श्रवणम्

10.25.11
अ॒यं विप्रा᳚य दा॒शुषे॒ वाजा{4}᳚ इयर्ति॒ गोम᳚तः ।
अ॒यं स॒प्तभ्य॒ आ वरं॒ वि वो॒ मदे॒ प्रान्धं श्रो॒णं च᳚ तारिष॒द्विव᳚क्षसे ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । विप्रा᳚य । दा॒शुषे᳚ । वाजा᳚न् । इ॒य॒र्ति॒ । गो॑म᳚तः ।
अ॒यम् । स॒प्त॑भ्यः᳚ । आ । वर᳚म् । वि । वः॒ । मदे᳚ । प्र । अ॒न्धम् । श्रो॒णम् । च॒ । ता॒रि॒ष॒त् । विव᳚क्षसे ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं सोमः विप्राय मेधाविने दाशुषे हविर्दत्तवते यजमानाय गोमतः पशुयुक्तानि वा- जान् अन्नानि इयर्ति प्रेरयति प्रयच्छतीत्यर्थः । किंच अयमेव सोमः सप्तभ्यः होत्राभ्यः वरं वरणीयं धनं आप्रयच्छति अन्धं नेत्रहीनं दीर्घतमसमृषिं चक्षुःप्रदानेन श्रोणं च पंगुं परावृजमृषिं चरणप्रदानेन एवमुभावृषी प्रतारिषत् प्रकर्षेण वर्धितवान् शिष्टं स्पष्टम् ॥ ११ ॥

प्रहीति नवर्चं दशमं सूक्तं आनुष्टुभं पूषदेवताकं आद्याचतुर्थ्यौ तूष्णिहौ ऋषिः पूर्ववत् तथाचानुक्रान्तम्—प्रहिनवपौष्णमानुष्टुभमाद्याचतुर्थ्याउष्णिहाविति । गतोविनियोगः ।