श्रवणम्

10.25.6
प॒शुं नः᳚ सोम रक्षसि पुरु॒त्रा विष्ठि᳚तं॒ जग᳚त् ।
स॒माकृ᳚णोषि जी॒वसे॒ वि वो॒ मदे॒ विश्वा᳚ स॒म्पश्य॒न्भुव᳚ना॒ विव᳚क्षसे ॥
▶ पदपाठः (Word-by-word)
प॒शुम् । नः॒ । सो॒म॒ । र॒क्ष॒सि॒ । पु॒रु॒॑त्रा । वि॑स्थि᳚तम् । जग᳚त् ।
स॒म्॑आकृ᳚णोषि । जी॒वसे᳚ । वि । वः॒ । मदे᳚ । विश्वा᳚ । स॒म्॑पश्य᳚न् । भुव᳚ना । विव᳚क्षसे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं नोस्मदीयं पशुं देवयागार्थमुपाकृतं रक्षसि पालयसि न केवलं पशुं किंतु पुरुत्रा बहुधा विष्ठितं सुरनरतिर्यग्योन्यादिभावेनावस्थितं जगच्च रक्षसि । किंच सत्वं समाकृणोषि जगतोवृत्तिं सम्यगाकरोषीत्यर्थ । किमर्थं जीवसे जीवनार्थम् । किं कुर्वन् विश्वा भुवना विश्वानि भुवनानि भूतजातानि संपश्यन् । किमर्थमेतदादिकं सर्वं करोषि । उच्यते—विवोमदे युष्माकंसर्वेषां देवानां विविधहविर्जन्यतृप्त्यर्थम् । अक्तंहि – इतः प्रदानमुतदेवाउपजीव न्तीति । अतएव त्वं विवक्षसे महन् भवसि महतामेतत्सर्वमु- चितमित्यर्थः ॥ ६ ॥