श्रवणम्

10.25.3
उ॒त व्र॒तानि᳚ सोम ते॒ प्राहं मि᳚नामि पा॒क्या᳚ ।
अधा᳚ पि॒तेव᳚ सू॒नवे॒ वि वो॒ मदे᳚ मृ॒ळा नो᳚ अ॒भि चि᳚द्व॒धाद्विव᳚क्षसे ॥
▶ पदपाठः (Word-by-word)
उ॒त । व्र॒तानि᳚ । सो॒म॒ । ते॒ । प्र । अ॒हम् । मि॒ना॒मि॒ । पा॒क्या᳚ ।
अध᳚ । पि॒ता॑इ᳚व । सू॒नवे᳚ । वि । वः॒ । मदे᳚ । मृ॒ळ । नः॒ । अ॒भि । चि॒त् । व॒धात् । विव᳚क्षसे ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच हे सोम अहं ते तुभ्यं व्रतानि यागादिकर्माणि पाक्या परिपक्वया सर्वार्थ- दर्शिन्या प्रज्ञया । यद्वा पाक्येति व्रतविशेषणमेतत् पाक्यानि परिपक्वानि परिनिष्ठितानी- त्यर्थः । प्रमिनामि प्रहिनस्मि प्रकर्षेण करोमीत्यर्त्यः । अधाथ यागानंतरं विवोमदे तव विविधे मदे सति नोस्मान् मृळ सुखय अभिचिद्वधात् आभिमुख्येन् स्थित्वा शत्र्वादिव- धाच्च अस्मान् पालयेतिशेषः । तत्र दृष्टांतः—पिते वसूनवे । यथा पिता पुत्रार्थं सुखयति सर्वस्मात् पुत्रमेव पालयति तद्वत् । यस्मात्सुख्यमानः पाल्यमानश्चाहं युष्मदर्थं पुनःपुनः सोमयागं करोमि तस्मान्मां सुखय पालय चेत्यर्थः । कस्मादेवमुच्यसे यस्मात्त्वं विवक्षसे महान् भवसि महान्तश्च भक्तान् सुखयन्ति पालयन्ति चेति यावत् ॥ ३ ॥