सू॒नवे᳚ । वि । वः॒ । मदे᳚ । मृ॒ळ । नः॒ । अ॒भि । चि॒त् । व॒धात् । विव᳚क्षसे ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच हे सोम अहं ते तुभ्यं व्रतानि यागादिकर्माणि पाक्या परिपक्वया सर्वार्थ- दर्शिन्या प्रज्ञया । यद्वा पाक्येति व्रतविशेषणमेतत् पाक्यानि परिपक्वानि परिनिष्ठितानी- त्यर्थः । प्रमिनामि प्रहिनस्मि प्रकर्षेण करोमीत्यर्त्यः । अधाथ यागानंतरं विवोमदे तव विविधे मदे सति नोस्मान् मृळ सुखय अभिचिद्वधात् आभिमुख्येन् स्थित्वा शत्र्वादिव- धाच्च अस्मान् पालयेतिशेषः । तत्र दृष्टांतः—पिते वसूनवे । यथा पिता पुत्रार्थं सुखयति सर्वस्मात् पुत्रमेव पालयति तद्वत् । यस्मात्सुख्यमानः पाल्यमानश्चाहं युष्मदर्थं पुनःपुनः सोमयागं करोमि तस्मान्मां सुखय पालय चेत्यर्थः । कस्मादेवमुच्यसे यस्मात्त्वं विवक्षसे महान् भवसि महान्तश्च भक्तान् सुखयन्ति पालयन्ति चेति यावत् ॥ ३ ॥

10.25.4
समु॒ प्र य᳚न्ति धी॒तय॒ः सर्गा᳚सो॑व॒ता{4} इ᳚व ।
क्रतुं᳚ नः सोम जी॒वसे॒ वि वो॒ मदे᳚ धा॒रया᳚ चम॒सा{4} इ᳚व॒ विव᳚क्षसे ॥
▶ पदपाठः (Word-by-word)
सम् । ऊं॒ इति᳚ । प्र । य॒न्ति॒ । धी॒तयः᳚ । सर्गा᳚सः । अ॒व॒तान्॑इ᳚व ।
क्रतु᳚म् । नः॒ । सो॒म॒ । जी॒वसे᳚ । वि । वः॒ । मदे᳚ । धा॒रय᳚ । च॒म॒सान्॑इ᳚व । विव᳚क्षसे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम धीतयः देवतागुणान् दधति गृह्णन्तीति धीतयः स्तुतयः अस्मदीयाः समु सं- भूयैव प्रयन्ति । प्रकृष्टया गत्या त्वां गच्छन्ति तत्र दृष्टान्तः—सर्गासोवतानिव विसृज्यन्ते उदकपानार्थमिति सर्गागोसंघाः यन्त्रस्थाघटसंघावा ते यथा उदकपानार्थमादानार्थं वा अवतान् कूपनामैतत् कूपान् प्रतिगच्छन्ति तद्वत् त्वमप्येतत् ज्ञात्वा क्रतुं यागादिकं कर्म प्रज्ञां वा नोस्माकं जीवसे चिरंजीवनाय धारय महतादरेण स्थापय । तत्र दृष्टान्तः—चम सानिव यथा वस्तव विमदे विविधसोमजन्यमदेकर्तव्यत्वेन निमित्तभूते सति अध्वर्युर्हवि- र्धाने महता यत्नेन चमसान् सोमपात्राणिस्थापयति तद्वत् कस्मादेवमुच्यसे यस्मात्त्वं विवक्षसे महान् भवसि । यद्वाधीतयः अंगुलिनामैतत् धयन्ति पिबन्त्याभिरिति धीतयोङ्- गुलयः हे सोम त्वां समुप्रयन्ति सहैव प्रकर्षेण त्वां प्राप्नुवन्ति । किमिव अवतानिव ज- लोद्धरणार्थं विसृज्यन्तइति सर्गाः रज्जवः यथा कूपान्प्रति गच्छन्ति तद्वत् । ततस्त्वं नो- स्माकं जीवसे चिरं जीवनाय क्रतुं कर्म धारय यथा संपूर्ण भवति तथा पूरय । किमिव यथा चमसान् स्वयं पूरयसि तद्वत् ॥ ४ ॥

