श्रवणम्

10.25.1
भ॒द्रं नो॒ अपि᳚ वातय॒ मनो॒ दक्ष᳚मु॒त क्रतु᳚म् ।
अधा᳚ ते स॒ख्ये अन्ध᳚सो॒ वि वो॒ मदे॒ रण॒न्गावो॒ न यव᳚से॒ विव᳚क्षसे ॥
▶ पदपाठः (Word-by-word)
भ॒द्रम् । नः॒ । अपि᳚ । वा॒त॒य॒ । मनः᳚ । दक्ष᳚म् । उ॒त । क्रतु᳚म् ।
अध᳚ । ते॒ । स॒ख्ये । अन्ध᳚सः । वि । वः॒ । मदे᳚ । रण᳚न् । गावः᳚ । न । यव᳚से । विव᳚क्षसे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं नोस्मदीयं मनः भद्र्ं कल्याण तय गमय अस्माकं मनः शुभसंकल्पं कु- र्वित्यर्थः । तथा दक्षमुत कक्षमपि दक्षवृद्धौ वृद्ध सवव्यापिनं अन्तरात्मानमपि भद्रं शुभ- कारिलक्षणं प्रापय अस्माकमन्तरात्मानं शुभकारिणं कुर्वित्यर्थः । उत अपिच क्रतुं प्रज्ञानं भद्रं शुभाध्यवसायलक्षणं प्रापय शुभाध्यवसायिनं कुर्वित्यर्थः । अध अथ स्तोतारः ते तव सख्ये स्तुत्यस्तोतृत्वेज्ययष्टृत्वलक्षणे सखिकर्मणि रणन् समंताम् । तत्र दृष्टांतः—गावोन यव- से । यथा धेनवोघासे रमंते प्रीतिं कुर्वंति तद्वत् । कस्मिन् सति अन्धसः सोमाख्यस्यान्नस्य संबंधिनि वः तव विमदे विविधसोमजन्यमदनिमित्ते सति । कस्मादेवं यस्माद्विवक्षसे महान् भवसि ॥ १ ॥