श्रवणम्

10.25.9
त्वं नो᳚ वृत्रहन्त॒मेन्द्र᳚स्येन्दो शि॒वः सखा᳚ ।
यत्सीं॒ हव᳚न्ते समि॒थे वि वो॒ मदे॒ युध्य᳚मानास्तो॒कसा᳚तौ॒ विव᳚क्षसे ॥
▶ पदपाठः (Word-by-word)
त्वम् । नः॒ । वृ॒त्र॒ह॒न्॑त॒म॒ । इन्द्र᳚स्य । इ॒न्दो॒ इति᳚ । शि॒वः । सखा᳚ ।
यत् । सी॒म् । हव᳚न्ते । स॒म्॑इ॒थे । वि । वः॒ । मदे᳚ । युध्य᳚मानाः । तो॒क॑सा᳚तौ । विव᳚क्षसे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वृत्रहन्तम शत्रूणामतिशयेन हंतः हे इन्दो हे सोम यस्त्वं इन्द्रस्य शिवः सुखकरः सखा मित्रभूतोसि सत्वं नोस्मान्पाहीतिशेषः । कदेति उच्यते—तोकसातौ तोकइत्यपत्यनाम सातिः षणुदाने इत्यस्माद्धातोरूपं दीयतेस्मिन्नपत्यमितितोकसातिः संग्रामविशेषणं तस्मि- न् अतिमहतीत्यर्थः समिथे संग्रामे युद्धमानाः युद्धं कुर्वाणाः शत्रुजनाः सीं सर्वतः यद्यदा हवन्ते युद्धार्थमस्मानाह्वयन्ति तदास्माकं रक्षिताभवेत्यर्थः । कस्मिन्निमित्ते विवोमदे तव विविधहविर्जन्यहर्षनिमित्ते । विवक्षसे त्वं महान् भवसि महतां हि पालनं युक्तमेवेति ॥ ९ ॥