10.25.5
तव॒ त्ये सो᳚म॒ शक्ति᳚भि॒र्निका᳚मासो॒ व्यृ᳚ण्विरे ।
गृत्स᳚स्य॒ धीरा᳚स्त॒वसो॒ वि वो॒ मदे᳚ व्र॒जं गोम᳚न्तम॒श्विनं॒ विव᳚क्षसे ॥
▶ पदपाठः (Word-by-word)
तव᳚ । त्ये । सो॒म॒ । शक्ति᳚॑भिः । नि॑का᳚मासः । वि । ऋ॒ण्वि॒रे॒ ।
गृत्स᳚स्य । धीराः᳚ । त॒वसः᳚ । वि । वः॒ । मदे᳚ । व्र॒जम् । गो॑म᳚न्तम् । अ॒श्विन᳚म् । विव᳚क्षसे ॥
▶ सायणभाष्यम् (Sayana Commentary)

निकामासः दृष्टादृष्टफले नियतकामाः त्ये ते प्रसिद्धाधीरा मेधाविनऋत्विजः शक्ति- भिर्यागादिकर्मभिः सह हे सोम गृत्सस्य मेधाविनः तवसः महतस्तव व्यृणिवरे विविधाः स्तुतीर्गमयन्ति प्रापयन्ति कुर्वन्तीत्यर्थः । अतः कारणात् विवोमदे तव सोमपानजन्यवि- विधमदनिमित्तभूते सति अस्मभ्यं गोमंतं गोसहितं अश्विनं अश्वसहितं व्रजं गोष्ठं साम- र्थ्यान्मन्दुरा लभ्यते मन्दुरां च देहीतिशॆषः । कस्मादेवमुच्यसे यस्माद्विवक्षसे महान् भवसि ॥ ५ ॥

10.25.6
प॒शुं नः᳚ सोम रक्षसि पुरु॒त्रा विष्ठि᳚तं॒ जग᳚त् ।
स॒माकृ᳚णोषि जी॒वसे॒ वि वो॒ मदे॒ विश्वा᳚ स॒म्पश्य॒न्भुव᳚ना॒ विव᳚क्षसे ॥
▶ पदपाठः (Word-by-word)
प॒शुम् । नः॒ । सो॒म॒ । र॒क्ष॒सि॒ । पु॒रु॒॑त्रा । वि॑स्थि᳚तम् । जग᳚त् ।
स॒म्॑आकृ᳚णोषि । जी॒वसे᳚ । वि । वः॒ । मदे᳚ । विश्वा᳚ । स॒म्॑पश्य᳚न् । भुव᳚ना । विव᳚क्षसे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं नोस्मदीयं पशुं देवयागार्थमुपाकृतं रक्षसि पालयसि न केवलं पशुं किंतु पुरुत्रा बहुधा विष्ठितं सुरनरतिर्यग्योन्यादिभावेनावस्थितं जगच्च रक्षसि । किंच सत्वं समाकृणोषि जगतोवृत्तिं सम्यगाकरोषीत्यर्थ । किमर्थं जीवसे जीवनार्थम् । किं कुर्वन् विश्वा भुवना विश्वानि भुवनानि भूतजातानि संपश्यन् । किमर्थमेतदादिकं सर्वं करोषि । उच्यते—विवोमदे युष्माकंसर्वेषां देवानां विविधहविर्जन्यतृप्त्यर्थम् । अक्तंहि – इतः प्रदानमुतदेवाउपजीव न्तीति । अतएव त्वं विवक्षसे महन् भवसि महतामेतत्सर्वमु- चितमित्यर्थः ॥ ६ ॥

