श्रवणम्

10.25.7
त्वं नः᳚ सोम वि॒श्वतो᳚ गो॒पा अदा᳚भ्यो भव ।
सेध᳚ राज॒न्नप॒ स्रिधो॒ वि वो॒ मदे॒ मा नो᳚ दु॒ःशंस᳚ ईशता॒ विव᳚क्षसे ॥
▶ पदपाठः (Word-by-word)
त्वम् । नः॒ । सो॒म॒ । वि॒श्वतः᳚ । गो॒पाः । अदा᳚भ्यः । भ॒व॒ ।
सेध᳚ । रा॒ज॒न् । अप᳚ । स्रिधः᳚ । वि । वः॒ । मदे᳚ । मा । नः॒ । दुः॒॑शंसः᳚ । ई॒श॒त॒ । विव᳚क्षसे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम अदाभ्यः केनाप्यहिंस्यस्त्वं विश्वतः सर्वतः नोस्माकं गोपाः रक्षिता भव । अ- पिच हे राजन् राजमान सोम त्वं स्रिधः अस्माकमुपक्षपयितॄन् अपसेध अस्मत्तः अपग- मय अपजहि च नोस्माकं दुःशंसः विद्यमानानां अविद्यमानां कर्मणां शंसिता प्रख्यापयि ता माईशत ईशिता माभूत् तव प्रसादादस्माकमपवक्ता कश्चिदपि माभूदित्यर्थः । किमर्थ- मेतत्सर्वंप्रार्थ्यसे विवोमदे तव विविधसोमादिहविर्जन्यतृप्त्यर्थम् । अतोविवक्षसे त्वं महान् भवसि ॥ ७ ॥