10.25.7
त्वं नः᳚ सोम वि॒श्वतो᳚ गो॒पा अदा᳚भ्यो भव ।
सेध᳚ राज॒न्नप॒ स्रिधो॒ वि वो॒ मदे॒ मा नो᳚ दु॒ःशंस᳚ ईशता॒ विव᳚क्षसे ॥
▶ पदपाठः (Word-by-word)
त्वम् । नः॒ । सो॒म॒ । वि॒श्वतः᳚ । गो॒पाः । अदा᳚भ्यः । भ॒व॒ ।
सेध᳚ । रा॒ज॒न् । अप᳚ । स्रिधः᳚ । वि । वः॒ । मदे᳚ । मा । नः॒ । दुः॒॑शंसः᳚ । ई॒श॒त॒ । विव᳚क्षसे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम अदाभ्यः केनाप्यहिंस्यस्त्वं विश्वतः सर्वतः नोस्माकं गोपाः रक्षिता भव । अ- पिच हे राजन् राजमान सोम त्वं स्रिधः अस्माकमुपक्षपयितॄन् अपसेध अस्मत्तः अपग- मय अपजहि च नोस्माकं दुःशंसः विद्यमानानां अविद्यमानां कर्मणां शंसिता प्रख्यापयि ता माईशत ईशिता माभूत् तव प्रसादादस्माकमपवक्ता कश्चिदपि माभूदित्यर्थः । किमर्थ- मेतत्सर्वंप्रार्थ्यसे विवोमदे तव विविधसोमादिहविर्जन्यतृप्त्यर्थम् । अतोविवक्षसे त्वं महान् भवसि ॥ ७ ॥

10.25.8
त्वं नः᳚ सोम सु॒क्रतु᳚र्वयो॒धेया᳚य जागृहि ।
क्षे॒त्र॒वित्त᳚रो॒ मनु᳚षो॒ वि वो॒ मदे᳚ द्रु॒हो नः᳚ पा॒ह्यंह᳚सो॒ विव᳚क्षसे ॥
▶ पदपाठः (Word-by-word)
त्वम् । नः॒ । सो॒म॒ । सु॒॑क्रतुः᳚ । व॒यः॒॑धेया᳚य । जा॒गृ॒हि॒ ।
क्षे॒त्र॒वित्॑त᳚रः । मनु᳚षः । वि । वः॒ । मदे᳚ । द्रु॒हः । नः॒ । पा॒हि॒ । अंह᳚सः । विव᳚क्षसे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम सुक्रतुः शोभनप्रज्ञः क्षेत्रवित्तरः क्षेत्रस्यातिशयेन लंभकः त्वं नोस्माकं वयोधे- याय अन्नदानाय जागृहि । किंच द्रुहः द्रोग्धुः मनुषोमनुष्याच्छत्रोः सकाशान्नोस्मान्पाहिर- क्ष अंहसः पापाच्च नोस्मान्पाहि । किमर्थं विवोमदे तव सोमादिहविर्जन्यतृप्त्यर्थमित्यर्थः । विवक्षसे त्वं महान् भवसि ॥ ८ ॥

10.25.9
त्वं नो᳚ वृत्रहन्त॒मेन्द्र᳚स्येन्दो शि॒वः सखा᳚ ।
यत्सीं॒ हव᳚न्ते समि॒थे वि वो॒ मदे॒ युध्य᳚मानास्तो॒कसा᳚तौ॒ विव᳚क्षसे ॥
▶ पदपाठः (Word-by-word)
त्वम् । नः॒ । वृ॒त्र॒ह॒न्॑त॒म॒ । इन्द्र᳚स्य । इ॒न्दो॒ इति᳚ । शि॒वः । सखा᳚ ।
यत् । सी॒म् । हव᳚न्ते । स॒म्॑इ॒थे । वि । वः॒ । मदे᳚ । युध्य᳚मानाः । तो॒क॑सा᳚तौ । विव᳚क्षसे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वृत्रहन्तम शत्रूणामतिशयेन हंतः हे इन्दो हे सोम यस्त्वं इन्द्रस्य शिवः सुखकरः सखा मित्रभूतोसि सत्वं नोस्मान्पाहीतिशेषः । कदेति उच्यते—तोकसातौ तोकइत्यपत्यनाम सातिः षणुदाने इत्यस्माद्धातोरूपं दीयतेस्मिन्नपत्यमितितोकसातिः संग्रामविशेषणं तस्मि- न् अतिमहतीत्यर्थः समिथे संग्रामे युद्धमानाः युद्धं कुर्वाणाः शत्रुजनाः सीं सर्वतः यद्यदा हवन्ते युद्धार्थमस्मानाह्वयन्ति तदास्माकं रक्षिताभवेत्यर्थः । कस्मिन्निमित्ते विवोमदे तव विविधहविर्जन्यहर्षनिमित्ते । विवक्षसे त्वं महान् भवसि महतां हि पालनं युक्तमेवेति ॥ ९ ॥

10.25.10
अ॒यं घ॒ स तु॒रो मद॒ इन्द्र᳚स्य वर्धत प्रि॒यः ।
अ॒यं क॒क्षीव᳚तो म॒हो वि वो॒ मदे᳚ म॒तिं विप्र᳚स्य वर्धय॒द्विव᳚क्षसे ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । घ॒ । सः । तु॒रः । मदः᳚ । इन्द्र᳚स्य । व॒र्ध॒त॒ । प्रि॒यः ।
अ॒यम् । क॒क्षीव᳚तः । म॒हः । वि । वः॒ । मदे᳚ । म॒तिम् । विप्र᳚स्य । व॒र्ध॒य॒त् । विव᳚क्षसे ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं घ ईदृशः खलु सप्रसिद्धोस्माभिरभिषुतः सोमः तुरः सर्वकार्येषु त्वरणशीलः मदो- मदकरः प्रियः इन्द्रस्य तर्पयिता वर्धत अस्मदीयां मतिं अवर्धयत् । अयं सोमः कक्षीवतः एतदाख्यस्य ऋषेः कीदृशस्य महोमहतः विप्रस्य मेधाविनः मतिं प्रज्ञां वर्धयत् अवर्धयत् । तद्वदस्माकमपि मतिमवर्धयदित्यर्थः । शिष्टं गतं ॥ १० ॥

10.25.11
अ॒यं विप्रा᳚य दा॒शुषे॒ वाजा{4}᳚ इयर्ति॒ गोम᳚तः ।
अ॒यं स॒प्तभ्य॒ आ वरं॒ वि वो॒ मदे॒ प्रान्धं श्रो॒णं च᳚ तारिष॒द्विव᳚क्षसे ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । विप्रा᳚य । दा॒शुषे᳚ । वाजा᳚न् । इ॒य॒र्ति॒ । गो॑म᳚तः ।
अ॒यम् । स॒प्त॑भ्यः᳚ । आ । वर᳚म् । वि । वः॒ । मदे᳚ । प्र । अ॒न्धम् । श्रो॒णम् । च॒ । ता॒रि॒ष॒त् । विव᳚क्षसे ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं सोमः विप्राय मेधाविने दाशुषे हविर्दत्तवते यजमानाय गोमतः पशुयुक्तानि वा- जान् अन्नानि इयर्ति प्रेरयति प्रयच्छतीत्यर्थः । किंच अयमेव सोमः सप्तभ्यः होत्राभ्यः वरं वरणीयं धनं आप्रयच्छति अन्धं नेत्रहीनं दीर्घतमसमृषिं चक्षुःप्रदानेन श्रोणं च पंगुं परावृजमृषिं चरणप्रदानेन एवमुभावृषी प्रतारिषत् प्रकर्षेण वर्धितवान् शिष्टं स्पष्टम् ॥ ११ ॥

प्रहीति नवर्चं दशमं सूक्तं आनुष्टुभं पूषदेवताकं आद्याचतुर्थ्यौ तूष्णिहौ ऋषिः पूर्ववत् तथाचानुक्रान्तम्—प्रहिनवपौष्णमानुष्टुभमाद्याचतुर्थ्याउष्णिहाविति । गतोविनियोगः ।